Ṛgveda · Maṇḍala 10 · Sūkta 123

Ṛk 10.123.8

Vena · Vena Bhārgava

The whole sūkta Link

Saṃhitā

द्र॒प्सः स॑मु॒द्रम॒भि यज्जिगा॑ति॒ पश्य॒न्गृध्र॑स्य॒ चक्ष॑सा॒ विध॑र्मन् ।
भा॒नुः शु॒क्रेण॑ शो॒चिषा॑ चका॒नस्तृ॒तीये॑ चक्रे॒ रज॑सि प्रि॒याणि॑ ॥

द्रप्सः समुद्रम् अभि यज् जिगाति पश्यन् गृध्रस्य चक्षसा विधर्मन् |
भानुः शुक्रेण शोचिषा चकानस् तृतीये चक्रे रजसि प्रियाणि ||

drapsáḥ samudrámabhí yájjígāti páśyangṛ́dhrasya cákṣasā vídharman ǀ
bhānúḥ śukréṇa śocíṣā cakānástṛtī́ye cakre rájasi priyā́ṇi ǁ

drapsaḥ samudram abhi yaj jigāti paśyan gṛdhrasya cakṣasā vidharman |
bhānuḥ śukreṇa śociṣā cakānas tṛtīye cakre rajasi priyāṇi ||

Padapāṭha

द्र॒प्सः । स॒मु॒द्रम् । अ॒भि । यत् । जिगा॑ति । पश्य॑न् । गृध्र॑स्य । चक्ष॑सा । विऽध॑र्मन् ।
भा॒नुः । शु॒क्रेण॑ । शो॒चिषा॑ । च॒का॒नः । तृ॒तीये॑ । च॒क्रे॒ । रज॑सि । प्रि॒याणि॑ ॥

द्रप्सः । समुद्रम् । अभि । यत् । जिगाति । पश्यन् । गृध्रस्य । चक्षसा । विऽधर्मन् ।
भानुः । शुक्रेण । शोचिषा । चकानः । तृतीये । चक्रे । रजसि । प्रियाणि ॥

drapsáḥ ǀ samudrám ǀ abhí ǀ yát ǀ jígāti ǀ páśyan ǀ gṛ́dhrasya ǀ cákṣasā ǀ ví-dharman ǀ
bhānúḥ ǀ śukréṇa ǀ śocíṣā ǀ cakānáḥ ǀ tṛtī́ye ǀ cakre ǀ rájasi ǀ priyā́ṇi ǁ

drapsaḥ ǀ samudram ǀ abhi ǀ yat ǀ jigāti ǀ paśyan ǀ gṛdhrasya ǀ cakṣasā ǀ vi-dharman ǀ
bhānuḥ ǀ śukreṇa ǀ śociṣā ǀ cakānaḥ ǀ tṛtīye ǀ cakre ǀ rajasi ǀ priyāṇi ǁ

References

Maṇḍala · Sūkta · Ṛk
10.123.08
Aṣṭaka · Adhyāya · Varga · Ṛk
8.7.08.03
Maṇḍala · Anuvāka · Ṛk
10.10.104
Devatā देवता
Vena
Ṛṣi ऋषि
Vena Bhārgava
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.123.8

Interpretations

Sāyaṇa

उपोद्घातः

प्रवर्ग्येऽभिष्तवे द्रप्सः समुद्रमित्येषा। सुत्रितं च। द्रप्सः समुद्रमभियज्जिगाति सखे सखायमभ्या ववृत्स्व। आ. ४-७। इति।

विधर्मन्विधर्मणि विधारकेऽन्तरिक्षे स्थितो द्रप्सो द्रवनशीलः। यद्वा। द्रप्सा उदकबिन्दवः। तद्वान्। अर्श आदित्वादच्। गृध्रस्य गृधो रसानभिकाङ्क्षतः सूर्यस्य चक्षसा तेजसा पश्यन् प्रकाशमानो वेनो यद्यदा समुद्रं समुन्दनशीलं मेघमभिजिगाति अभिगच्छति तदानीं भानुः सूर्यः शुक्रेण शुभ्रेण शोचिषा तेजसा तृतीये रजसि लोके चकानो दीप्यनामः प्रियाणि सर्वेषामभीष्टान्युदकानि चक्ते। करोति॥८॥