Ṛgveda · Maṇḍala 10 · Sūkta 51

Ṛk 10.51.9

Agni · Devāḥ, Mitra, Varuṇa · Devāḥ, Varuṇa · Devāḥ · 1, 3, 5, 7, 9: Devās; 2, 4, 6, 8: Agni Saucīka

The whole sūkta Link

Saṃhitā

तव॑ प्रया॒जा अ॑नुया॒जाश्च॒ केव॑ल॒ ऊर्ज॑स्वंतो ह॒विषः॑ संतु भा॒गाः ।
तवा॑ग्ने य॒ज्ञो॒३॒॑ऽयम॑स्तु॒ सर्व॒स्तुभ्यं॑ नमंतां प्र॒दिश॒श्चत॑स्रः ॥

तव प्रयाजा अनुयाजाश् च केवल ऊर्जस्वन्तो हविषः सन्तु भागाः |
तवाग्ने यज्ञो ऽयम् अस्तु सर्वस् तुभ्यं नमन्ताम् प्रदिशश् चतस्रः ||

táva prayājā́ anuyājā́śca kévala ū́rjasvanto havíṣaḥ santu bhāgā́ḥ ǀ
távāgne yajñó’yámastu sárvastúbhyam namantām pradíśaścátasraḥ ǁ

tava prayājā anuyājāś ca kevala ūrjasvanto haviṣaḥ santu bhāgāḥ |
tavāgne yajño 'yam astu sarvas tubhyaṃ namantām pradiśaś catasraḥ ||

Padapāṭha

तव॑ । प्र॒ऽया॒जाः । अ॒नु॒ऽया॒जाः । च॒ । केव॑ले । ऊर्ज॑स्वन्तः । ह॒विषः॑ । स॒न्तु॒ । भा॒गाः ।
तव॑ । अ॒ग्ने॒ । य॒ज्ञः । अ॒यम् । अ॒स्तु॒ । सर्वः॑ । तुभ्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिशः॑ । चत॑स्रः ॥

तव । प्रऽयाजाः । अनुऽयाजाः । च । केवले । ऊर्जस्वन्तः । हविषः । सन्तु । भागाः ।
तव । अग्ने । यज्ञः । अयम् । अस्तु । सर्वः । तुभ्यम् । नमन्ताम् । प्रऽदिशः । चतस्रः ॥

táva ǀ pra-yājā́ḥ ǀ anu-yājā́ḥ ǀ ca ǀ kévale ǀ ū́rjasvantaḥ ǀ havíṣaḥ ǀ santu ǀ bhāgā́ḥ ǀ
táva ǀ agne ǀ yajñáḥ ǀ ayám ǀ astu ǀ sárvaḥ ǀ túbhyam ǀ namantām ǀ pra-díśaḥ ǀ cátasraḥ ǁ

tava ǀ pra-yājāḥ ǀ anu-yājāḥ ǀ ca ǀ kevale ǀ ūrjasvantaḥ ǀ haviṣaḥ ǀ santu ǀ bhāgāḥ ǀ
tava ǀ agne ǀ yajñaḥ ǀ ayam ǀ astu ǀ sarvaḥ ǀ tubhyam ǀ namantām ǀ pra-diśaḥ ǀ catasraḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.051.09
Aṣṭaka · Adhyāya · Varga · Ṛk
8.1.11.04
Maṇḍala · Anuvāka · Ṛk
10.04.090
Devatā देवता
1, 3, 5, 7, 9: Agni; 2: Devāḥ, Mitra, Varuṇa; 4, 6: Devāḥ, Varuṇa; 8: Devāḥ
Ṛṣi ऋषि
1, 3, 5, 7, 9: Devās; 2, 4, 6, 8: Agni Saucīka
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.51.9

Interpretations

Sāyaṇa

एवमग्निना याच्यमाना देवाः प्रति ब्रुवते। हे अग्ने तव प्रयाजा अनुयाजाश्च केवलेऽसाधारणा ऊर्जस्वन्तो बलवन्तो हविषो भागाः सन्तु। हे अग्ने अयं सर्वो यज्ञश्च तवास्तु। तथा प्रदिशः प्रकृष्टा मुख्याश्चतस्रो दिशस्तुभ्यं नमन्ताम्। अत एहि हविर्वहेति शेषः॥९॥