स्कन्दपुराण (रेवाखण्ड)Skandapurāṇa (Revākhaṇḍa)

SkPur (Rkh), 1, 51

51 of 232 · 130 verses

Select a line for its word-by-word analysis.

1.1१.१

उत्तानपाद उवाच । (१।१)

uttānapāda uvāca

1.2१.२

काले तत्क्रियते कस्मिञ्छ्राद्धं दानं तथेश्वर । (१।२)

kāle tatkriyate kasmiñchrāddhaṃ dānaṃ tatheśvara |

1.3१.३

यात्रा तत्र प्रकर्तव्या तिथौ यस्यां वदाशु तत् ॥ (१।३)

yātrā tatra prakartavyā tithau yasyāṃ vadāśu tat ||

2.1२.१

ईश्वर उवाच । (२।१)

īśvara uvāca

2.2२.२

पितृतीर्थं यथा पुण्यं सर्वकामिकमुत्तमम् । (२।२)

pitṛtīrthaṃ yathā puṇyaṃ sarvakāmikamuttamam |

2.3२.३

इदं तीर्थं तथा पुण्यं स्नानदानादितर्पणैः ॥ (२।३)

idaṃ tīrthaṃ tathā puṇyaṃ snānadānāditarpaṇaiḥ ||

3.1३.१

विशेषेण तु कुर्वीत श्राद्धं सर्वयुगादिषु । (३।१)

viśeṣeṇa tu kurvīta śrāddhaṃ sarvayugādiṣu |

3.2३.२

मन्वन्तरादयो वत्स श्रूयन्तां च चतुर्दश ॥ (३।२)

manvantarādayo vatsa śrūyantāṃ ca caturdaśa ||

4.1४.१

अश्वयुक्छुक्लनवमी द्वादशी कार्त्तिकस्य च । (४।१)

aśvayukchuklanavamī dvādaśī kārttikasya ca |

4.2४.२

तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥ (४।२)

tṛtīyā caitramāsasya tathā bhādrapadasya ca ||

5.1५.१

आषाढस्यैव दशमी माघस्यैव तु सप्तमी । (५।१)

āṣāḍhasyaiva daśamī māghasyaiva tu saptamī |

5.2५.२

श्रावणस्याष्टमी कृष्णा तथाषाढस्य पूर्णिमा ॥ (५।२)

śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhasya pūrṇimā ||

6.1६.१

फाल्गुनस्य त्वमावास्या पौषस्यैकादशी सिता । (६।१)

phālgunasya tvamāvāsyā pauṣasyaikādaśī sitā |

6.2६.२

कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी तथा ॥ (६।२)

kārttikī phālgunī caitrī jyaiṣṭhī pañcadaśī tathā ||

7.1७.१

मन्वन्तरादयश्चैते अनन्तफलदाः स्मृताः । (७।१)

manvantarādayaścaite anantaphaladāḥ smṛtāḥ |

7.2७.२

अयने चोत्तरे राजन्दक्षिणे श्राद्धमाचरेत् ॥ (७।२)

ayane cottare rājandakṣiṇe śrāddhamācaret ||

8.1८.१

कार्त्तिकी च तथा माघी वैशाखस्य तृतीयिका । (८।१)

kārttikī ca tathā māghī vaiśākhasya tṛtīyikā |

8.2८.२

पौर्णमासी च चैत्रस्य ज्येष्ठस्य च विशेषतः ॥ (८।२)

paurṇamāsī ca caitrasya jyeṣṭhasya ca viśeṣataḥ ||

9.1९.१

अष्टकासु च संक्रान्तौ व्यतीपाते तथैव च । (९।१)

aṣṭakāsu ca saṃkrāntau vyatīpāte tathaiva ca |

9.2९.२

श्राद्धकाला इमे सर्वे दत्तमेष्वक्षयं स्मृतम् ॥ (९।२)

