स्कन्दपुराण (रेवाखण्ड)Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), 1, 230
Select a line for its word-by-word analysis.
इत्युक्त्वोपररामथ पाण्डोः पुत्राय वै मुनिः । (१।२)
ityuktvopararāmatha pāṇḍoḥ putrāya vai muniḥ |
मार्कण्डमुनिना प्रोक्तं यथा पार्थाय सत्तमाः । (२।१)
mārkaṇḍamuninā proktaṃ yathā pārthāya sattamāḥ |
तथा वः कथितं सर्वं रेवामाहात्म्यमुत्तमम् ॥ (२।२)
tathā vaḥ kathitaṃ sarvaṃ revāmāhātmyamuttamam ||
इयं पुण्या सरिच्छ्रेष्ठा रेवा विश्वैकपावनी । (३।१)
iyaṃ puṇyā saricchreṣṭhā revā viśvaikapāvanī |
तीर्थसङ्गमभेदान्वै धर्मपुत्राय पृच्छते ॥ (४।२)
tīrthasaṅgamabhedānvai dharmaputrāya pṛcchate ||
तथाप्यत्र मुनिश्रेष्ठाः प्रोक्तं पार्थाय वै यथा ॥ (६।२)
tathāpyatra muniśreṣṭhāḥ proktaṃ pārthāya vai yathā ||
तीर्थम्ॐकारमारभ्य वक्ष्ये तीर्थावलिं शुभाम् । (७।१)
tīrthamoṃkāramārabhya vakṣye tīrthāvaliṃ śubhām |
प्रोच्यमानां समासेन तां शृणुध्वं महर्षयः ॥ (७।२)
procyamānāṃ samāsena tāṃ śṛṇudhvaṃ maharṣayaḥ ||
नत्वा सोमं महेशानं नत्वा ब्रह्माच्युतावुभौ । (८।१)
natvā somaṃ maheśānaṃ natvā brahmācyutāvubhau |
पूर्वाचार्यांस् तथा सर्वान्दृष्ट्वादृष्टार्थवेदिनः । (९।१)
pūrvācāryāṃs tathā sarvāndṛṣṭvādṛṣṭārthavedinaḥ |
प्रणम्य नर्मदां देवीं वक्ष्ये तीर्थावलिं त्विमाम् ॥ (९।२)
praṇamya narmadāṃ devīṃ vakṣye tīrthāvaliṃ tvimām ||
यमारभ्ये प्रवक्ष्यामि रेवातीर्थावलिं द्विजाः ॥ (१०।२)
yamārabhye pravakṣyāmi revātīrthāvaliṃ dvijāḥ ||
अस्मिन् मार्कण्डगदिते रेवातीर्थक्रमे शुभे । (११।१)
asmin mārkaṇḍagadite revātīrthakrame śubhe |
ततः प्रश्नाधिकारश्च प्रशंसा नर्मदोद्भवा । (१२।१)
tataḥ praśnādhikāraśca praśaṃsā narmadodbhavā |
तथा पञ्चदशानां च प्रवाहानां प्रकीर्तनम् ॥ (१२।२)
tathā pañcadaśānāṃ ca pravāhānāṃ prakīrtanam ||
मार्कण्डेयानुभूतानां सप्तानां लक्षणानि च । (१४।१)
mārkaṇḍeyānubhūtānāṃ saptānāṃ lakṣaṇāni ca |
माहात्म्यं चैव रेवायाः शिवविष्ण्वोस् तथैव च ॥ (१४।२)
māhātmyaṃ caiva revāyāḥ śivaviṣṇvos tathaiva ca ||
संहारलक्षणं तद्वद् ओङ्कारस्य च सम्भवः । (१५।१)
saṃhāralakṣaṇaṃ tadvad oṅkārasya ca sambhavaḥ |
दारुकेश्वरतीर्थं च तीर्थं वै चरुकेश्वरम् ॥ (१६।२)
dārukeśvaratīrthaṃ ca tīrthaṃ vai carukeśvaram ||
पातालेश्वरतीर्थं च कोटियज्ञाह्वयं तथा ॥ (१७।२)
pātāleśvaratīrthaṃ ca koṭiyajñāhvayaṃ tathā ||
वरुणेश्वरतीर्थं च लिङ्गान्यष्टोत्तरं शतम् । (१८।१)
varuṇeśvaratīrthaṃ ca liṅgānyaṣṭottaraṃ śatam |
सिद्धेश्वरं यमेशं च ब्रह्मेश्वरमतः परम् ॥ (१८।२)
siddheśvaraṃ yameśaṃ ca brahmeśvaramataḥ param ||
सारस्वतं चाष्टरुद्रं सावित्रं सोमसंज्ञितम् । (१९।१)
sārasvataṃ cāṣṭarudraṃ sāvitraṃ somasaṃjñitam |
शिवखातं महातीर्थं रुद्रावर्तं द्विजोत्तमाः ॥ (१९।२)
śivakhātaṃ mahātīrthaṃ rudrāvartaṃ dvijottamāḥ ||
ब्रह्मावर्तं परं तीर्थं सूर्यावर्तमतः परम् । (२०।१)
brahmāvartaṃ paraṃ tīrthaṃ sūryāvartamataḥ param |
पिप्पलावर्ततीर्थं च पिप्पल्याश्चैव सङ्गमः ॥ (२०।२)
pippalāvartatīrthaṃ ca pippalyāścaiva saṅgamaḥ ||
विशल्यासम्भवश्चापि भृगुतुङ्गाद्रिकीर्तनम् ॥ (२१।२)
viśalyāsambhavaścāpi bhṛgutuṅgādrikīrtanam ||
करमर्देश्वरं तीर्थं चक्रतीर्थमनुत्तमम् ॥ (२२।२)
karamardeśvaraṃ tīrthaṃ cakratīrthamanuttamam ||
सङ्गमो नीलगङ्गायाः विध्वंसस्त्रिपुरस्य च । (२३।१)
saṅgamo nīlagaṅgāyāḥ vidhvaṃsastripurasya ca |
अप्सरेश्वरतीर्थं च देहक्षेपे विधिस्ततः । (२४।१)
apsareśvaratīrthaṃ ca dehakṣepe vidhistataḥ |
तीर्थं ज्वालेश्वरं नाम ज्वालायाः सङ्गमस्तथा ॥ (२४।२)
tīrthaṃ jvāleśvaraṃ nāma jvālāyāḥ saṅgamastathā ||
शक्रतीर्थं कुशावर्तं हंसतीर्थं तथैव च । (२५।१)
śakratīrthaṃ kuśāvartaṃ haṃsatīrthaṃ tathaiva ca |
चण्डपाणेश्च माहात्म्यं कावेरीसङ्गमस्तथा । (२७।१)
caṇḍapāṇeśca māhātmyaṃ kāverīsaṅgamastathā |
सङ्गमश्चण्डवेगायास्तीर्थं चण्डेश्वरं तथा । (२८।१)
saṅgamaścaṇḍavegāyāstīrthaṃ caṇḍeśvaraṃ tathā |
पितृतीर्थं च तत्रैव ओङ्कारस्य च सम्भवम् । (२९।१)
pitṛtīrthaṃ ca tatraiva oṅkārasya ca sambhavam |
माहात्म्यं पञ्चलिङ्गानाम् ओङ्कारस्य मुनीश्वराः ॥ (२९।२)
māhātmyaṃ pañcaliṅgānām oṅkārasya munīśvarāḥ ||
कोटितीर्थस्य माहात्म्यं तीर्थं काकह्रदं तथा । (३०।१)
koṭitīrthasya māhātmyaṃ tīrthaṃ kākahradaṃ tathā |
जम्बुकेश्वरतीर्थं च सारस्वतम् अतः परम् ॥ (३०।२)
