Ṛgveda · Maṇḍala 10 · Sūkta 76
Ṛk 10.76.2
Saṃhitā
तदु॒ श्रेष्ठं॒ सव॑नं सुनोत॒नात्यो॒ न हस्त॑यतो॒ अद्रिः॑ सो॒तरि॑ ।
वि॒दद्ध्य१॒॑र्यो अ॒भिभू॑ति॒ पौंस्यं॑ म॒हो रा॒ये चि॑त्तरुते॒ यदर्व॑तः ॥
तद् उ श्रेष्ठं सवनं सुनोतनात्यो न हस्तयतो अद्रिः सोतरि |
विदद् ध्य् अर्यो अभिभूति पौंस्यम् महो राये चित् तरुते यद् अर्वतः ||
tádu śréṣṭham sávanam sunotanā́tyo ná hástayato ádriḥ sotári ǀ
vidáddhyáryó abhíbhūti páuṃsyam mahó rāyé cittarute yádárvataḥ ǁ
tad u śreṣṭhaṃ savanaṃ sunotanātyo na hastayato adriḥ sotari |
vidad dhy aryo abhibhūti pauṃsyam maho rāye cit tarute yad arvataḥ ||
Padapāṭha
तत् । ऊं॒ इति॑ । श्रेष्ठ॑म् । सव॑नम् । सु॒नो॒त॒न॒ । अत्यः॑ । न । हस्त॑ऽयतः । अद्रिः॑ । सो॒तरि॑ ।
वि॒दत् । हि । अ॒र्यः । अ॒भिऽभू॑ति । पौंस्य॑म् । म॒हः । रा॒ये । चि॒त् । त॒रु॒ते॒ । यत् । अर्व॑तः ॥
तत् । ऊं इति । श्रेष्ठम् । सवनम् । सुनोतन । अत्यः । न । हस्तऽयतः । अद्रिः । सोतरि ।
विदत् । हि । अर्यः । अभिऽभूति । पौंस्यम् । महः । राये । चित् । तरुते । यत् । अर्वतः ॥
tát ǀ ūṃ íti ǀ śréṣṭham ǀ sávanam ǀ sunotana ǀ átyaḥ ǀ ná ǀ hásta-yataḥ ǀ ádriḥ ǀ sotári ǀ
vidát ǀ hí ǀ aryáḥ ǀ abhí-bhūti ǀ páuṃsyam ǀ maháḥ ǀ rāyé ǀ cit ǀ tarute ǀ yát ǀ árvataḥ ǁ
tat ǀ ūṃ iti ǀ śreṣṭham ǀ savanam ǀ sunotana ǀ atyaḥ ǀ na ǀ hasta-yataḥ ǀ adriḥ ǀ sotari ǀ
vidat ǀ hi ǀ aryaḥ ǀ abhi-bhūti ǀ pauṃsyam ǀ mahaḥ ǀ rāye ǀ cit ǀ tarute ǀ yat ǀ arvataḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.076.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.08.02
- Maṇḍala · Anuvāka · Ṛk
- 10.06.071
- Devatā देवता
- Grāvāṇaḥ
- Ṛṣi ऋषि
- Jaratkarṇa Airāvata
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.