śrāddhakālā ime sarve dattameṣvakṣayaṃ smṛtam ||

10.1१०.१

मधुमासे सिते पक्ष एकादश्यामुपोषितः । (१०।१)

madhumāse site pakṣa ekādaśyāmupoṣitaḥ |

10.2१०.२

निशि जागरणं कुर्याद् विष्णुपादसमीपतः ॥ (१०।२)

niśi jāgaraṇaṃ kuryād viṣṇupādasamīpataḥ ||

11.1११.१

धूपदीपादिनैवेद्यैः स्रङ्मालागुरुचन्दनैः । (११।१)

dhūpadīpādinaivedyaiḥ sraṅmālāgurucandanaiḥ |

11.2११.२

अर्चां कुर्वन्ति ये विष्णोः पठेयुः प्राक्तनीं कथाम् ॥ (११।२)

arcāṃ kurvanti ye viṣṇoḥ paṭheyuḥ prāktanīṃ kathām ||

12.1१२.१

ऋग्यजुःसाममन्त्रोक्तं सूक्तं जपति यो द्विजः । (१२।१)

ṛgyajuḥsāmamantroktaṃ sūktaṃ japati yo dvijaḥ |

12.2१२.२

सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ (१२।२)

sarvapāpavinirmukto viṣṇulokaṃ sa gacchati ||

13.1१३.१

प्रातः श्राद्धं प्रकुर्वीत द्विजान् सम्पूज्य यत्नतः । (१३।१)

prātaḥ śrāddhaṃ prakurvīta dvijān sampūjya yatnataḥ |

13.2१३.२

दानं दद्याद् यथाशक्ति गोहिरण्याम्बरादिकम् ॥ (१३।२)

dānaṃ dadyād yathāśakti gohiraṇyāmbarādikam ||

14.1१४.१

पितरस्तस्य तृप्यन्ति यावद् आभूतसम्प्लवम् । (१४।१)

pitarastasya tṛpyanti yāvad ābhūtasamplavam |

14.2१४.२

श्राद्धदस्तु व्रजेत् तत्र यत्र देवो जनार्दनः ॥ (१४।२)

śrāddhadastu vrajet tatra yatra devo janārdanaḥ ||

15.1१५.१

त्रयोदश्यां ततो गच्छेद्गुहावासिनि लिङ्गके । (१५।१)

trayodaśyāṃ tato gacchedguhāvāsini liṅgake |

15.2१५.२

दृष्ट्वा मार्कण्डमीशानं मुच्यते सर्वपातकैः ॥ (१५।२)

dṛṣṭvā mārkaṇḍamīśānaṃ mucyate sarvapātakaiḥ ||

16.1१६.१

उत्तानपाद उवाच । (१६।१)

uttānapāda uvāca

16.2१६.२

गुहामध्ये महादेव लिङ्गं परमशोभितम् । (१६।२)

guhāmadhye mahādeva liṅgaṃ paramaśobhitam |

16.3१६.३

येन प्रतिष्ठितं देव तन्ममाख्यातुम् अर्हसि ॥ (१६।३)

yena pratiṣṭhitaṃ deva tanmamākhyātum arhasi ||

17.1१७.१

ईश्वर उवाच । (१७।१)

īśvara uvāca

17.2१७.२

त्रिषु लोकेषु विख्यातो मार्कण्डेयो मुनीश्वरः । (१७।२)

triṣu lokeṣu vikhyāto mārkaṇḍeyo munīśvaraḥ |

17.3१७.३

दिव्यं वर्षसहस्रं स तपस्तेपे सुदारुणम् ॥ (१७।३)

divyaṃ varṣasahasraṃ sa tapastepe sudāruṇam ||

18.1१८.१

गुहामध्यं प्रविष्टो ऽसौ योगाभ्यासमुपाश्रितः । (१८।१)

guhāmadhyaṃ praviṣṭo 'sau yogābhyāsamupāśritaḥ |

18.2१८.२

लिङ्गं तु स्थापितं तेन मार्कण्डेश्वरसंज्ञितम् ॥ (१८।२)

