स्कन्दपुराण (रेवाखण्ड)Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), 1, 100
Select a line for its word-by-word analysis.
उत्तमं सर्वतीर्थानां गीर्वाणैर् वन्दितं शिवम् । (२।१)
uttamaṃ sarvatīrthānāṃ gīrvāṇair vanditaṃ śivam |
गुह्याद्गुह्यतरं पुत्र नाख्यातं कस्यचिन्मया ॥ (२।२)
guhyādguhyataraṃ putra nākhyātaṃ kasyacinmayā ||
स्थापितं तु मया पूर्वं स्वर्गसोपानसंनिभम् । (३।१)
sthāpitaṃ tu mayā pūrvaṃ svargasopānasaṃnibham |
ज्ञानं तत्रैव मे जातं प्रसादाच्छङ्करस्य च ॥ (३।२)
jñānaṃ tatraiva me jātaṃ prasādācchaṅkarasya ca ||
अन्यस्तत्रैव यो गत्वा द्रुपदामन्तर्जले जपेत् । (४।१)
anyastatraiva yo gatvā drupadāmantarjale japet |
पिण्डिकां चाप्यवष्टभ्य याम्यामाशां च संस्थितः ॥ (५।२)
piṇḍikāṃ cāpyavaṣṭabhya yāmyāmāśāṃ ca saṃsthitaḥ ||
योजयेच्छूलिनं भक्त्या द्वात्रिंशद्बहुरूपिणम् । (६।१)
yojayecchūlinaṃ bhaktyā dvātriṃśadbahurūpiṇam |
स्वर्गलोकमवाप्नोति इत्येवं शङ्करो ऽब्रवीत् ॥ (७।२)
svargalokamavāpnoti ityevaṃ śaṅkaro 'bravīt ||
श्राद्धं तत्रैव यो भक्त्या कुर्वीत नृपनन्दन । (८।१)
śrāddhaṃ tatraiva yo bhaktyā kurvīta nṛpanandana |
तर्पयेत् तत्र यो वंश्यानाप्नुयाज्जन्मनः फलम् ॥ (९।२)
tarpayet tatra yo vaṃśyānāpnuyājjanmanaḥ phalam ||
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मार्कण्डेश्वरतीर्थमाहात्म्यवर्णनं नाम शततमो ऽध्यायः ॥ (१०।१)
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeśvaratīrthamāhātmyavarṇanaṃ nāma śatatamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.