Ṛgveda · Maṇḍala 10 · Sūkta 78

Ṛk 10.78.8

Maruts · Syūmaraśmi Bhārgava

The whole sūkta Link

Saṃhitā

सु॒भा॒गान्नो॑ देवाः कृणुता सु॒रत्ना॑न॒स्मान्त्स्तो॒तॄन्म॑रुतो वावृधा॒नाः ।
अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गात स॒नाद्धि वो॑ रत्न॒धेया॑नि॒ संति॑ ॥

सुभागान् नो देवाः कृणुता सुरत्नान् अस्मान् स्तोतॄन् मरुतो वावृधानाः |
अधि स्तोत्रस्य सख्यस्य गात सनाद् धि वो रत्नधेयानि सन्ति ||

subhāgā́nno devāḥ kṛṇutā surátnānasmā́ntstotṝ́nmaruto vāvṛdhānā́ḥ ǀ
ádhi stotrásya sakhyásya gāta sanā́ddhí vo ratnadhéyāni sánti ǁ

subhāgān no devāḥ kṛṇutā suratnān asmān stotṝn maruto vāvṛdhānāḥ |
adhi stotrasya sakhyasya gāta sanād dhi vo ratnadheyāni santi ||

Padapāṭha

सु॒ऽभा॒गान् । नः॒ । दे॒वाः॒ । कृ॒णु॒त॒ । सु॒ऽरत्ना॑न् । अ॒स्मान् । स्तो॒तॄन् । म॒रु॒तः॒ । व॒वृ॒धा॒नाः ।
अधि॑ । स्तो॒त्रस्य॑ । स॒ख्यस्य॑ । गा॒त॒ । स॒नात् । हि । वः॒ । र॒त्न॒ऽधेया॑नि । सन्ति॑ ॥

सुऽभागान् । नः । देवाः । कृणुत । सुऽरत्नान् । अस्मान् । स्तोतॄन् । मरुतः । ववृधानाः ।
अधि । स्तोत्रस्य । सख्यस्य । गात । सनात् । हि । वः । रत्नऽधेयानि । सन्ति ॥

su-bhāgā́n ǀ naḥ ǀ devāḥ ǀ kṛṇuta ǀ su-rátnān ǀ asmā́n ǀ stotṝ́n ǀ marutaḥ ǀ vavṛdhānā́ḥ ǀ
ádhi ǀ stotrásya ǀ sakhyásya ǀ gāta ǀ sanā́t ǀ hí ǀ vaḥ ǀ ratna-dhéyāni ǀ sánti ǁ

su-bhāgān ǀ naḥ ǀ devāḥ ǀ kṛṇuta ǀ su-ratnān ǀ asmān ǀ stotṝn ǀ marutaḥ ǀ vavṛdhānāḥ ǀ
adhi ǀ stotrasya ǀ sakhyasya ǀ gāta ǀ sanāt ǀ hi ǀ vaḥ ǀ ratna-dheyāni ǀ santi ǁ

References

Maṇḍala · Sūkta · Ṛk
10.078.08
Aṣṭaka · Adhyāya · Varga · Ṛk
8.3.13.03
Maṇḍala · Anuvāka · Ṛk
10.06.093
Devatā देवता
Maruts
Ṛṣi ऋषि
Syūmaraśmi Bhārgava
Chandas छन्दस्
Triṣṭubh, Jagatī
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.78.8

Interpretations

Sāyaṇa

अनया स्तुतिमुपसंहरति। हे मरुतो देवाः ववृधानाः स्तुत्यावर्धमाना यूयम् स्तोतॄन्नोऽस्मान्सुभागान्सुधनान्कृणुत। कुरुत। तथा सुरत्नाञ्शोभनरत्नान्कृणुत। यद्वा। सुरत्नाञ्शोभनरमणीयस्तोत्रानस्मानिति सम्बन्धनीयम्। किञ्च यूयं सख्यस्य स्तोत्रस्य सखिभूतम् स्तोमधि गात। अधिगच्छत। वो युश्माकं रत्नधेयानि रत्नदानान्यस्मद्विषयाणि सनाद्धि चिरकालादारभ्य खलु सन्ति॥८॥