Ṛgveda · Maṇḍala 10 · Sūkta 123
Ṛk 10.123.5
Saṃhitā
अ॒प्स॒रा जा॒रमु॑पसिष्मिया॒णा योषा॑ बिभर्ति पर॒मे व्यो॑मन् ।
चर॑त्प्रि॒यस्य॒ योनि॑षु प्रि॒यः सन्त्सीद॑त्प॒क्षे हि॑र॒ण्यये॒ स वे॒नः ॥
अप्सरा जारम् उपसिष्मियाणा योषा बिभर्ति परमे व्योमन् |
चरत् प्रियस्य योनिषु प्रियः सन् सीदत् पक्षे हिरण्यये स वेनः ||
apsarā́ jārámupasiṣmiyāṇā́ yóṣā bibharti paramé vyóman ǀ
cáratpriyásya yóniṣu priyáḥ sántsī́datpakṣé hiraṇyáye sá venáḥ ǁ
apsarā jāram upasiṣmiyāṇā yoṣā bibharti parame vyoman |
carat priyasya yoniṣu priyaḥ san sīdat pakṣe hiraṇyaye sa venaḥ ||
Padapāṭha
अ॒प्स॒राः । जा॒रम् । उ॒प॒ऽसि॒ष्मि॒या॒णा । योषा॑ । बि॒भ॒र्ति॒ । प॒र॒मे । विऽओ॑मन् ।
चर॑त् । प्रि॒यस्य॑ । योनि॑षु । प्रि॒यः । सन् । सीद॑त् । प॒क्षे । हि॒र॒ण्यये॑ । सः । वे॒नः ॥
अप्सराः । जारम् । उपऽसिष्मियाणा । योषा । बिभर्ति । परमे । विऽओमन् ।
चरत् । प्रियस्य । योनिषु । प्रियः । सन् । सीदत् । पक्षे । हिरण्यये । सः । वेनः ॥
apsarā́ḥ ǀ jārám ǀ upa-siṣmiyāṇā́ ǀ yóṣā ǀ bibharti ǀ paramé ǀ ví-oman ǀ
cárat ǀ priyásya ǀ yóniṣu ǀ priyáḥ ǀ sán ǀ sī́dat ǀ pakṣé ǀ hiraṇyáye ǀ sáḥ ǀ venáḥ ǁ
apsarāḥ ǀ jāram ǀ upa-siṣmiyāṇā ǀ yoṣā ǀ bibharti ǀ parame ǀ vi-oman ǀ
carat ǀ priyasya ǀ yoniṣu ǀ priyaḥ ǀ san ǀ sīdat ǀ pakṣe ǀ hiraṇyaye ǀ saḥ ǀ venaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.123.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.07.05
- Maṇḍala · Anuvāka · Ṛk
- 10.10.101
- Devatā देवता
- Vena
- Ṛṣi ऋषि
- Vena Bhārgava
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.