Ṛgveda · Maṇḍala 10 · Sūkta 140

Ṛk 10.140.6

Agni · Agni Pāvaka

The whole sūkta Link

Saṃhitā

ऋ॒तावा॑नं महि॒षं वि॒श्वद॑र्शतम॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जनाः॑ ।
श्रुत्क॑र्णं स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒ मानु॑षा यु॒गा ॥

ऋतावानम् महिषं विश्वदर्शतम् अग्निं सुम्नाय दधिरे पुरो जनाः |
श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यम् मानुषा युगा ||

ṛtā́vānam mahiṣám viśvádarśatamagním sumnā́ya dadhire puró jánāḥ ǀ
śrútkarṇam sapráthastamam tvā girā́ dáivyam mā́nuṣā yugā́ ǁ

ṛtāvānam mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ |
śrutkarṇaṃ saprathastamaṃ tvā girā daivyam mānuṣā yugā ||

Padapāṭha

ऋ॒तऽवा॑नम् । म॒हि॒षम् । वि॒श्वऽद॑र्शतम् । अ॒ग्निम् । सु॒म्नाय॑ । द॒धि॒रे॒ । पु॒रः । जनाः॑ ।
श्रुत्ऽक॑र्णम् । स॒प्रथः॑ऽतमम् । त्वा॒ । गि॒रा । दैव्य॑म् । मानु॑षा । यु॒गा ॥

ऋतऽवानम् । महिषम् । विश्वऽदर्शतम् । अग्निम् । सुम्नाय । दधिरे । पुरः । जनाः ।
श्रुत्ऽकर्णम् । सप्रथःऽतमम् । त्वा । गिरा । दैव्यम् । मानुषा । युगा ॥

ṛtá-vānam ǀ mahiṣám ǀ viśvá-darśatam ǀ agním ǀ sumnā́ya ǀ dadhire ǀ puráḥ ǀ jánāḥ ǀ
śrút-karṇam ǀ sapráthaḥ-tamam ǀ tvā ǀ girā́ ǀ dáivyam ǀ mā́nuṣā ǀ yugā́ ǁ

ṛta-vānam ǀ mahiṣam ǀ viśva-darśatam ǀ agnim ǀ sumnāya ǀ dadhire ǀ puraḥ ǀ janāḥ ǀ
śrut-karṇam ǀ saprathaḥ-tamam ǀ tvā ǀ girā ǀ daivyam ǀ mānuṣā ǀ yugā ǁ

References

Maṇḍala · Sūkta · Ṛk
10.140.06
Aṣṭaka · Adhyāya · Varga · Ṛk
8.7.28.06
Maṇḍala · Anuvāka · Ṛk
10.11.081
Devatā देवता
Agni
Ṛṣi ऋषि
Agni Pāvaka
Chandas छन्दस्
Satobṛhatī, Viṣṭārapaṅkti, Upariṣṭājjyotis, Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.140.6

Interpretations

Sāyaṇa

ऋतावानं सत्यवन्तं यज्ञवन्तं वा। छन्दसीवनिपाविति मत्वर्थीयो वनिप्। महिषं महान्तं पूज्यं वा विश्वदर्शतं विश्वैः सर्वैर्दर्शनीयम्। यद्वा। विश्वं दर्शनं यस्य। बहव्रीहौ विश्वं संज्ञायामिति पूर्वपदान्तोदात्तत्वम्। ईदृशमग्निं सुम्नाय सुखार्थं जना ऋत्विग्यजमानरूपाः पुरो दधिरे। पुरो दधते। सर्वकर्मभ्यः पुरस्ताद्धारयन्ति। यद्वा। पुरः पुरस्तात्पूर्वस्यां दिश्याहवनीयरूपेण धारयन्ति। परोऽर्धर्चः प्रत्यक्षकृतः। अपि च हे अग्ने श्रुत्कर्णं श्रुत् स्तुतीः सम्यक् शृण्वन्कर्णः श्रोत्रेन्द्रियं यस्य तादृशं सप्रथस्तममतिशयेन प्रख्यातं यद्वा सर्वतो विस्तार्यमाणं दैव्यं देवानां हविर्वोढृत्वेन सम्बन्धिनं ईदृशं त्वा त्वां मानुषा मानुषाणि मनोरपत्यानि युगा युगानि युगलानि पत्नीयजमानरूपाणि गिरा स्तुत्या स्तुवन्तीति शेषः॥६॥