स्कन्दपुराण (रेवाखण्ड)Skandapurāṇa (Revākhaṇḍa)

SkPur (Rkh), 1, 231

231 of 232 · 116 verses

Select a line for its word-by-word analysis.

1.1१.१

श्रीसूत उवाच । (१।१)

śrīsūta uvāca

1.2१.२

तथैव तीर्थस्तबकान् वक्ष्येऽहम् ऋषिसत्तमाः । (१।२)

tathaiva tīrthastabakān vakṣye'ham ṛṣisattamāḥ |

1.3१.३

यैस्तु तीर्थावलीगुम्फः पूर्वोक्तैरेकतः कृतः ॥ (१।३)

yaistu tīrthāvalīgumphaḥ pūrvoktairekataḥ kṛtaḥ ||

2.1२.१

विभक्तो भक्तलोकानामानन्दप्रथनः शुभः । (२।१)

vibhakto bhaktalokānāmānandaprathanaḥ śubhaḥ |

2.2२.२

मृकण्डतनयः पूर्वं प्राह पार्थाय पृच्छते ॥ (२।२)

mṛkaṇḍatanayaḥ pūrvaṃ prāha pārthāya pṛcchate ||

3.1३.१

यथा तथाहं वक्ष्यामि तीर्थानां स्तबकानिह । (३।१)

yathā tathāhaṃ vakṣyāmi tīrthānāṃ stabakāniha |

3.2३.२

शिवाम्बुपानजा पुण्या रेवा कल्पलता किल ॥ (३।२)

śivāmbupānajā puṇyā revā kalpalatā kila ||

4.1४.१

तीरद्वयोद्भूततीर्थप्रसूनैः पुष्पिता शुभा । (४।१)

tīradvayodbhūtatīrthaprasūnaiḥ puṣpitā śubhā |

4.2४.२

यत्पुण्यगन्धलक्ष्म्या वै त्रैलोक्यं सुरभीकृतम् ॥ (४।२)

yatpuṇyagandhalakṣmyā vai trailokyaṃ surabhīkṛtam ||

5.1५.१

तत्पुष्पमकरन्दस्य रसास्वादविदुत्तमः । (५।१)

tatpuṣpamakarandasya rasāsvādaviduttamaḥ |

5.2५.२

भ्रमरः खलु मार्कण्डो मुनिर्मतिमतां वरः ॥ (५।२)

bhramaraḥ khalu mārkaṇḍo munirmatimatāṃ varaḥ ||

6.1६.१

तत्पुष्पमालां हृदये तीर्थस्तबकचित्रिताम् । (६।१)

tatpuṣpamālāṃ hṛdaye tīrthastabakacitritām |

6.2६.२

दधाति सततं पुण्यां मुनिर्भृगुकुलोद्वहः । (६।२)

dadhāti satataṃ puṇyāṃ munirbhṛgukulodvahaḥ |

6.3६.३

तस्याः स्तबकसंस्थानं वक्ष्ये ऽहम् ऋषिसत्तमाः ॥ (६।३)

tasyāḥ stabakasaṃsthānaṃ vakṣye 'ham ṛṣisattamāḥ ||

7.1७.१

ओङ्कारतीर्थमारभ्य यावत्पश्चिमसागरम् । (७।१)

oṅkāratīrthamārabhya yāvatpaścimasāgaram |

7.2७.२

संगमाः पञ्चत्रिंशद्वै नदीनां पापनाशनाः ॥ (७।२)

saṃgamāḥ pañcatriṃśadvai nadīnāṃ pāpanāśanāḥ ||

8.1८.१

दशैकमुत्तरे तीरे सत्रिविंशति दक्षिणे । (८।१)

daśaikamuttare tīre satriviṃśati dakṣiṇe |

8.2८.२

पञ्चत्रिंशत्तमः श्रेष्ठो रेवासागरसङ्गमः ॥ (८।२)

pañcatriṃśattamaḥ śreṣṭho revāsāgarasaṅgamaḥ ||

9.1९.१

सङ्गमः सहितान्येवं रेवातीरद्वये ऽपि च । (९।१)

saṅgamaḥ sahitānyevaṃ revātīradvaye 'pi ca |

9.2९.२

चतुःशतानि तीर्थानि प्रसिद्धानि द्विजोत्तमाः ॥ (९।२)

