स्कन्दपुराण (रेवाखण्ड)Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), 1, 89
Select a line for its word-by-word analysis.
ततो गच्छेत्तु राजेन्द्र पूतिकेश्वरमुत्तमम् । (१।२)
tato gacchettu rājendra pūtikeśvaramuttamam |
स्थापितं जाम्बुवन्तेन लोकानां तु हितार्थिना । (२।१)
sthāpitaṃ jāmbuvantena lokānāṃ tu hitārthinā |
राजा प्रसेनजिन्नाम तस्यां वक्षस्थलान् मणौ ॥ (२।२)
rājā prasenajinnāma tasyāṃ vakṣasthalān maṇau ||
तत्र तीर्थे तपस्तप्त्वा निर्व्रणः समजायत ॥ (३।२)
tatra tīrthe tapastaptvā nirvraṇaḥ samajāyata ||
तेन तत्स्थापितं लिङ्गं पूतिकेश्वरमुत्तमम् । (४।१)
tena tatsthāpitaṃ liṅgaṃ pūtikeśvaramuttamam |
कृष्णाष्टम्यां चतुर्दश्यां सर्वकालं नराधिप । (५।२)
kṛṣṇāṣṭamyāṃ caturdaśyāṃ sarvakālaṃ narādhipa |
ये ऽर्चयन्ति सदा देवं ते न यान्ति यमालयम् ॥ (५।३)
ye 'rcayanti sadā devaṃ te na yānti yamālayam ||
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पूतिकेश्वरतीर्थमाहात्म्यवर्णनं नामैकोननवतितमो ऽध्यायः ॥ (६।१)
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pūtikeśvaratīrthamāhātmyavarṇanaṃ nāmaikonanavatitamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.