Ṛgveda · Maṇḍala 10 · Sūkta 53
Ṛk 10.53.5
Saṃhitā
पंच॒ जना॒ मम॑ हो॒त्रं जु॑षंतां॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः ।
पृ॒थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽंतरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥
पञ्च जना मम होत्रं जुषन्तां गोजाता उत ये यज्ञियासः |
पृथिवी नः पार्थिवात् पात्व् अंहसो ऽन्तरिक्षं दिव्यात् पात्व् अस्मान् ||
páñca jánā máma hotrám juṣantām gójātā utá yé yajñíyāsaḥ ǀ
pṛthivī́ naḥ pā́rthivātpātváṃhaso’ntárikṣam divyā́tpātvasmā́n ǁ
pañca janā mama hotraṃ juṣantāṃ gojātā uta ye yajñiyāsaḥ |
pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān ||
Padapāṭha
पञ्च॑ । जनाः॑ । मम॑ । हो॒त्रम् । जु॒ष॒न्ता॒म् । गोऽजा॑ताः । उ॒त । ये । य॒ज्ञिया॑सः ।
पृ॒थि॒वी । नः॒ । पार्थि॑वात् । पा॒तु॒ । अंह॑सः । अ॒न्तरि॑क्षम् । दि॒व्यात् । पा॒तु॒ । अ॒स्मान् ॥
पञ्च । जनाः । मम । होत्रम् । जुषन्ताम् । गोऽजाताः । उत । ये । यज्ञियासः ।
पृथिवी । नः । पार्थिवात् । पातु । अंहसः । अन्तरिक्षम् । दिव्यात् । पातु । अस्मान् ॥
páñca ǀ jánāḥ ǀ máma ǀ hotrám ǀ juṣantām ǀ gó-jātāḥ ǀ utá ǀ yé ǀ yajñíyāsaḥ ǀ
pṛthivī́ ǀ naḥ ǀ pā́rthivāt ǀ pātu ǀ áṃhasaḥ ǀ antárikṣam ǀ divyā́t ǀ pātu ǀ asmā́n ǁ
pañca ǀ janāḥ ǀ mama ǀ hotram ǀ juṣantām ǀ go-jātāḥ ǀ uta ǀ ye ǀ yajñiyāsaḥ ǀ
pṛthivī ǀ naḥ ǀ pārthivāt ǀ pātu ǀ aṃhasaḥ ǀ antarikṣam ǀ divyāt ǀ pātu ǀ asmān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.053.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.13.05
- Maṇḍala · Anuvāka · Ṛk
- 10.04.101
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- 1-3, 6-11: Devās; 4, 5: Agni Saucīka
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.