Ṛgveda · Maṇḍala 10 · Sūkta 55
Ṛk 10.55.4
Saṃhitā
यदु॑ष॒ औच्छः॑ प्रथ॒मा वि॒भाना॒मज॑नयो॒ येन॑ पु॒ष्टस्य॑ पु॒ष्टं ।
यत्ते॑ जामि॒त्वमव॑रं॒ पर॑स्या म॒हन्म॑ह॒त्या अ॑सुर॒त्वमेकं॑ ॥
यद् उष औच्छः प्रथमा विभानाम् अजनयो येन पुष्टस्य पुष्टम् |
यत् ते जामित्वम् अवरम् परस्या महन् महत्या असुरत्वम् एकम् ||
yáduṣa áucchaḥ prathamā́ vibhā́nāmájanayo yéna puṣṭásya puṣṭám ǀ
yátte jāmitvámávaram párasyā mahánmahatyā́ asuratvámékam ǁ
yad uṣa aucchaḥ prathamā vibhānām ajanayo yena puṣṭasya puṣṭam |
yat te jāmitvam avaram parasyā mahan mahatyā asuratvam ekam ||
Padapāṭha
यत् । उ॒षः॒ । औच्छः॑ । प्र॒थ॒मा । वि॒ऽभाना॑म् । अज॑नयः । येन॑ । पु॒ष्टस्य॑ । पु॒ष्टम् ।
यत् । ते॒ । जा॒मि॒ऽत्वम् । अव॑रम् । पर॑स्याः । म॒हत् । म॒ह॒त्याः । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
यत् । उषः । औच्छः । प्रथमा । विऽभानाम् । अजनयः । येन । पुष्टस्य । पुष्टम् ।
यत् । ते । जामिऽत्वम् । अवरम् । परस्याः । महत् । महत्याः । असुरऽत्वम् । एकम् ॥
yát ǀ uṣaḥ ǀ áucchaḥ ǀ prathamā́ ǀ vi-bhā́nām ǀ ájanayaḥ ǀ yéna ǀ puṣṭásya ǀ puṣṭám ǀ
yát ǀ te ǀ jāmi-tvám ǀ ávaram ǀ párasyāḥ ǀ mahát ǀ mahatyā́ḥ ǀ asura-tvám ǀ ékam ǁ
yat ǀ uṣaḥ ǀ aucchaḥ ǀ prathamā ǀ vi-bhānām ǀ ajanayaḥ ǀ yena ǀ puṣṭasya ǀ puṣṭam ǀ
yat ǀ te ǀ jāmi-tvam ǀ avaram ǀ parasyāḥ ǀ mahat ǀ mahatyāḥ ǀ asura-tvam ǀ ekam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.055.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.16.04
- Maṇḍala · Anuvāka · Ṛk
- 10.04.117
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bṛhaduktha Vāmadevya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.