Ṛgveda · Maṇḍala 10 · Sūkta 115
Ṛk 10.115.3
Saṃhitā
तं वो॒ विं न द्रु॒षदं॑ दे॒वमंध॑स॒ इंदुं॒ प्रोथं॑तं प्र॒वपं॑तमर्ण॒वं ।
आ॒सा वह्निं॒ न शो॒चिषा॑ विर॒प्शिनं॒ महि॑व्रतं॒ न स॒रजं॑त॒मध्व॑नः ॥
तं वो विं न द्रुषदं देवम् अन्धस इन्दुम् प्रोथन्तम् प्रवपन्तम् अर्णवम् |
आसा वह्निं न शोचिषा विरप्शिनम् महिव्रतं न सरजन्तम् अध्वनः ||
tám vo vím ná druṣádam devámándhasa índum próthantam pravápantamarṇavám ǀ
āsā́ váhnim ná śocíṣā virapśínam máhivratam ná sarájantamádhvanaḥ ǁ
taṃ vo viṃ na druṣadaṃ devam andhasa indum prothantam pravapantam arṇavam |
āsā vahniṃ na śociṣā virapśinam mahivrataṃ na sarajantam adhvanaḥ ||
Padapāṭha
तम् । वः॒ । विम् । न । द्रु॒ऽसद॑म् । दे॒वम् । अन्ध॑सः । इन्दु॑म् । प्रोथ॑न्तम् । प्र॒ऽवप॑न्तम् । अ॒र्ण॒वम् ।
आ॒सा । वह्नि॑म् । न । शो॒चिषा॑ । वि॒ऽर॒प्शिन॑म् । महि॑ऽव्रतम् । न । स॒रज॑न्तम् । अध्व॑नः ॥
तम् । वः । विम् । न । द्रुऽसदम् । देवम् । अन्धसः । इन्दुम् । प्रोथन्तम् । प्रऽवपन्तम् । अर्णवम् ।
आसा । वह्निम् । न । शोचिषा । विऽरप्शिनम् । महिऽव्रतम् । न । सरजन्तम् । अध्वनः ॥
tám ǀ vaḥ ǀ vím ǀ ná ǀ dru-sádam ǀ devám ǀ ándhasaḥ ǀ índum ǀ próthantam ǀ pra-vápantam ǀ arṇavám ǀ
āsā́ ǀ váhnim ǀ ná ǀ śocíṣā ǀ vi-rapśínam ǀ máhi-vratam ǀ ná ǀ sarájantam ǀ ádhvanaḥ ǁ
tam ǀ vaḥ ǀ vim ǀ na ǀ dru-sadam ǀ devam ǀ andhasaḥ ǀ indum ǀ prothantam ǀ pra-vapantam ǀ arṇavam ǀ
āsā ǀ vahnim ǀ na ǀ śociṣā ǀ vi-rapśinam ǀ mahi-vratam ǀ na ǀ sarajantam ǀ adhvanaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.115.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.18.03
- Maṇḍala · Anuvāka · Ṛk
- 10.10.023
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Upastuta Vārṣṭihavya
- Chandas छन्दस्
- Jagatī, Triṣṭubh, Śakvarī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.