jambukeśvaratīrthaṃ ca sārasvatam ataḥ param ||
कपिलासङ्गमस्तद्वत्तीर्थं च कपिलेश्वरम् । (३१।१)
kapilāsaṅgamastadvattīrthaṃ ca kapileśvaram |
दैत्यसूदनतीर्थं च चक्रतीर्थं च वामनम् ॥ (३१।२)
daityasūdanatīrthaṃ ca cakratīrthaṃ ca vāmanam ||
तीर्थलक्षं विदुः पूर्वे कपिलायास्तु सङ्गमे । (३२।१)
tīrthalakṣaṃ viduḥ pūrve kapilāyāstu saṅgame |
स्वर्गस्य नरकस्यापि लक्षणं मुनिभाषितम् ॥ (३२।२)
svargasya narakasyāpi lakṣaṇaṃ munibhāṣitam ||
तथा मृगवनं पुण्यं तत्र तीर्थं मनोरथम् ॥ (३४।२)
tathā mṛgavanaṃ puṇyaṃ tatra tīrthaṃ manoratham ||
सङ्गमो ऽङ्गारगर्ताया अङ्गारेश्वरमुत्तमम् । (३५।१)
saṅgamo 'ṅgāragartāyā aṅgāreśvaramuttamam |
तथा मेघवनं तीर्थं देव्या नामानुकीर्तनम् ॥ (३५।२)
tathā meghavanaṃ tīrthaṃ devyā nāmānukīrtanam ||
सङ्गमश्चापि कुब्जायास्तीर्थं कुब्जेश्वरं तथा । (३६।१)
saṅgamaścāpi kubjāyāstīrthaṃ kubjeśvaraṃ tathā |
बिल्वाम्रकं तथा तीर्थं पूर्णद्वीपमतः परम् ॥ (३६।२)
bilvāmrakaṃ tathā tīrthaṃ pūrṇadvīpamataḥ param ||
तथा हिरण्यगर्भायाः सङ्गमः पुण्यकीर्तनः । (३७।१)
tathā hiraṇyagarbhāyāḥ saṅgamaḥ puṇyakīrtanaḥ |
द्वीपेश्वरं नाम तीर्थं पुण्यं यज्ञेश्वरं तथा ॥ (३७।२)
dvīpeśvaraṃ nāma tīrthaṃ puṇyaṃ yajñeśvaraṃ tathā ||
माण्डव्याश्रमतीर्थं च विशोकासङ्गमस्तथा । (३८।१)
māṇḍavyāśramatīrthaṃ ca viśokāsaṅgamastathā |
वागीश्वरं नाम तीर्थं पुण्यो वै वागुसङ्गमः ॥ (३८।२)
vāgīśvaraṃ nāma tīrthaṃ puṇyo vai vāgusaṅgamaḥ ||
सहस्रावर्तकं तत्र तीर्थं सौगन्धिकं तथा । (३९।१)
sahasrāvartakaṃ tatra tīrthaṃ saugandhikaṃ tathā |
सङ्गमश्च सरस्वत्या ईशानं तीर्थमुत्तमम् ॥ (३९।२)
saṅgamaśca sarasvatyā īśānaṃ tīrthamuttamam ||
ब्रह्मोदं शाङ्करं सौम्यं सारस्वतमतः परम् ॥ (४०।२)
brahmodaṃ śāṅkaraṃ saumyaṃ sārasvatamataḥ param ||
आग्नेयम् अदितीशं च वाराहं तीर्थमुत्तमम् ॥ (४१।२)
āgneyam aditīśaṃ ca vārāhaṃ tīrthamuttamam ||
तथा देवपथं तीर्थं तीर्थं यज्ञसहस्रकम् । (४२।१)
tathā devapathaṃ tīrthaṃ tīrthaṃ yajñasahasrakam |
शुक्लतीर्थं दीप्तिकेशं विष्णुतीर्थं च योधनम् ॥ (४२।२)
śuklatīrthaṃ dīptikeśaṃ viṣṇutīrthaṃ ca yodhanam ||
