Ṛgveda · Maṇḍala 10 · Sūkta 78
Ṛk 10.78.3
Saṃhitā
वाता॑सो॒ न ये धुन॑यो जिग॒त्नवो॑ऽग्नी॒नां न जि॒ह्वा वि॑रो॒किणः॑ ।
वर्म॑ण्वंतो॒ न यो॒धाः शिमी॑वंतः पितॄ॒णां न शंसाः॑ सुरा॒तयः॑ ॥
वातासो न ये धुनयो जिगत्नवो ऽग्नीनां न जिह्वा विरोकिणः |
वर्मण्वन्तो न योधाः शिमीवन्तः पितॄणां न शंसाः सुरातयः ||
vā́tāso ná yé dhúnayo jigatnávo’gnīnā́m ná jihvā́ virokíṇaḥ ǀ
vármaṇvanto ná yodhā́ḥ śímīvantaḥ pitṝṇā́m ná śáṃsāḥ surātáyaḥ ǁ
vātāso na ye dhunayo jigatnavo 'gnīnāṃ na jihvā virokiṇaḥ |
varmaṇvanto na yodhāḥ śimīvantaḥ pitṝṇāṃ na śaṃsāḥ surātayaḥ ||
Padapāṭha
वाता॑सः । न । ये । धुन॑यः । जि॒ग॒त्नवः॑ । अ॒ग्नी॒नाम् । न । जि॒ह्वाः । वि॒ऽरो॒किणः॑ ।
वर्म॑ण्ऽवन्तः॑ । न । यो॒धाः । शिमी॑ऽवन्तः । पि॒तॄ॒णाम् । न । शंसाः॑ । सु॒ऽरा॒तयः॑ ॥
वातासः । न । ये । धुनयः । जिगत्नवः । अग्नीनाम् । न । जिह्वाः । विऽरोकिणः ।
वर्मण्ऽवन्तः । न । योधाः । शिमीऽवन्तः । पितॄणाम् । न । शंसाः । सुऽरातयः ॥
vā́tāsaḥ ǀ ná ǀ yé ǀ dhúnayaḥ ǀ jigatnávaḥ ǀ agnīnā́m ǀ ná ǀ jihvā́ḥ ǀ vi-rokíṇaḥ ǀ
vármaṇ-vantaḥ ǀ ná ǀ yodhā́ḥ ǀ śímī-vantaḥ ǀ pitṝṇā́m ǀ ná ǀ śáṃsāḥ ǀ su-rātáyaḥ ǁ
vātāsaḥ ǀ na ǀ ye ǀ dhunayaḥ ǀ jigatnavaḥ ǀ agnīnām ǀ na ǀ jihvāḥ ǀ vi-rokiṇaḥ ǀ
varmaṇ-vantaḥ ǀ na ǀ yodhāḥ ǀ śimī-vantaḥ ǀ pitṝṇām ǀ na ǀ śaṃsāḥ ǀ su-rātayaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.078.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.12.03
- Maṇḍala · Anuvāka · Ṛk
- 10.06.088
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Syūmaraśmi Bhārgava
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.