catuḥśatāni tīrthāni prasiddhāni dvijottamāḥ ||

10.1१०.१

त्रिशतं शिवतीर्थानि त्रयीस्त्रिंशत्समन्वितम् । (१०।१)

triśataṃ śivatīrthāni trayīstriṃśatsamanvitam |

10.2१०.२

तत्रापि व्यक्तितो वक्ष्ये शृणुध्वं तानि सत्तमाः ॥ (१०।२)

tatrāpi vyaktito vakṣye śṛṇudhvaṃ tāni sattamāḥ ||

11.1११.१

मार्कण्डेश्वरतीर्थानि दश तेषु मुनीश्वराः । (११।१)

mārkaṇḍeśvaratīrthāni daśa teṣu munīśvarāḥ |

11.2११.२

दशादित्यभवान्यत्र नवैव कपिलेश्वराः ॥ (११।२)

daśādityabhavānyatra navaiva kapileśvarāḥ ||

12.1१२.१

सोमसंस्थापितान्यष्टौ तावन्तो नर्मदेश्वराः । (१२।१)

somasaṃsthāpitānyaṣṭau tāvanto narmadeśvarāḥ |

12.2१२.२

कोटितीर्थान्यथाष्टौ च सप्त सिद्धेश्वरास्तथा ॥ (१२।२)

koṭitīrthānyathāṣṭau ca sapta siddheśvarāstathā ||

13.1१३.१

नागेश्वराश्च सप्तैव रेवातीरद्वये ऽपि तु । (१३।१)

nāgeśvarāśca saptaiva revātīradvaye 'pi tu |

13.2१३.२

सप्तैव वह्निविहितान्यथाप्यावर्तसप्तकम् ॥ (१३।२)

saptaiva vahnivihitānyathāpyāvartasaptakam ||

14.1१४.१

केदारेश्वरतीर्थानि पञ्च पञ्चेन्द्रजानि च । (१४।१)

kedāreśvaratīrthāni pañca pañcendrajāni ca |

14.2१४.२

वरुणेशाश्च पञ्चैव पञ्चैव धनदेश्वराः ॥ (१४।२)

varuṇeśāśca pañcaiva pañcaiva dhanadeśvarāḥ ||

15.1१५.१

देवतीर्थानि पञ्चैव चत्वारो वै यमेश्वराः । (१५।१)

devatīrthāni pañcaiva catvāro vai yameśvarāḥ |

15.2१५.२

वैद्यनाथाश्च चत्वारश्चत्वारो वानरेश्वराः ॥ (१५।२)

vaidyanāthāśca catvāraścatvāro vānareśvarāḥ ||

16.1१६.१

अङ्गारेश्वरतीर्थानि तावन्त्येव मुनीश्वराः । (१६।१)

aṅgāreśvaratīrthāni tāvantyeva munīśvarāḥ |

16.2१६.२

सारस्वतानि चत्वारि चत्वारो दारुकेश्वराः ॥ (१६।२)

sārasvatāni catvāri catvāro dārukeśvarāḥ ||

17.1१७.१

गौतमेश्वरतीर्थानि त्रीणि रामेश्वरास्त्रयः । (१७।१)

gautameśvaratīrthāni trīṇi rāmeśvarāstrayaḥ |

17.2१७.२

कपालेश्वरतीर्थानि त्रीणि हंसकृतानि च ॥ (१७।२)

kapāleśvaratīrthāni trīṇi haṃsakṛtāni ca ||

18.1१८.१

त्रीण्येव मोक्षतीर्थानि त्रयो वै विमलेश्वराः । (१८।१)

trīṇyeva mokṣatīrthāni trayo vai vimaleśvarāḥ |

18.2१८.२

सहस्रयज्ञतीर्थानि त्रीण्येव मुनिरब्रवीत् ॥ (१८।२)

sahasrayajñatīrthāni trīṇyeva munirabravīt ||

19.1१९.१

भीमेश्वरास्त्रयः ख्याताः स्वर्णतीर्थानि त्रीणि च । (१९।१)

bhīmeśvarāstrayaḥ khyātāḥ svarṇatīrthāni trīṇi ca |

19.2१९.२

धौतपापद्वयं प्रोक्तं करञ्जेशद्वयं तथा ॥ (१९।२)

dhautapāpadvayaṃ proktaṃ karañjeśadvayaṃ tathā ||

20.1२०.१

ऋणमोचनतीर्थे द्वे तथा स्कन्देश्वरद्वयम् । (२०।१)

