Ṛgveda · Maṇḍala 10 · Sūkta 76
Ṛk 10.76.3
Saṃhitā
तदिद्ध्य॑स्य॒ सव॑नं वि॒वेर॒पो यथा॑ पु॒रा मन॑वे गा॒तुमश्रे॑त् ।
गोअ॑र्णसि त्वा॒ष्ट्रे अश्व॑निर्णिजि॒ प्रेम॑ध्व॒रेष्व॑ध्व॒राँ अ॑शिश्रयुः ॥
तद् इद् ध्य् अस्य सवनं विवेर् अपो यथा पुरा मनवे गातुम् अश्रेत् |
गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि प्रेम् अध्वरेष्व् अध्वरां अशिश्रयुः ||
tádíddhyásya sávanam vivérapó yáthā purā́ mánave gātúmáśret ǀ
góarṇasi tvāṣṭré áśvanirṇiji prémadhvaréṣvadhvarā́m̐ aśiśrayuḥ ǁ
tad id dhy asya savanaṃ viver apo yathā purā manave gātum aśret |
goarṇasi tvāṣṭre aśvanirṇiji prem adhvareṣv adhvarāṃ aśiśrayuḥ ||
Padapāṭha
तत् । इत् । हि । अ॒स्य॒ । सव॑नम् । वि॒वेः । अ॒पः । यथा॑ । पु॒रा । मन॑वे । गा॒तुम् । अश्रे॑त् ।
गोऽअ॑र्णसि । त्वा॒ष्ट्रे । अश्व॑ऽनिर्निजि । प्र । ई॒म् । अ॒ध्व॒रेषु॑ । अ॒ध्व॒रान् । अ॒शि॒श्र॒युः॒ ॥
तत् । इत् । हि । अस्य । सवनम् । विवेः । अपः । यथा । पुरा । मनवे । गातुम् । अश्रेत् ।
गोऽअर्णसि । त्वाष्ट्रे । अश्वऽनिर्निजि । प्र । ईम् । अध्वरेषु । अध्वरान् । अशिश्रयुः ॥
tát ǀ ít ǀ hí ǀ asya ǀ sávanam ǀ vivéḥ ǀ apáḥ ǀ yáthā ǀ purā́ ǀ mánave ǀ gātúm ǀ áśret ǀ
gó-arṇasi ǀ tvāṣṭré ǀ áśva-nirniji ǀ prá ǀ īm ǀ adhvaréṣu ǀ adhvarā́n ǀ aśiśrayuḥ ǁ
tat ǀ it ǀ hi ǀ asya ǀ savanam ǀ viveḥ ǀ apaḥ ǀ yathā ǀ purā ǀ manave ǀ gātum ǀ aśret ǀ
go-arṇasi ǀ tvāṣṭre ǀ aśva-nirniji ǀ pra ǀ īm ǀ adhvareṣu ǀ adhvarān ǀ aśiśrayuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.076.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.08.03
- Maṇḍala · Anuvāka · Ṛk
- 10.06.072
- Devatā देवता
- Grāvāṇaḥ
- Ṛṣi ऋषि
- Jaratkarṇa Airāvata
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.