Ṛgveda · Maṇḍala 10 · Sūkta 55
Ṛk 10.55.8
Saṃhitā
यु॒जा कर्मा॑णि ज॒नय॑न्वि॒श्वौजा॑ अशस्ति॒हा वि॒श्वम॑नास्तुरा॒षाट् ।
पी॒त्वी सोम॑स्य दि॒व आ वृ॑धा॒नः शूरो॒ निर्यु॒धाध॑म॒द्दस्यू॑न् ॥
युजा कर्माणि जनयन् विश्वौजा अशस्तिहा विश्वमनास् तुराषाट् |
पीत्वी सोमस्य दिव आ वृधानः शूरो निर् युधाधमद् दस्यून् ||
yujā́ kármāṇi janáyanviśváujā aśastihā́ viśvámanāsturāṣā́ṭ ǀ
pītvī́ sómasya divá ā́ vṛdhānáḥ śū́ro níryudhā́dhamaddásyūn ǁ
yujā karmāṇi janayan viśvaujā aśastihā viśvamanās turāṣāṭ |
pītvī somasya diva ā vṛdhānaḥ śūro nir yudhādhamad dasyūn ||
Padapāṭha
यु॒जा । कर्मा॑णि । ज॒नय॑न् । वि॒श्वऽओ॑जाः । अ॒श॒स्ति॒ऽहा । वि॒श्वऽम॑नाः । तु॒रा॒षाट् ।
पी॒त्वी । सोम॑स्य । दि॒वः । आ । वृ॒धा॒नः । शूरः॑ । निः । यु॒धा । अ॒ध॒म॒त् । दस्यू॑न् ॥
युजा । कर्माणि । जनयन् । विश्वऽओजाः । अशस्तिऽहा । विश्वऽमनाः । तुराषाट् ।
पीत्वी । सोमस्य । दिवः । आ । वृधानः । शूरः । निः । युधा । अधमत् । दस्यून् ॥
yujā́ ǀ kármāṇi ǀ janáyan ǀ viśvá-ojāḥ ǀ aśasti-hā́ ǀ viśvá-manāḥ ǀ turāṣā́ṭ ǀ
pītvī́ ǀ sómasya ǀ diváḥ ǀ ā́ ǀ vṛdhānáḥ ǀ śū́raḥ ǀ níḥ ǀ yudhā́ ǀ adhamat ǀ dásyūn ǁ
yujā ǀ karmāṇi ǀ janayan ǀ viśva-ojāḥ ǀ aśasti-hā ǀ viśva-manāḥ ǀ turāṣāṭ ǀ
pītvī ǀ somasya ǀ divaḥ ǀ ā ǀ vṛdhānaḥ ǀ śūraḥ ǀ niḥ ǀ yudhā ǀ adhamat ǀ dasyūn ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.055.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.17.03
- Maṇḍala · Anuvāka · Ṛk
- 10.04.121
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bṛhaduktha Vāmadevya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.