स्कन्दपुराण (रेवाखण्ड)Skandapurāṇa (Revākhaṇḍa)

SkPur (Rkh), 1, 211

211 of 232 · 48 verses

Select a line for its word-by-word analysis.

1.1१.१

श्रीमार्कण्डेय उवाच । (१।१)

śrīmārkaṇḍeya uvāca

1.2१.२

आश्चर्यभूतं लोकस्य देवदेवेन यत्कृतम् । (१।२)

āścaryabhūtaṃ lokasya devadevena yatkṛtam |

1.3१.३

तत्ते सर्वं प्रवक्ष्यामि नर्मदातटवासिनाम् ॥ (१।३)

tatte sarvaṃ pravakṣyāmi narmadātaṭavāsinām ||

2.1२.१

द्विजान् सुकृत्पणान् देवः कुष्ठी भूत्वा ययाच ह । (२।१)

dvijān sukṛtpaṇān devaḥ kuṣṭhī bhūtvā yayāca ha |

2.2२.२

श्राद्धकाले तु सम्प्राप्ते रक्तगन्धानुलेपनः ॥ (२।२)

śrāddhakāle tu samprāpte raktagandhānulepanaḥ ||

3.1३.१

स्रवद्बुद्बुदगात्रस्तु मक्षिकाकृमिसंवृतः । (३।१)

sravadbudbudagātrastu makṣikākṛmisaṃvṛtaḥ |

3.2३.२

दुश्चर्मा दुर्मुखो गन्धी प्रस्खलंश्च पदे पदे ॥ (३।२)

duścarmā durmukho gandhī praskhalaṃśca pade pade ||

4.1४.१

ब्राह्मणावसथं गत्वा स्खलन्द्वारे ऽब्रवीद् इदम् । (४।१)

brāhmaṇāvasathaṃ gatvā skhalandvāre 'bravīd idam |

4.2४.२

भोभो गृहपते त्वद्य ब्राह्मणैः सह भोजनम् ॥ (४।२)

bhobho gṛhapate tvadya brāhmaṇaiḥ saha bhojanam ||

5.1५.१

त्वद्गृहे कर्तुम् इच्छामि ह्येभिः सह सुसंस्कृतम् । (५।१)

tvadgṛhe kartum icchāmi hyebhiḥ saha susaṃskṛtam |

5.2५.२

ततस्तं ब्रह्माणं दृष्ट्वा यजमानसमन्विताः ॥ (५।२)

tatastaṃ brahmāṇaṃ dṛṣṭvā yajamānasamanvitāḥ ||

6.1६.१

स्रवन्तं सर्वगात्रेषु धिग् धिग् इत्येवम् अब्रुवन् । (६।१)

sravantaṃ sarvagātreṣu dhig dhig ityevam abruvan |

6.2६.२

निर्गच्छस्वाशु दुर्गन्ध गृहाच्छीघ्रं द्विजाधम ॥ (६।२)

nirgacchasvāśu durgandha gṛhācchīghraṃ dvijādhama ||

7.1७.१

अभोज्यमेतत्सर्वेषां दर्शनात् तव सत्कृतम् । (७।१)

abhojyametatsarveṣāṃ darśanāt tava satkṛtam |

7.2७.२

एवमेव तथेत्युक्त्वा देवदेवो महेश्वरः ॥ (७।२)

evameva tathetyuktvā devadevo maheśvaraḥ ||

8.1८.१

जगामाकाशममलं दृश्यमानो द्विजोत्तमैः । (८।१)

jagāmākāśamamalaṃ dṛśyamāno dvijottamaiḥ |

8.2८.२

गते चादर्शनं देवे स्नात्वाभ्युक्ष्य समन्ततः ॥ (८।२)

gate cādarśanaṃ deve snātvābhyukṣya samantataḥ ||

9.1९.१

भुञ्जते ऽस्म द्विजा राजन्यावत् पात्रे पृथक्पृथक् । (९।१)

bhuñjate 'sma dvijā rājanyāvat pātre pṛthakpṛthak |

9.2९.२

यत्रयत्र च पश्यन्ति तत्रतत्र कृमिर्बहुः ॥ (९।२)

yatrayatra ca paśyanti tatratatra kṛmirbahuḥ ||

10.1१०.१

दृष्ट्वा विस्मयमापन्नाः सर्वे किमिति चाब्रुवन् । (१०।१)

dṛṣṭvā vismayamāpannāḥ sarve kimiti cābruvan |

10.2१०.२

ततः कश्चिद् उवाचेदं ब्राह्मणो गुणवानजः ॥ (१०।२)

tataḥ kaścid uvācedaṃ brāhmaṇo guṇavānajaḥ ||

11.1११.१

योगीन्द्रः शङ्कया तत्र बहुविप्रसमागमे । (११।१)

yogīndraḥ śaṅkayā tatra bahuviprasamāgame |

11.2११.२

यो ऽत्र पूर्वं समायातः स योगी परमेश्वरः ॥ (११।२)

yo 'tra pūrvaṃ samāyātaḥ sa yogī parameśvaraḥ ||

12.1१२.१

तस्येदं क्रीडितं मन्ये भर्त्सितस्य विपाकजम् । (१२।१)

tasyedaṃ krīḍitaṃ manye bhartsitasya vipākajam |

12.2१२.२

फलं भवति नान्यस्य ह्यतिथेः शास्त्रनिश्चयात् ॥ (१२।२)

phalaṃ bhavati nānyasya hyatitheḥ śāstraniścayāt ||

13.1१३.१

सम्पूज्य परमात्मा वै ह्यतिथिश्च विशेषतः । (१३।१)

sampūjya paramātmā vai hyatithiśca viśeṣataḥ |

13.2१३.२

श्राद्धकाले तु सम्प्राप्तम् अतिथिं यो न पूजयेत् ॥ (१३।२)