योगेशं रोहिणीतीर्थं दारुतीर्थं च सत्तमाः ॥ (४३।२)
yogeśaṃ rohiṇītīrthaṃ dārutīrthaṃ ca sattamāḥ ||
ब्रह्मावर्तं च पत्त्रेशं वाह्नं सौरं च कीर्त्यते । (४४।१)
brahmāvartaṃ ca pattreśaṃ vāhnaṃ sauraṃ ca kīrtyate |
मेघनादं दारुतीर्थं देवतीर्थं गुहाश्रयम् ॥ (४४।२)
meghanādaṃ dārutīrthaṃ devatīrthaṃ guhāśrayam ||
नर्मदेश्वरसंज्ञं तत्कपिलातीर्थमुत्तमम् । (४५।१)
narmadeśvarasaṃjñaṃ tatkapilātīrthamuttamam |
विमलेश्वरतीर्थं च पुष्करिण्याश्च सङ्गमः । (४६।१)
vimaleśvaratīrthaṃ ca puṣkariṇyāśca saṅgamaḥ |
प्रशंसा शूलभेदस्य तत्रैवान्धकविक्रमः ॥ (४६।२)
praśaṃsā śūlabhedasya tatraivāndhakavikramaḥ ||
शूलभेदस्य चोत्पत्तिस्तथा पात्रपरीक्षणम् ॥ (४७।२)
śūlabhedasya cotpattistathā pātraparīkṣaṇam ||
स्वर्गतिं दीर्घतपसो भानुमत्यास्तथेङ्गितम् ॥ (४८।२)
svargatiṃ dīrghatapaso bhānumatyāstatheṅgitam ||
कपिलेश्वरतीर्थं च मोक्षतीर्थमतः परम् ॥ (४९।२)
kapileśvaratīrthaṃ ca mokṣatīrthamataḥ param ||
सङ्गमो मोक्षनद्याश्च तीर्थं च विमलेश्वरम् । (५०।१)
saṅgamo mokṣanadyāśca tīrthaṃ ca vimaleśvaram |
तथैवोलूकतीर्थं च पुष्करिण्याश्च सङ्गमः ॥ (५०।२)
tathaivolūkatīrthaṃ ca puṣkariṇyāśca saṅgamaḥ ||
आदित्येश्वरतीर्थं च तीर्थं वै सङ्गमेश्वरम् । (५१।१)
ādityeśvaratīrthaṃ ca tīrthaṃ vai saṅgameśvaram |
सङ्गमो भीमकुल्यायास्तीर्थं भीमेश्वरं शुभम् ॥ (५१।२)
saṅgamo bhīmakulyāyāstīrthaṃ bhīmeśvaraṃ śubham ||
मार्कण्डेश्वरतीर्थं च तथा वै पिप्पलेश्वरम् । (५२।१)
mārkaṇḍeśvaratīrthaṃ ca tathā vai pippaleśvaram |
करोटीश्वरतीर्थं च तीर्थमिन्द्रेश्वरं शुभम् ॥ (५२।२)
karoṭīśvaratīrthaṃ ca tīrthamindreśvaraṃ śubham ||
वैद्यनाथं च केदारम् आनन्देश्वरसंज्ञितम् ॥ (५३।२)
vaidyanāthaṃ ca kedāram ānandeśvarasaṃjñitam ||
मातृतीर्थं च मुण्डेशं चौरं कामेश्वरं तथा । (५४।१)
mātṛtīrthaṃ ca muṇḍeśaṃ cauraṃ kāmeśvaraṃ tathā |
सङ्गमश्चानुदुह्या वै तीर्थे भीमार्जुनाह्वये । (५४।२)
saṅgamaścānuduhyā vai tīrthe bhīmārjunāhvaye |
तीर्थं धर्मेश्वरं नाम लुङ्केश्वरम् अतः परम् ॥ (५४।३)
tīrthaṃ dharmeśvaraṃ nāma luṅkeśvaram ataḥ param ||
तत्रैव मातृतीर्थं च मुनिनोक्तं मुनीश्वराः । (५७।१)
tatraiva mātṛtīrthaṃ ca muninoktaṃ munīśvarāḥ |
भीमेश्वरं च चन्द्रेशम् अश्ववत्याश्च सङ्गमः । (५८।१)
bhīmeśvaraṃ ca candreśam aśvavatyāśca saṅgamaḥ |
बह्वीश्वरं नारदेशं वैद्यनाथं कपीश्वरम् ॥ (५८।२)
bahvīśvaraṃ nāradeśaṃ vaidyanāthaṃ kapīśvaram ||
कुम्भेश्वरं च मार्कण्डं रामेशं लक्ष्मणेश्वरम् । (५९।१)
kumbheśvaraṃ ca mārkaṇḍaṃ rāmeśaṃ lakṣmaṇeśvaram |
मेघेश्वरं मत्स्यकेशम् अप्सराह्रदसंज्ञकम् ॥ (५९।२)
megheśvaraṃ matsyakeśam apsarāhradasaṃjñakam ||
दधिस्कन्दं मधुस्कन्दं नन्दिकेशं च वारुणम् । (६०।१)
dadhiskandaṃ madhuskandaṃ nandikeśaṃ ca vāruṇam |
नारायणाह्वयं तीर्थं चक्रतीर्थमनुत्तमम् । (६१।१)
nārāyaṇāhvayaṃ tīrthaṃ cakratīrthamanuttamam |
चण्डादित्यं परं तीर्थं चण्डिकातीर्थमुत्तमम् ॥ (६१।२)
caṇḍādityaṃ paraṃ tīrthaṃ caṇḍikātīrthamuttamam ||
यमहासाह्वयं तीर्थं तथा गङ्गेश्वरं शुभम् । (६२।१)
yamahāsāhvayaṃ tīrthaṃ tathā gaṅgeśvaraṃ śubham |
नलेश्वरं च मार्कण्डं शुक्लतीर्थमतः परम् । (६३।१)
naleśvaraṃ ca mārkaṇḍaṃ śuklatīrthamataḥ param |
व्यासेश्वरं परं तीर्थं तत्र सिद्धेश्वरं तथा ॥ (६३।२)
vyāseśvaraṃ paraṃ tīrthaṃ tatra siddheśvaraṃ tathā ||
कोटितीर्थं प्रभातीर्थं वासुकीश्वरम् उत्तमम् । (६४।१)
koṭitīrthaṃ prabhātīrthaṃ vāsukīśvaram uttamam |
सङ्गमश्च करञ्जाया मार्कण्डेश्वरमुत्तमम् ॥ (६४।२)
saṅgamaśca karañjāyā mārkaṇḍeśvaramuttamam ||
तीर्थं कोटीश्वरं नाम तथा संकर्षणाह्वयम् । (६५।१)
tīrthaṃ koṭīśvaraṃ nāma tathā saṃkarṣaṇāhvayam |
एरण्डीसङ्गमः पुण्यो मातृतीर्थं च शोभनम् । (६६।१)
eraṇḍīsaṅgamaḥ puṇyo mātṛtīrthaṃ ca śobhanam |
तीर्थं स्वर्णशलाकाख्यं तथा चैवाम्बिकेश्वरम् ॥ (६६।२)
tīrthaṃ svarṇaśalākākhyaṃ tathā caivāmbikeśvaram ||
सौभाग्यसुन्दरी तीर्थं धनदेश्वरमुत्तमम् ॥ (६७।२)
saubhāgyasundarī tīrthaṃ dhanadeśvaramuttamam ||
रोहिण्यं चक्रतीर्थं च उत्तरेश्वरसंज्ञितम् । (६८।१)
rohiṇyaṃ cakratīrthaṃ ca uttareśvarasaṃjñitam |
भोगेश्वरं च केदारं निष्कलङ्कमतः परम् ॥ (६८।२)
bhogeśvaraṃ ca kedāraṃ niṣkalaṅkamataḥ param ||
Data courtesy of The Digital Corpus of Sanskrit.