ṛṇamocanatīrthe dve tathā skandeśvaradvayam |

20.2२०.२

दशाश्वमेधतीर्थे द्वे नन्दीतीर्थद्वयं द्विजाः ॥ (२०।२)

daśāśvamedhatīrthe dve nandītīrthadvayaṃ dvijāḥ ||

21.1२१.१

मन्मथेशद्वयं चैव भृगुतीर्थद्वयं तथा । (२१।१)

manmatheśadvayaṃ caiva bhṛgutīrthadvayaṃ tathā |

21.2२१.२

पराशरेश्वरौ द्वौ च अयोनीसंभवद्वयम् ॥ (२१।२)

parāśareśvarau dvau ca ayonīsaṃbhavadvayam ||

22.1२२.१

व्यासेश्वरद्वयं प्रोक्तं पितृतीर्थद्वयं तथा । (२२।१)

vyāseśvaradvayaṃ proktaṃ pitṛtīrthadvayaṃ tathā |

22.2२२.२

नन्दिकेश्वरतीर्थे द्वे द्वौ च गोपेश्वरौ स्मृतौ ॥ (२२।२)

nandikeśvaratīrthe dve dvau ca gopeśvarau smṛtau ||

23.1२३.१

मारुतेशद्वयं तद्वद् द्वौ च ज्वालेश्वरौ स्मृतौ । (२३।१)

māruteśadvayaṃ tadvad dvau ca jvāleśvarau smṛtau |

23.2२३.२

शुक्लतीर्थद्वयं पुण्यम् अप्सरेशद्वयं तथा ॥ (२३।२)

śuklatīrthadvayaṃ puṇyam apsareśadvayaṃ tathā ||

24.1२४.१

पिप्पलेश्वरतीर्थे द्वे माण्डव्येश्वरसंज्ञिते । (२४।१)

pippaleśvaratīrthe dve māṇḍavyeśvarasaṃjñite |

24.2२४.२

द्वीपेश्वरद्वयं चैव प्राह तद्वद्भृगूद्वहः । (२४।२)

dvīpeśvaradvayaṃ caiva prāha tadvadbhṛgūdvahaḥ |

24.3२४.३

उत्तरेश्वरतीर्थे द्वे अशोकेशद्वयी तथा ॥ (२४।३)

uttareśvaratīrthe dve aśokeśadvayī tathā ||

25.1२५.१

द्वे योधनपुरे चैव रोहिणीतीर्थकद्वयम् । (२५।१)

dve yodhanapure caiva rohiṇītīrthakadvayam |

25.2२५.२

लुङ्केश्वरद्वयं ख्यातमाख्यानं मुनिना तथा ॥ (२५।२)

luṅkeśvaradvayaṃ khyātamākhyānaṃ muninā tathā ||

26.1२६.१

सैकोनविंशतिशतं तीर्थान्येकैकशो द्विजाः । (२६।१)

saikonaviṃśatiśataṃ tīrthānyekaikaśo dvijāḥ |

26.2२६.२

स्तबकेषु कृतं तीर्थं द्विशतं सचतुर्दशम् ॥ (२६।२)

stabakeṣu kṛtaṃ tīrthaṃ dviśataṃ sacaturdaśam ||

27.1२७.१

शैवान्येतानि तीर्थानि वैष्णवानि च सत्तमाः । (२७।१)

śaivānyetāni tīrthāni vaiṣṇavāni ca sattamāḥ |

27.2२७.२

शृणुध्वं प्रोच्यमानानि ब्राह्मशाक्तानि च क्रमात् ॥ (२७।२)

śṛṇudhvaṃ procyamānāni brāhmaśāktāni ca kramāt ||

28.1२८.१

अष्टविंशतितीर्थानि वैष्णवान्यब्रवीन्मुनिः । (२८।१)

aṣṭaviṃśatitīrthāni vaiṣṇavānyabravīnmuniḥ |

28.2२८.२

तेषु वाराहतीर्थानि षडेव मुनिसत्तमाः ॥ (२८।२)

teṣu vārāhatīrthāni ṣaḍeva munisattamāḥ ||

29.1२९.१

चत्वारि चक्रतीर्थानि शेषाण्यष्टादशैव हि । (२९।१)

catvāri cakratīrthāni śeṣāṇyaṣṭādaśaiva hi |

29.2२९.२

विष्णुनाधिष्ठितान्य् एव प्राह पूर्वं मृकण्डजः ॥ (२९।२)

viṣṇunādhiṣṭhitāny eva prāha pūrvaṃ mṛkaṇḍajaḥ ||

30.1३०.१

तथैव ब्रह्मणा सिद्ध्यै सप्ततीर्थान्यवीवदत् । (३०।१)

tathaiva brahmaṇā siddhyai saptatīrthānyavīvadat |

30.2३०.२

त्रिषु च ब्रह्मणः पूजा ब्रह्मेशाश्चतुरो ऽपरे । (३०।२)

triṣu ca brahmaṇaḥ pūjā brahmeśāścaturo 'pare |

30.3३०.३

अष्टाविंशन्मया ख्याता यथासङ्ख्यं यथाक्रमम् ॥ (३०।३)

aṣṭāviṃśanmayā khyātā yathāsaṅkhyaṃ yathākramam ||

31.1३१.१

एतत्पवित्रमतुलं ह्येतत् पापहरं परम् । (३१।१)

etatpavitramatulaṃ hyetat pāpaharaṃ param |

31.2३१.२

नर्मदाचरितं पुण्यं माहात्म्यं मुनिभाषितम् ॥ (३१।२)

narmadācaritaṃ puṇyaṃ māhātmyaṃ munibhāṣitam ||

32.1३२.१

सूत उवाच । (३२।१)

sūta uvāca

32.2३२.२

एवमुद्देशतः प्रोक्तो रेवातीर्थक्रमो मया । (३२।२)

evamuddeśataḥ prokto revātīrthakramo mayā |

32.3३२.३

यथा पार्थाय संक्षेपान् मार्कण्डो मुनिरब्रवीत् ॥ (३२।३)

yathā pārthāya saṃkṣepān mārkaṇḍo munirabravīt ||

33.1३३.१

अवान्तराणि तीर्थानि तेषु गुप्तान्यनेकशः । (३३।१)

avāntarāṇi tīrthāni teṣu guptānyanekaśaḥ |

33.2३३.२

यत्र यावत्प्रमाणानि तान्याकर्णयतानघाः ॥ (३३।२)

yatra yāvatpramāṇāni tānyākarṇayatānaghāḥ ||

34.1३४.१

ओङ्कारतीर्थपरितः पर्वताद् अमरकण्टात् । (३४।१)

oṅkāratīrthaparitaḥ parvatād amarakaṇṭāt |

34.2३४.२

क्रोशद्वये सर्वदिक्षु सार्धकोटीत्रयी मता ॥ (३४।२)

krośadvaye sarvadikṣu sārdhakoṭītrayī matā ||

35.1३५.१

तीर्थानां संख्यया गुप्तप्रकटानां द्विजोत्तमाः । (३५।१)

tīrthānāṃ saṃkhyayā guptaprakaṭānāṃ dvijottamāḥ |

35.2३५.२

कोटिरेका तु तीर्थानां कपिलासङ्गमे पृथक् ॥ (३५।२)

koṭirekā tu tīrthānāṃ kapilāsaṅgame pṛthak ||

36.1३६.१

अशोकवनिकायाश्च तीर्थं लक्षं प्रतिष्ठितम् । (३६।१)

aśokavanikāyāśca tīrthaṃ lakṣaṃ pratiṣṭhitam |

36.2३६.२

शतमं गारगर्तायाः सङ्गमे मुनिसत्तमाः ॥ (३६।२)

śatamaṃ gāragartāyāḥ saṅgame munisattamāḥ ||

37.1३७.१

तीर्थानामयुतं तद्वत्कुब्जायाः सङ्गमे स्थितम् । (३७।१)

tīrthānāmayutaṃ tadvatkubjāyāḥ saṅgame sthitam |

37.2३७.२

शतं हिरण्यगर्भायाः सङ्गमे समवस्थितम् ॥ (३७।२)

śataṃ hiraṇyagarbhāyāḥ saṅgame samavasthitam ||

38.1३८.१

तीर्थानामष्टषष्टिश्च विशोकासङ्गमे स्थिता । (३८।१)

tīrthānāmaṣṭaṣaṣṭiśca viśokāsaṅgame sthitā |

38.2३८.२

तथा सहस्रं तीर्थानां संस्थितं वागुसङ्गमे ॥ (३८।२)

tathā sahasraṃ tīrthānāṃ saṃsthitaṃ vāgusaṅgame ||

39.1३९.१

शतं सरस्वतीसङ्गे शुक्लतीर्थे शतद्वयम् । (३९।१)

śataṃ sarasvatīsaṅge śuklatīrthe śatadvayam |

39.2३९.२

सहस्रं विष्णुतीर्थेषु महिष्मत्यामथायुतम् ॥ (३९।२)

sahasraṃ viṣṇutīrtheṣu mahiṣmatyāmathāyutam ||

40.1४०.१

शूलभेदे च तीर्थानां साग्रं लक्षं स्थितं द्विजाः । (४०।१)

śūlabhede ca tīrthānāṃ sāgraṃ lakṣaṃ sthitaṃ dvijāḥ |

40.2४०.२

देवग्रामे सहस्रं च तीर्थानां मुनिरब्रवीत् ॥ (४०।२)

devagrāme sahasraṃ ca tīrthānāṃ munirabravīt ||

41.1४१.१

लुङ्केश्वरे च तीर्थानां साग्रा सप्तशती स्थिता । (४१।१)

luṅkeśvare ca tīrthānāṃ sāgrā saptaśatī sthitā |

41.2४१.२

तीर्थान्यष्टोत्तरशतं मणिनद्याश्च सङ्गमे । (४१।२)

tīrthānyaṣṭottaraśataṃ maṇinadyāśca saṅgame |

41.3४१.३

वैद्यनाथे च तीर्थानां शतमष्टाधिकं विदुः ॥ (४१।३)

vaidyanāthe ca tīrthānāṃ śatamaṣṭādhikaṃ viduḥ ||

42.1४२.१

एवं तावत्प्रमाणानि तीर्थे कुम्भेश्वरे द्विजाः । (४२।१)

evaṃ tāvatpramāṇāni tīrthe kumbheśvare dvijāḥ |

42.2४२.२

साग्रं लक्षं च तीर्थानां स्थितं रेवोरसङ्गमे ॥ (४२।२)

sāgraṃ lakṣaṃ ca tīrthānāṃ sthitaṃ revorasaṅgame ||

43.1४३.१

ततश्चाप्यधिकानि स्युरिति मार्कण्डभाषितम् । (४३।१)

tataścāpyadhikāni syuriti mārkaṇḍabhāṣitam |

43.2४३.२

अष्टाशीतिसहस्राणि व्यासद्वीपाश्रितानि च ॥ (४३।२)

aṣṭāśītisahasrāṇi vyāsadvīpāśritāni ca ||

44.1४४.१

सङ्गमे च करञ्जायाः स्थितमष्टोत्तरायुतम् । (४४।१)

saṅgame ca karañjāyāḥ sthitamaṣṭottarāyutam |

44.2४४.२

एरण्डीसङ्गमे तद्वत्तीर्थान्यष्टाधिकं शतम् ॥ (४४।२)

eraṇḍīsaṅgame tadvattīrthānyaṣṭādhikaṃ śatam ||

45.1४५.१

धूतपापे च तीर्थानां षष्टिरष्टाधिका स्थिता । (४५।१)

dhūtapāpe ca tīrthānāṃ ṣaṣṭiraṣṭādhikā sthitā |

45.2४५.२

स्कन्दतीर्थे शतं पुण्यं तीर्थानां मुनिरुक्तवान् ॥ (४५।२)

skandatīrthe śataṃ puṇyaṃ tīrthānāṃ muniruktavān ||

46.1४६.१

कोहनेश च तीर्थानां षष्टिरष्टाधिका स्थिता । (४६।१)

kohaneśa ca tīrthānāṃ ṣaṣṭiraṣṭādhikā sthitā |

46.2४६.२

सार्धकोटी च तीर्थानां स्थिता वै कोरिलापुरे ॥ (४६।२)

