Ṛgveda · Maṇḍala 10 · Sūkta 53

Ṛk 10.53.11

Agni · 1-3, 6-11: Devās; 4, 5: Agni Saucīka

The whole sūkta Link

Saṃhitā

गर्भे॒ योषा॒मद॑धुर्व॒त्समा॒सन्य॑पी॒च्ये॑न॒ मन॑सो॒त जि॒ह्वया॑ ।
स वि॒श्वाहा॑ सु॒मना॑ यो॒ग्या अ॒भि सि॑षा॒सनि॑र्वनते का॒र इज्जितिं॑ ॥

गर्भे योषाम् अदधुर् वत्सम् आसन्य् अपीच्येन मनसोत जिह्वया |
स विश्वाहा सुमना योग्या अभि सिषासनिर् वनते कार इज् जितिम् ||

gárbhe yóṣāmádadhurvatsámāsányapīcyéna mánasotá jihváyā ǀ
sá viśvā́hā sumánā yogyā́ abhí siṣāsánirvanate kārá íjjítim ǁ

garbhe yoṣām adadhur vatsam āsany apīcyena manasota jihvayā |
sa viśvāhā sumanā yogyā abhi siṣāsanir vanate kāra ij jitim ||

Padapāṭha

गर्भे॑ । योषा॑म् । अद॑धुः । व॒त्सम् । आ॒सनि॑ । अ॒पी॒च्ये॑न । मन॑सा । उ॒त । जि॒ह्वया॑ ।
सः । वि॒श्वाहा॑ । सु॒ऽमनाः॑ । यो॒ग्याः । अ॒भि । सि॒सा॒सनिः॑ । व॒न॒ते॒ । का॒रः । इत् । जिति॑म् ॥

गर्भे । योषाम् । अदधुः । वत्सम् । आसनि । अपीच्येन । मनसा । उत । जिह्वया ।
सः । विश्वाहा । सुऽमनाः । योग्याः । अभि । सिसासनिः । वनते । कारः । इत् । जितिम् ॥

gárbhe ǀ yóṣām ǀ ádadhuḥ ǀ vatsám ǀ āsáni ǀ apīcyéna ǀ mánasā ǀ utá ǀ jihváyā ǀ
sáḥ ǀ viśvā́hā ǀ su-mánāḥ ǀ yogyā́ḥ ǀ abhí ǀ sisāsániḥ ǀ vanate ǀ kāráḥ ǀ ít ǀ jítim ǁ

garbhe ǀ yoṣām ǀ adadhuḥ ǀ vatsam ǀ āsani ǀ apīcyena ǀ manasā ǀ uta ǀ jihvayā ǀ
saḥ ǀ viśvāhā ǀ su-manāḥ ǀ yogyāḥ ǀ abhi ǀ sisāsaniḥ ǀ vanate ǀ kāraḥ ǀ it ǀ jitim ǁ

References

Maṇḍala · Sūkta · Ṛk
10.053.11
Aṣṭaka · Adhyāya · Varga · Ṛk
8.1.14.06
Maṇḍala · Anuvāka · Ṛk
10.04.107
Devatā देवता
Agni
Ṛṣi ऋषि
1-3, 6-11: Devās; 4, 5: Agni Saucīka
Chandas छन्दस्
Triṣṭubh, Jagatī
Svara स्वरः
निषादः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.53.11

Interpretations

Sāyaṇa

ते मरुतो गर्भे मृताया गोर्मध्ये ग्राहके चर्मणि मृताया गोः सम्बन्धिनि योशां काञ्चिद्गामदधुः। धारितवन्तः। निश्चर्मणॊ गामरिणीत धीतिभिः। ऋ. १-१६१-७। इत्युक्तम्। तथासनि मृताया आस्ये वत्समदधुः। केन साधनेन। अपीच्येन मनसा देवत्वमाकाङ्क्षतोतापि च जिह्वया। साद्रुश्यप्रधानोऽयं निर्देशः। जिह्वावदायतय वाश्येत्यर्थः। यद्वा जिह्वया युक्तां योषामिति सम्बन्धः। सिषासनिः सम्भजनशीलः स ऋभुसङ्घो विश्वाहा सर्वेष्वहः सु सर्वदा योग्याः स्वोचिताः सुमनाः स्तितीरभिवनते। स च सङ्घो जितिं शत्रुजयं कामं कार इत् कर्तैव। शत्रुजयकर्तैव॥११॥