śrāddhakāle tu samprāptam atithiṃ yo na pūjayet ||

14.1१४.१

पिशाचा राक्षसास्तस्य तद्विलुम्पन्त्यसंशयम् । (१४।१)

piśācā rākṣasāstasya tadvilumpantyasaṃśayam |

14.2१४.२

रूपान्वितं विरूपं वा मलिनं मलिनाम्बरम् ॥ (१४।२)

rūpānvitaṃ virūpaṃ vā malinaṃ malināmbaram ||

15.1१५.१

योगीन्द्रं श्वपचं वापि अतिथिं न विचारयेत् । (१५।१)

yogīndraṃ śvapacaṃ vāpi atithiṃ na vicārayet |

15.2१५.२

तच्छ्रुत्वा वचनं तस्य यजमानपुरोगमाः ॥ (१५।२)

tacchrutvā vacanaṃ tasya yajamānapurogamāḥ ||

16.1१६.१

ब्राह्मणा द्विजमन्वेष्टुं धाविताः सर्वतोदिशम् । (१६।१)

brāhmaṇā dvijamanveṣṭuṃ dhāvitāḥ sarvatodiśam |

16.2१६.२

तावत् कथंचित् केनापि गहनं वनमाश्रितः ॥ (१६।२)

tāvat kathaṃcit kenāpi gahanaṃ vanamāśritaḥ ||

17.1१७.१

दृष्टो दृष्ट इति प्रोक्तं तेन ते सर्व आगताः । (१७।१)

dṛṣṭo dṛṣṭa iti proktaṃ tena te sarva āgatāḥ |

17.2१७.२

ततः पश्यन्ति तं विप्रं स्थाणुवन्निश्चलं स्थितम् ॥ (१७।२)

tataḥ paśyanti taṃ vipraṃ sthāṇuvanniścalaṃ sthitam ||

18.1१८.१

क्रन्दते न चलति स्पन्दते न च पश्यति । (१८।१)

krandate na calati spandate na ca paśyati |

18.2१८.२

जल्पन्ति करुणं केचित् स्तुवन्ति च तथापरे ॥ (१८।२)

jalpanti karuṇaṃ kecit stuvanti ca tathāpare ||

19.1१९.१

वाग्भिः सततम् इष्टाभिः स्तूयमानस्त्रिलोचनः । (१९।१)

vāgbhiḥ satatam iṣṭābhiḥ stūyamānastrilocanaḥ |

19.2१९.२

क्षुधार्दितानां देवेश ब्राह्मणानां विशेषतः । (१९।२)

kṣudhārditānāṃ deveśa brāhmaṇānāṃ viśeṣataḥ |

19.3१९.३

विनष्टमन्नं सर्वेषां पुनः संकर्तुम् अर्हसि ॥ (१९।३)

vinaṣṭamannaṃ sarveṣāṃ punaḥ saṃkartum arhasi ||

20.1२०.१

श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिर । (२०।१)

śrutvā tu vacanaṃ teṣāṃ brāhmaṇānāṃ yudhiṣṭhira |

20.2२०.२

परया कृपया देवः प्रसन्नस् तान् उवाच ह ॥ (२०।२)

parayā kṛpayā devaḥ prasannas tān uvāca ha ||

21.1२१.१

मया प्रसन्नेन महानुभावास्तदेव वो ऽन्नं विहितं सुधेव । (२१।१)

mayā prasannena mahānubhāvāstadeva vo 'nnaṃ vihitaṃ sudheva |

21.2२१.२

भुञ्जन्तु विप्राः सह बन्धुभृत्यैर् अर्चन्तु नित्यं मम मण्डलं च ॥ (२१।२)

bhuñjantu viprāḥ saha bandhubhṛtyair arcantu nityaṃ mama maṇḍalaṃ ca ||

22.1२२.१

ततश्चायतनं पार्थ देवदेवस्य शूलिनः । (२२।१)

tataścāyatanaṃ pārtha devadevasya śūlinaḥ |

22.2२२.२

मुण्डिनामेति विख्यातं सर्वपापहरं शुभम् । (२२।२)

muṇḍināmeti vikhyātaṃ sarvapāpaharaṃ śubham |

22.3२२.३

कार्त्तिक्यां तु विशेषेण गयातीर्थेन तत्समम् ॥ (२२।३)

kārttikyāṃ tu viśeṣeṇa gayātīrthena tatsamam ||

23.1२३.१

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मुण्डितीर्थमाहात्म्यवर्णनं नामैकादशोत्तरद्विशततमो ऽध्यायः ॥ (२३।१)

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe muṇḍitīrthamāhātmyavarṇanaṃ nāmaikādaśottaradviśatatamo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

SkPur (Rkh), 1, 211

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit