Ṛgveda · Maṇḍala 10 · Sūkta 55
Ṛk 10.55.7
Saṃhitā
ऐभि॑र्ददे॒ वृष्ण्या॒ पौंस्या॑नि॒ येभि॒रौक्ष॑द्वृत्र॒हत्या॑य व॒ज्री ।
ये कर्म॑णः क्रि॒यमा॑णस्य म॒ह्न ऋ॑तेक॒र्ममु॒दजा॑यंत दे॒वाः ॥
ऐभिर् ददे वृष्ण्या पौंस्यानि येभिर् औक्षद् वृत्रहत्याय वज्री |
ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्मम् उदजायन्त देवाः ||
áibhirdade vṛ́ṣṇyā páuṃsyāni yébhiráukṣadvṛtrahátyāya vajrī́ ǀ
yé kármaṇaḥ kriyámāṇasya mahná ṛtekarmámudájāyanta devā́ḥ ǁ
aibhir dade vṛṣṇyā pauṃsyāni yebhir aukṣad vṛtrahatyāya vajrī |
ye karmaṇaḥ kriyamāṇasya mahna ṛtekarmam udajāyanta devāḥ ||
Padapāṭha
आ । ए॒भिः॒ । द॒दे॒ । वृष्ण्या॑ । पौंस्या॑नि । येभिः॑ । औक्ष॑त् । वृ॒त्र॒ऽहत्या॑य । व॒ज्री ।
ये । कर्म॑णः । क्रि॒यमा॑णस्य । म॒ह्ना । ऋ॒ते॒ऽक॒र्मम् । उ॒त्ऽअजा॑यन्त । दे॒वाः ॥
आ । एभिः । ददे । वृष्ण्या । पौंस्यानि । येभिः । औक्षत् । वृत्रऽहत्याय । वज्री ।
ये । कर्मणः । क्रियमाणस्य । मह्ना । ऋतेऽकर्मम् । उत्ऽअजायन्त । देवाः ॥
ā́ ǀ ebhiḥ ǀ dade ǀ vṛ́ṣṇyā ǀ páuṃsyāni ǀ yébhiḥ ǀ áukṣat ǀ vṛtra-hátyāya ǀ vajrī́ ǀ
yé ǀ kármaṇaḥ ǀ kriyámāṇasya ǀ mahnā́ ǀ ṛte-karmám ǀ ut-ájāyanta ǀ devā́ḥ ǁ
ā ǀ ebhiḥ ǀ dade ǀ vṛṣṇyā ǀ pauṃsyāni ǀ yebhiḥ ǀ aukṣat ǀ vṛtra-hatyāya ǀ vajrī ǀ
ye ǀ karmaṇaḥ ǀ kriyamāṇasya ǀ mahnā ǀ ṛte-karmam ǀ ut-ajāyanta ǀ devāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.055.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.17.02
- Maṇḍala · Anuvāka · Ṛk
- 10.04.120
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bṛhaduktha Vāmadevya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.