Ṛgveda · Maṇḍala 10 · Sūkta 68
Ṛk 10.68.11
Saṃhitā
अ॒भि श्या॒वं न कृश॑नेभि॒रश्वं॒ नक्ष॑त्रेभिः पि॒तरो॒ द्याम॑पिंशन् ।
रात्र्यां॒ तमो॒ अद॑धु॒र्ज्योति॒रह॒न्बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः ॥
अभि श्यावं न कृशनेभिर् अश्वं नक्षत्रेभिः पितरो द्याम् अपिंशन् |
रात्र्यां तमो अदधुर् ज्योतिर् अहन् बृहस्पतिर् भिनद् अद्रिं विदद् गाः ||
abhí śyāvám ná kṛ́śanebhiráśvam nákṣatrebhiḥ pitáro dyā́mapiṃśan ǀ
rā́tryām támo ádadhurjyótiráhanbṛ́haspátirbhinádádrim vidádgā́ḥ ǁ
abhi śyāvaṃ na kṛśanebhir aśvaṃ nakṣatrebhiḥ pitaro dyām apiṃśan |
rātryāṃ tamo adadhur jyotir ahan bṛhaspatir bhinad adriṃ vidad gāḥ ||
Padapāṭha
अ॒भि । श्या॒वम् । न । कृश॑नेभिः । अश्व॑म् । नक्ष॑त्रेभिः । पि॒तरः॑ । द्याम् । अ॒पिं॒श॒न् ।
रात्र्या॑म् । तमः॑ । अद॑धुः । ज्योतिः॑ । अह॑न् । बृह॒स्पतिः॑ । भि॒नत् । अद्रि॑म् । वि॒दत् । गाः ॥
अभि । श्यावम् । न । कृशनेभिः । अश्वम् । नक्षत्रेभिः । पितरः । द्याम् । अपिंशन् ।
रात्र्याम् । तमः । अदधुः । ज्योतिः । अहन् । बृहस्पतिः । भिनत् । अद्रिम् । विदत् । गाः ॥
abhí ǀ śyāvám ǀ ná ǀ kṛ́śanebhiḥ ǀ áśvam ǀ nákṣatrebhiḥ ǀ pitáraḥ ǀ dyā́m ǀ apiṃśan ǀ
rā́tryām ǀ támaḥ ǀ ádadhuḥ ǀ jyótiḥ ǀ áhan ǀ bṛ́haspátiḥ ǀ bhinát ǀ ádrim ǀ vidát ǀ gā́ḥ ǁ
abhi ǀ śyāvam ǀ na ǀ kṛśanebhiḥ ǀ aśvam ǀ nakṣatrebhiḥ ǀ pitaraḥ ǀ dyām ǀ apiṃśan ǀ
rātryām ǀ tamaḥ ǀ adadhuḥ ǀ jyotiḥ ǀ ahan ǀ bṛhaspatiḥ ǀ bhinat ǀ adrim ǀ vidat ǀ gāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.068.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.18.05
- Maṇḍala · Anuvāka · Ṛk
- 10.05.125
- Devatā देवता
- Bṛhaspati
- Ṛṣi ऋषि
- Ayāsya Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.