sārdhakoṭī ca tīrthānāṃ sthitā vai korilāpure ||

47.1४७.१

रामकेशवतीर्थे च सहस्रं साग्रमुक्तवान् । (४७।१)

rāmakeśavatīrthe ca sahasraṃ sāgramuktavān |

47.2४७.२

अस्माहके सहस्रं च तीर्थानि निवसन्ति हि ॥ (४७।२)

asmāhake sahasraṃ ca tīrthāni nivasanti hi ||

48.1४८.१

लक्षाष्टकं सहस्रे द्वे शुक्लतीर्थे द्विजोत्तमाः । (४८।१)

lakṣāṣṭakaṃ sahasre dve śuklatīrthe dvijottamāḥ |

48.2४८.२

तीर्थानि कथयामास पुरा पार्थाय भार्गवः ॥ (४८।२)

tīrthāni kathayāmāsa purā pārthāya bhārgavaḥ ||

49.1४९.१

शतमष्टाधिकं प्राह प्रत्येकं सङ्गमेषु च । (४९।१)

śatamaṣṭādhikaṃ prāha pratyekaṃ saṅgameṣu ca |

49.2४९.२

नदीनामवशिष्टानां कावेरीसङ्गमं विना ॥ (४९।२)

nadīnāmavaśiṣṭānāṃ kāverīsaṅgamaṃ vinā ||

50.1५०.१

कावेर्याः सङ्गमे विप्राः स्थिता पञ्चशती तथा । (५०।१)

kāveryāḥ saṅgame viprāḥ sthitā pañcaśatī tathā |

50.2५०.२

तीर्थानां पर्वसु तथा विशेषो मुनिनोदितः ॥ (५०।२)

tīrthānāṃ parvasu tathā viśeṣo muninoditaḥ ||

51.1५१.१

मोक्षतीर्थं हि सत्प्राहुः पुराणपुरुषाश्रितम् । (५१।१)

mokṣatīrthaṃ hi satprāhuḥ purāṇapuruṣāśritam |

51.2५१.२

भृगोः क्षेत्रे च तीर्थानां कोटिरेका समाश्रिता ॥ (५१।२)

bhṛgoḥ kṣetre ca tīrthānāṃ koṭirekā samāśritā ||

52.1५२.१

साधिकानामृषिश्रेष्ठा वक्तुं शक्तो हि को भवेत् । (५२।१)

sādhikānāmṛṣiśreṣṭhā vaktuṃ śakto hi ko bhavet |

52.2५२.२

सर्वामराश्रयं प्रोक्तं सर्वतीर्थाश्रयं तथा ॥ (५२।२)

sarvāmarāśrayaṃ proktaṃ sarvatīrthāśrayaṃ tathā ||

53.1५३.१

त्रिषु लोकेषु विख्यातं पूजितं सिद्धिसाधनम् । (५३।१)

triṣu lokeṣu vikhyātaṃ pūjitaṃ siddhisādhanam |

53.2५३.२

भारभूत्यां च तीर्थानां स्थितमष्टोत्तरं शतम् ॥ (५३।२)

bhārabhūtyāṃ ca tīrthānāṃ sthitamaṣṭottaraṃ śatam ||

54.1५४.१

अक्रूरेश्वरतीर्थे च सार्धं तीर्थशतं स्थितम् । (५४।१)

akrūreśvaratīrthe ca sārdhaṃ tīrthaśataṃ sthitam |

54.2५४.२

विमलेश्वरतीर्थे तु रेवासागरसङ्गमे । (५४।२)

vimaleśvaratīrthe tu revāsāgarasaṅgame |

54.3५४.३

दशायुतानि तीर्थानां साधिकान्यब्रवीन्मुनिः ॥ (५४।३)

daśāyutāni tīrthānāṃ sādhikānyabravīnmuniḥ ||

55.1५५.१

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तीर्थसंख्यापरिगणनवर्णनं नामैकत्रिंशदधिकद्विशततमो ऽध्यायः ॥ (५५।१)

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tīrthasaṃkhyāparigaṇanavarṇanaṃ nāmaikatriṃśadadhikadviśatatamo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

SkPur (Rkh), 1, 231

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit