Ṛgveda · Maṇḍala 10 · Sūkta 62

Ṛk 10.62.11

Aṅgirasas · Dānastuti Of Sāvarṇi · Nābhānediṣṭha Mānava

The whole sūkta Link

Saṃhitā

स॒ह॒स्र॒दा ग्रा॑म॒णीर्मा रि॑ष॒न्मनुः॒ सूर्ये॑णास्य॒ यत॑मानैतु॒ दक्षि॑णा ।
साव॑र्णेर्दे॒वाः प्र ति॑रं॒त्वायु॒र्यस्मि॒न्नश्रां॑ता॒ अस॑नाम॒ वाजं॑ ॥

सहस्रदा ग्रामणीर् मा रिषन् मनुः सूर्येणास्य यतमानैतु दक्षिणा |
सावर्णेर् देवाः प्र तिरन्त्व् आयुर् यस्मिन्न् अश्रान्ता असनाम वाजम् ||

sahasradā́ grāmaṇī́rmā́ riṣanmánuḥ sū́ryeṇāsya yátamānaitu dákṣiṇā ǀ
sā́varṇerdevā́ḥ prá tirantvā́yuryásminnáśrāntā ásanāma vā́jam ǁ

sahasradā grāmaṇīr mā riṣan manuḥ sūryeṇāsya yatamānaitu dakṣiṇā |
sāvarṇer devāḥ pra tirantv āyur yasminn aśrāntā asanāma vājam ||

Padapāṭha

स॒ह॒स्र॒ऽदाः । ग्रा॒म॒ऽनीः । मा । रि॒ष॒त् । मनुः॑ । सूर्ये॑ण । अ॒स्य॒ । यत॑माना । ए॒तु॒ । दक्षि॑णा ।
साव॑र्णेः । दे॒वाः । प्र । ति॒र॒न्तु॒ । आयुः॑ । यस्मि॑न् । अश्रा॑न्ताः । अस॑नाम । वाज॑म् ॥

सहस्रऽदाः । ग्रामऽनीः । मा । रिषत् । मनुः । सूर्येण । अस्य । यतमाना । एतु । दक्षिणा ।
सावर्णेः । देवाः । प्र । तिरन्तु । आयुः । यस्मिन् । अश्रान्ताः । असनाम । वाजम् ॥

sahasra-dā́ḥ ǀ grāma-nī́ḥ ǀ mā́ ǀ riṣat ǀ mánuḥ ǀ sū́ryeṇa ǀ asya ǀ yátamānā ǀ etu ǀ dákṣiṇā ǀ
sā́varṇeḥ ǀ devā́ḥ ǀ prá ǀ tirantu ǀ ā́yuḥ ǀ yásmin ǀ áśrāntāḥ ǀ ásanāma ǀ vā́jam ǁ

sahasra-dāḥ ǀ grāma-nīḥ ǀ mā ǀ riṣat ǀ manuḥ ǀ sūryeṇa ǀ asya ǀ yatamānā ǀ etu ǀ dakṣiṇā ǀ
sāvarṇeḥ ǀ devāḥ ǀ pra ǀ tirantu ǀ āyuḥ ǀ yasmin ǀ aśrāntāḥ ǀ asanāma ǀ vājam ǁ

References

Maṇḍala · Sūkta · Ṛk
10.062.11
Aṣṭaka · Adhyāya · Varga · Ṛk
8.2.02.06
Maṇḍala · Anuvāka · Ṛk
10.05.038
Devatā देवता
1-7: Aṅgirasas; 8-11: Dānastuti Of Sāvarṇi
Ṛṣi ऋषि
Nābhānediṣṭha Mānava
Chandas छन्दस्
Jagatī, Anuṣṭubh, Bṛhatī, Satobṛhatī, Gāyatrī, Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.62.11

Interpretations

Sāyaṇa

सहस्रदा गवादीनां सहस्रस्य दाता ग्रामणीर्ग्रामाणां नेता कर्ता जनपदानामयं मनुर्मा रिषत्। न कैश्चिदपि रिष्तो हिंसितो भवतु। यद्वा। कर्मनेतॄनस्मान्मा हिनस्तु किन्तु धनादिदानेन पूजयशु। अस्य यतमाना गच्छन्ती दक्षिणा सूर्येण सहैतु। सङ्गच्छताम्। त्रिषु लोकेशु प्रसिद्धा भवत्वित्यर्थः। तस्यास्य सावर्णेः सवर्णपुत्रस्य मनोर्देवा इन्द्रादय आयुर्जीवनं प्र तिरन्तु। प्रवर्धयन्तु। अश्रान्तः कर्मन्वनलसाः सर्वं कर्म कुर्वन्तो वयं यस्मिन्मनौ वाजं गोलक्षणमन्नमसनाम सम्भजेमहि। नाभानेदिष्थोऽहमलभ इत्याशास्ते॥११॥