Ṛgveda · Maṇḍala 10 · Sūkta 53
Ṛk 10.53.3
Saṃhitā
सा॒ध्वीम॑कर्दे॒ववी॑तिं नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्यां॑ ।
स आयु॒रागा॑त्सुर॒भिर्वसा॑नो भ॒द्राम॑कर्दे॒वहू॑तिं नो अ॒द्य ॥
साध्वीम् अकर् देववीतिं नो अद्य यज्ञस्य जिह्वाम् अविदाम गुह्याम् |
स आयुर् आगात् सुरभिर् वसानो भद्राम् अकर् देवहूतिं नो अद्य ||
sādhvī́makardevávītim no adyá yajñásya jihvā́mavidāma gúhyām ǀ
sá ā́yurā́gātsurabhírvásāno bhadrā́makardeváhūtim no adyá ǁ
sādhvīm akar devavītiṃ no adya yajñasya jihvām avidāma guhyām |
sa āyur āgāt surabhir vasāno bhadrām akar devahūtiṃ no adya ||
Padapāṭha
सा॒ध्वीम् । अ॒कः॒ । दे॒वऽवी॑तिम् । नः॒ । अ॒द्य । य॒ज्ञस्य॑ । जि॒ह्वाम् । अ॒वि॒दा॒म॒ । गुह्या॑म् ।
सः । आयुः॑ । आ । अ॒गा॒त् । सु॒र॒भिः । वसा॑नः । भ॒द्राम् । अ॒कः॒ । दे॒वऽहू॑तिम् । नः॒ । अ॒द्य ॥
साध्वीम् । अकः । देवऽवीतिम् । नः । अद्य । यज्ञस्य । जिह्वाम् । अविदाम । गुह्याम् ।
सः । आयुः । आ । अगात् । सुरभिः । वसानः । भद्राम् । अकः । देवऽहूतिम् । नः । अद्य ॥
sādhvī́m ǀ akaḥ ǀ devá-vītim ǀ naḥ ǀ adyá ǀ yajñásya ǀ jihvā́m ǀ avidāma ǀ gúhyām ǀ
sáḥ ǀ ā́yuḥ ǀ ā́ ǀ agāt ǀ surabhíḥ ǀ vásānaḥ ǀ bhadrā́m ǀ akaḥ ǀ devá-hūtim ǀ naḥ ǀ adyá ǁ
sādhvīm ǀ akaḥ ǀ deva-vītim ǀ naḥ ǀ adya ǀ yajñasya ǀ jihvām ǀ avidāma ǀ guhyām ǀ
saḥ ǀ āyuḥ ǀ ā ǀ agāt ǀ surabhiḥ ǀ vasānaḥ ǀ bhadrām ǀ akaḥ ǀ deva-hūtim ǀ naḥ ǀ adya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.053.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.13.03
- Maṇḍala · Anuvāka · Ṛk
- 10.04.099
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- 1-3, 6-11: Devās; 4, 5: Agni Saucīka
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.