Ṛgveda · Maṇḍala 10 · Sūkta 55
Ṛk 10.55.2
Saṃhitā
म॒हत्तन्नाम॒ गुह्यं॑ पुरु॒स्पृग्येन॑ भू॒तं ज॒नयो॒ येन॒ भव्यं॑ ।
प्र॒त्नं जा॒तं ज्योति॒र्यद॑स्य प्रि॒यं प्रि॒याः सम॑विशंत॒ पंच॑ ॥
महत् तन् नाम गुह्यम् पुरुस्पृग् येन भूतं जनयो येन भव्यम् |
प्रत्नं जातं ज्योतिर् यद् अस्य प्रियम् प्रियाः सम् अविशन्त पञ्च ||
maháttánnā́ma gúhyam puruspṛ́gyéna bhūtám janáyo yéna bhávyam ǀ
pratnám jātám jyótiryádasya priyám priyā́ḥ sámaviśanta páñca ǁ
mahat tan nāma guhyam puruspṛg yena bhūtaṃ janayo yena bhavyam |
pratnaṃ jātaṃ jyotir yad asya priyam priyāḥ sam aviśanta pañca ||
Padapāṭha
म॒हत् । तत् । नाम॑ । गुह्य॑म् । पु॒रु॒ऽस्पृक् । येन॑ । भू॒तम् । ज॒नयः॑ । येन॑ । भव्य॑म् ।
प्र॒त्नम् । जा॒तम् । ज्योतिः॑ । यत् । अ॒स्य॒ । प्रि॒यम् । प्रि॒याः । सम् । अ॒वि॒श॒न्त॒ । पञ्च॑ ॥
महत् । तत् । नाम । गुह्यम् । पुरुऽस्पृक् । येन । भूतम् । जनयः । येन । भव्यम् ।
प्रत्नम् । जातम् । ज्योतिः । यत् । अस्य । प्रियम् । प्रियाः । सम् । अविशन्त । पञ्च ॥
mahát ǀ tát ǀ nā́ma ǀ gúhyam ǀ puru-spṛ́k ǀ yéna ǀ bhūtám ǀ janáyaḥ ǀ yéna ǀ bhávyam ǀ
pratnám ǀ jātám ǀ jyótiḥ ǀ yát ǀ asya ǀ priyám ǀ priyā́ḥ ǀ sám ǀ aviśanta ǀ páñca ǁ
mahat ǀ tat ǀ nāma ǀ guhyam ǀ puru-spṛk ǀ yena ǀ bhūtam ǀ janayaḥ ǀ yena ǀ bhavyam ǀ
pratnam ǀ jātam ǀ jyotiḥ ǀ yat ǀ asya ǀ priyam ǀ priyāḥ ǀ sam ǀ aviśanta ǀ pañca ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.055.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.16.02
- Maṇḍala · Anuvāka · Ṛk
- 10.04.115
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bṛhaduktha Vāmadevya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.