स्कन्दपुराण (रेवाखण्ड)Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), 1, 88
Select a line for its word-by-word analysis.
तस्यैवानन्तरं पार्थ कापिलं तीर्थम् आश्रयेत् । (१।२)
tasyaivānantaraṃ pārtha kāpilaṃ tīrtham āśrayet |
अष्टम्यां च सिते पक्षे चतुर्दश्यां नरेश्वर । (२।१)
aṣṭamyāṃ ca site pakṣe caturdaśyāṃ nareśvara |
ततः सुगन्धपुष्पैश्च श्वेतैश्च नृपसत्तम ॥ (३।२)
tataḥ sugandhapuṣpaiśca śvetaiśca nṛpasattama ||
ये ऽर्चयन्ति जितक्रोधा न ते यान्ति यमालयम् । (४।१)
ye 'rcayanti jitakrodhā na te yānti yamālayam |
स्नात्वा रेवाजले पुण्ये भोजयेद् ब्राह्मणाञ्छुभान् ॥ (५।२)
snātvā revājale puṇye bhojayed brāhmaṇāñchubhān ||
तीव्रतेजा विघोरश् च जीवत्पुत्रः प्रियंवदः । (७।१)
tīvratejā vighoraś ca jīvatputraḥ priyaṃvadaḥ |
शत्रुवर्गो न तस्य स्यात् कदाचित् पाण्डुनन्दन ॥ (७।२)
śatruvargo na tasya syāt kadācit pāṇḍunandana ||
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कपिलेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टाशीतितमो ऽध्यायः ॥ (८।१)
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kapileśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭāśītitamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.