liṅgaṃ tu sthāpitaṃ tena mārkaṇḍeśvarasaṃjñitam ||

19.1१९.१

तत्र स्नात्वा च यो भक्त्या सोपवासो जितेन्द्रियः । (१९।१)

tatra snātvā ca yo bhaktyā sopavāso jitendriyaḥ |

19.2१९.२

तत्र जागरणं कुर्वन् दद्याद् दीपं प्रयत्नतः ॥ (१९।२)

tatra jāgaraṇaṃ kurvan dadyād dīpaṃ prayatnataḥ ||

20.1२०.१

देवस्य स्नपनं कुर्यान्मृतैः पञ्चभिस् तथा । (२०।१)

devasya snapanaṃ kuryānmṛtaiḥ pañcabhis tathā |

20.2२०.२

यथा शक्त्या समालभ्य पूजां कुर्याद् यथाविधि ॥ (२०।२)

yathā śaktyā samālabhya pūjāṃ kuryād yathāvidhi ||

21.1२१.१

स्वशाखोत्पन्नमन्त्रैश्च जपं कुर्युर् द्विजातयः । (२१।१)

svaśākhotpannamantraiśca japaṃ kuryur dvijātayaḥ |

21.2२१.२

सावित्र्यष्टसहस्रं तु शताष्टकम् अथापि वा ॥ (२१।२)

sāvitryaṣṭasahasraṃ tu śatāṣṭakam athāpi vā ||

22.1२२.१

एतत्कृत्वा नृपश्रेष्ठ जन्मनः फलमाप्नुयात् । (२२।१)

etatkṛtvā nṛpaśreṣṭha janmanaḥ phalamāpnuyāt |

22.2२२.२

चतुर्दश्यां तु वै स्नात्वा पूजां कृत्वा यथाविधि ॥ (२२।२)

caturdaśyāṃ tu vai snātvā pūjāṃ kṛtvā yathāvidhi ||

23.1२३.१

पात्रं परीक्ष्य दातव्यम् आत्मनः श्रेय इच्छता । (२३।१)

pātraṃ parīkṣya dātavyam ātmanaḥ śreya icchatā |

23.2२३.२

पितरस्तस्य तृप्यन्ति द्वादशाब्दान्यसंशयम् ॥ (२३।२)

pitarastasya tṛpyanti dvādaśābdānyasaṃśayam ||

24.1२४.१

दाता स गच्छते तत्र यत्र भोगाः सनातनाः । (२४।१)

dātā sa gacchate tatra yatra bhogāḥ sanātanāḥ |

24.2२४.२

गुहामध्ये प्रविष्टस्तु लोटयेच्चैव शक्तितः ॥ (२४।२)

guhāmadhye praviṣṭastu loṭayeccaiva śaktitaḥ ||

25.1२५.१

नीले गिरौ हि यत्पुण्यं तत्समस्तं लभन्ति ते । (२५।१)

nīle girau hi yatpuṇyaṃ tatsamastaṃ labhanti te |

25.2२५.२

शूलभेदे तु यः कुर्याच्छ्राद्धं पर्वणि पर्वणि ॥ (२५।२)

śūlabhede tu yaḥ kuryācchrāddhaṃ parvaṇi parvaṇi ||

26.1२६.१

विशेषाच्चैत्रमासान्ते तस्य पुण्यफलं शृणु । (२६।१)

viśeṣāccaitramāsānte tasya puṇyaphalaṃ śṛṇu |

26.2२६.२

केदारे चैव यत्पुण्यं गङ्गासागरसङ्गमे ॥ (२६।२)

kedāre caiva yatpuṇyaṃ gaṅgāsāgarasaṅgame ||

27.1२७.१

सितासिते तु यत्पुण्यमन्यतीर्थे विशेषतः । (२७।१)

sitāsite tu yatpuṇyamanyatīrthe viśeṣataḥ |

27.2२७.२

अर्बुदे विद्यते पुण्यं पुण्यं चामरपर्वते ॥ (२७।२)

arbude vidyate puṇyaṃ puṇyaṃ cāmaraparvate ||

28.1२८.१

गयादिसर्वतीर्थानां फलमाप्नोति मानवः । (२८।१)

gayādisarvatīrthānāṃ phalamāpnoti mānavaḥ |

28.2२८.२

विधिमन्त्रसमायुक्तस् तर्पयेत् पितृदेवताः ॥ (२८।२)

vidhimantrasamāyuktas tarpayet pitṛdevatāḥ ||

29.1२९.१

कुलानां तारयेद् विंशं दश पूर्वान् दशापरान् । (२९।१)

kulānāṃ tārayed viṃśaṃ daśa pūrvān daśāparān |

29.2२९.२

दक्षिणस्यां ततो मूर्तौ शुचिर्भूत्वा समाहितः ॥ (२९।२)

dakṣiṇasyāṃ tato mūrtau śucirbhūtvā samāhitaḥ ||

30.1३०.१

न्यासं कृत्वा तु पूर्वोक्तं प्रदद्याद् अष्टपुष्पिकाम् । (३०।१)

nyāsaṃ kṛtvā tu pūrvoktaṃ pradadyād aṣṭapuṣpikām |

30.2३०.२

शास्त्रोक्तैरष्टभिः पुष्पैर्मानसैः शृणु तद्यथा ॥ (३०।२)

śāstroktairaṣṭabhiḥ puṣpairmānasaiḥ śṛṇu tadyathā ||

31.1३१.१

वारिजं सौम्यमाग्नेयं वायव्यं पार्थिवं पुनः । (३१।१)

vārijaṃ saumyamāgneyaṃ vāyavyaṃ pārthivaṃ punaḥ |

31.2३१.२

वानस्पत्यं भवेत् षष्ठं प्राजापत्यं तु सप्तमम् ॥ (३१।२)

vānaspatyaṃ bhavet ṣaṣṭhaṃ prājāpatyaṃ tu saptamam ||

32.1३२.१

अष्टमं शिवपुष्पं स्याद् एषां शृणु विनिर्णयम् । (३२।१)

aṣṭamaṃ śivapuṣpaṃ syād eṣāṃ śṛṇu vinirṇayam |

32.2३२.२

वारिजं सलिलं ज्ञेयं सौम्यं मधुघृतं पयः ॥ (३२।२)

vārijaṃ salilaṃ jñeyaṃ saumyaṃ madhughṛtaṃ payaḥ ||

33.1३३.१

आग्नेयं धूपदीपाद्यं वायव्यं चन्दनादिकम् । (३३।१)

āgneyaṃ dhūpadīpādyaṃ vāyavyaṃ candanādikam |

33.2३३.२

पार्थिवं कन्दमूलाद्यं वानस्पत्यं फलात्मकम् ॥ (३३।२)

pārthivaṃ kandamūlādyaṃ vānaspatyaṃ phalātmakam ||

34.1३४.१

प्राजापत्यं तु पाठाद्यं शिवपुष्पं तु वासना । (३४।१)

prājāpatyaṃ tu pāṭhādyaṃ śivapuṣpaṃ tu vāsanā |

34.2३४.२

अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ॥ (३४।२)

ahiṃsā prathamaṃ puṣpaṃ puṣpamindriyanigrahaḥ ||

35.1३५.१

तृतीयं तु दया पुष्पं क्षमा पुष्पं चतुर्थकम् । (३५।१)

tṛtīyaṃ tu dayā puṣpaṃ kṣamā puṣpaṃ caturthakam |

35.2३५.२

ध्यानपुष्पं तपः पुष्पं ज्ञानपुष्पं तु सप्तमम् ॥ (३५।२)

dhyānapuṣpaṃ tapaḥ puṣpaṃ jñānapuṣpaṃ tu saptamam ||

36.1३६.१

सत्यं चैवाष्टमं पुष्पमेभिस् तुष्यन्ति देवताः । (३६।१)

satyaṃ caivāṣṭamaṃ puṣpamebhis tuṣyanti devatāḥ |

36.2३६.२

भक्त्या तपस्विनः पूज्या ज्ञानिनश्च नराधिप ॥ (३६।२)

bhaktyā tapasvinaḥ pūjyā jñāninaśca narādhipa ||

37.1३७.१

छत्रमावरणं दद्याद् उपानद्युगलं तथा । (३७।१)

chatramāvaraṇaṃ dadyād upānadyugalaṃ tathā |

37.2३७.२

तेन पूजितमात्रेण पूजिताः पुरुषास्त्रयः ॥ (३७।२)

tena pūjitamātreṇa pūjitāḥ puruṣāstrayaḥ ||

38.1३८.१

स्वर्गलोके वसेत् तावद् यावद् आभूतसम्प्लवम् । (३८।१)

svargaloke vaset tāvad yāvad ābhūtasamplavam |

38.2३८.२

शूलपाणेस्तु भक्त्या वै जाप्यं कुर्वन्ति ये नराः ॥ (३८।२)

śūlapāṇestu bhaktyā vai jāpyaṃ kurvanti ye narāḥ ||

39.1३९.१

पञ्चामृतैः पञ्चगव्यैर् यक्षकर्दमकुङ्कुमैः । (३९।१)

pañcāmṛtaiḥ pañcagavyair yakṣakardamakuṅkumaiḥ |

39.2३९.२

समालभेत देवेशं श्रीखण्डागुरुचन्दनैः ॥ (३९।२)

samālabheta deveśaṃ śrīkhaṇḍāgurucandanaiḥ ||

40.1४०.१

नानाविधैश्च ये पुष्पैरर्चां कुर्वन्ति शूलिनः । (४०।१)

nānāvidhaiśca ye puṣpairarcāṃ kurvanti śūlinaḥ |

40.2४०.२

निशि जागरणं कुर्युर् दीपदानं प्रयत्नतः ॥ (४०।२)

niśi jāgaraṇaṃ kuryur dīpadānaṃ prayatnataḥ ||

41.1४१.१

धूपनैवेद्यकं दद्यात् पठेत्पौराणिकीं कथाम् । (४१।१)

dhūpanaivedyakaṃ dadyāt paṭhetpaurāṇikīṃ kathām |

41.2४१.२

तत्र स्थाने स्थिता भक्त्या जपं कुर्वन्ति ये नराः ॥ (४१।२)

tatra sthāne sthitā bhaktyā japaṃ kurvanti ye narāḥ ||

42.1४२.१

श्रीसूक्तं पौरुषं सूक्तं पावमानं वृषाकपिम् । (४२।१)

śrīsūktaṃ pauruṣaṃ sūktaṃ pāvamānaṃ vṛṣākapim |

42.2४२.२

वेदोक्तैश्चैव मन्त्रैश्च रौद्रीं वा बहुरूपिणीम् ॥ (४२।२)

vedoktaiścaiva mantraiśca raudrīṃ vā bahurūpiṇīm ||

43.1४३.१

ब्राह्मणान् पूजयेद् भक्त्या पूजयित्वा प्रणम्य च । (४३।१)

brāhmaṇān pūjayed bhaktyā pūjayitvā praṇamya ca |

43.2४३.२

नानाविधैर् महाभोगैः शिवलोके महीयते ॥ (४३।२)

nānāvidhair mahābhogaiḥ śivaloke mahīyate ||

44.1४४.१

अग्निम् इत्यादि जाप्यानि ऋग्वेदी जपते तु यः । (४४।१)

agnim ityādi jāpyāni ṛgvedī japate tu yaḥ |

44.2४४.२

रुद्रान् पुरुषसूक्तं च श्लोकाध्यायं च शुक्रियम् ॥ (४४।२)

rudrān puruṣasūktaṃ ca ślokādhyāyaṃ ca śukriyam ||

45.1४५.१

इषेत्वा दिकमन्त्रौघं ज्योतिर्ब्राह्मणमेव च । (४५।१)

iṣetvā dikamantraughaṃ jyotirbrāhmaṇameva ca |

45.2४५.२

गायत्र्यं वै मधु चैव मण्डलब्राह्मणानि च ॥ (४५।२)

gāyatryaṃ vai madhu caiva maṇḍalabrāhmaṇāni ca ||

46.1४६.१

एताञ्जप्यांस्तु यो भक्त्या यजुर्वेदी जपेद् यदि । (४६।१)

etāñjapyāṃstu yo bhaktyā yajurvedī japed yadi |

46.2४६.२

देवव्रतं वामदेव्यं पुरुषर्षभमेव च ॥ (४६।२)

devavrataṃ vāmadevyaṃ puruṣarṣabhameva ca ||

47.1४७.१

बृहद्रथान्तरं चैव यो जपेद् भक्तितत्परः । (४७।१)

bṛhadrathāntaraṃ caiva yo japed bhaktitatparaḥ |

47.2४७.२

स प्रयाति नरः स्थानं यत्र देवो महेश्वरः ॥ (४७।२)

sa prayāti naraḥ sthānaṃ yatra devo maheśvaraḥ ||

48.1४८.१

पादशौचं तथाभ्यङ्गं कुरुते यो ऽत्र भक्तितः । (४८।१)

pādaśaucaṃ tathābhyaṅgaṃ kurute yo 'tra bhaktitaḥ |

48.2४८.२

गोदाने चैव यत्पुण्यं लभते नात्र संशयः ॥ (४८।२)

godāne caiva yatpuṇyaṃ labhate nātra saṃśayaḥ ||

49.1४९.१

ब्राह्मणान् भोजयेत् तत्र मधुना पायसेन च । (४९।१)

brāhmaṇān bhojayet tatra madhunā pāyasena ca |

49.2४९.२

एकस्मिन् भोजिते विप्रे कोटिर् भवति भोजिता ॥ (४९।२)

ekasmin bhojite vipre koṭir bhavati bhojitā ||

50.1५०.१

सुवर्णं रजतं वस्त्रं दद्याद् भक्त्या द्विजोत्तमे । (५०।१)

suvarṇaṃ rajataṃ vastraṃ dadyād bhaktyā dvijottame |

50.2५०.२

तर्पितास्तेन देवाः स्युर् मनुष्याः पितरस् तथा ॥ (५०।२)

tarpitāstena devāḥ syur manuṣyāḥ pitaras tathā ||

51.1५१.१

चन्द्रसूर्यग्रहे भक्त्या स्नानं कुर्वन्ति ये नराः । (५१।१)

candrasūryagrahe bhaktyā snānaṃ kurvanti ye narāḥ |

51.2५१.२

देवार्चनं ये च कुर्युर् जपं होमं विशेषतः । (५१।२)

devārcanaṃ ye ca kuryur japaṃ homaṃ viśeṣataḥ |

51.3५१.३

दद्याद् दानं यथाशक्ति ब्राह्मणे वेदपारगे ॥ (५१।३)

dadyād dānaṃ yathāśakti brāhmaṇe vedapārage ||

52.1५२.१

अश्वं रथं गजं यानं तुलापुरुषमेव च । (५२।१)

aśvaṃ rathaṃ gajaṃ yānaṃ tulāpuruṣameva ca |

52.2५२.२

शकटं यः प्रदद्याद्वा सप्तधान्यप्रपूरितम् ॥ (५२।२)

śakaṭaṃ yaḥ pradadyādvā saptadhānyaprapūritam ||

53.1५३.१

सयोक्त्रं लाङ्गलं दद्याद्युवानौ तु धुरंधरौ । (५३।१)

sayoktraṃ lāṅgalaṃ dadyādyuvānau tu dhuraṃdharau |

53.2५३.२

गोभूतिलहिरण्यादि पात्रे दातव्यम् अर्चितम् ॥ (५३।२)

gobhūtilahiraṇyādi pātre dātavyam arcitam ||

54.1५४.१

अपात्रे विदुषा किंचिन्न देयं भूतिमिच्छता । (५४।१)

apātre viduṣā kiṃcinna deyaṃ bhūtimicchatā |

54.2५४.२

यतो ऽसौ सर्वभूतानि दधाति धरणी किल ॥ (५४।२)

yato 'sau sarvabhūtāni dadhāti dharaṇī kila ||

55.1५५.१

ततो विप्राय सा देया सर्वसस्यौघमालिनी । (५५।१)

tato viprāya sā deyā sarvasasyaughamālinī |

55.2५५.२

अथान्यच्छृणु राजेन्द्र गोदानस्य तु यत्फलम् ॥ (५५।२)

athānyacchṛṇu rājendra godānasya tu yatphalam ||

56.1५६.१

यावद्वत्सस्य पादौ द्वौ मुखं योन्यां प्रदृश्यते । (५६।१)

yāvadvatsasya pādau dvau mukhaṃ yonyāṃ pradṛśyate |

56.2५६.२

तावद्गौः पृथिवी ज्ञेया यावद् गर्भं न मुञ्चति ॥ (५६।२)

tāvadgauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati ||

57.1५७.१

येन केनाप्युपायेन ब्राह्मणे तां समर्पयेत् । (५७।१)

yena kenāpyupāyena brāhmaṇe tāṃ samarpayet |

57.2५७.२

पृथ्वी दत्ता भवेत् तेन सशैलवनकानना ॥ (५७।२)

pṛthvī dattā bhavet tena saśailavanakānanā ||

58.1५८.१

तारयेन्नियतं दत्ता कुलानाम् एकविंशतिम् । (५८।१)

tārayenniyataṃ dattā kulānām ekaviṃśatim |

58.2५८.२

रौप्यखुरीं कांस्यदोहां सवस्त्रां च पयस्विनीम् ॥ (५८।२)

raupyakhurīṃ kāṃsyadohāṃ savastrāṃ ca payasvinīm ||

59.1५९.१

ये प्रयच्छन्ति कृतिनो ग्रस्ते सूर्ये निशाकरे । (५९।१)

ye prayacchanti kṛtino graste sūrye niśākare |

59.2५९.२

तेषां संख्यां न जानामि पुण्यस्याब्दशातैर् अपि ॥ (५९।२)

teṣāṃ saṃkhyāṃ na jānāmi puṇyasyābdaśātair api ||

60.1६०.१

सर्वस्यापि हि दानस्य संख्यास्तीह नराधिप । (६०।१)

sarvasyāpi hi dānasya saṃkhyāstīha narādhipa |

60.2६०.२

चन्द्रसूर्योपरागे च दानसंख्या न विद्यते ॥ (६०।२)

candrasūryoparāge ca dānasaṃkhyā na vidyate ||

61.1६१.१

यत्र गौर् दृश्यते राजन् सर्वतीर्थानि तत्र हि । (६१।१)

yatra gaur dṛśyate rājan sarvatīrthāni tatra hi |

61.2६१.२

तत्र पर्व विजानीयान्नात्र कार्या विचारणा ॥ (६१।२)

tatra parva vijānīyānnātra kāryā vicāraṇā ||

62.1६२.१

पुनः स्मृत्वा तु तत्तीर्थं यः कुर्याद् गमनं नरः । (६२।१)

punaḥ smṛtvā tu tattīrthaṃ yaḥ kuryād gamanaṃ naraḥ |

62.2६२.२

अथवा म्रियते यो ऽत्र रुद्रस्यानुचरो भवेत् ॥ (६२।२)

athavā mriyate yo 'tra rudrasyānucaro bhavet ||

63.1६३.१

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदे दानधर्मप्रशंसावर्णनं नामैकपञ्चाशत्तमो ऽध्यायः ॥ (६३।१)

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhede dānadharmapraśaṃsāvarṇanaṃ nāmaikapañcāśattamo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

SkPur (Rkh), 1, 51

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit