Ṛgveda · Maṇḍala 10 · Sūkta 68
Ṛk 10.68.6
Saṃhitā
य॒दा व॒लस्य॒ पीय॑तो॒ जसुं॒ भेद्बृह॒स्पति॑रग्नि॒तपो॑भिर॒र्कैः ।
द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया॑णां ॥
यदा वलस्य पीयतो जसुम् भेद् बृहस्पतिर् अग्नितपोभिर् अर्कैः |
दद्भिर् न जिह्वा परिविष्टम् आदद् आविर् निधींर् अकृणोद् उस्रियाणाम् ||
yadā́ valásya pī́yato jásum bhédbṛ́haspátiragnitápobhirarkáiḥ ǀ
dadbhírná jihvā́ páriviṣṭamā́dadāvírnidhī́m̐rakṛṇodusríyāṇām ǁ
yadā valasya pīyato jasum bhed bṛhaspatir agnitapobhir arkaiḥ |
dadbhir na jihvā pariviṣṭam ādad āvir nidhīṃr akṛṇod usriyāṇām ||
Padapāṭha
य॒दा । व॒लस्य॑ । पीय॑तः । जसु॑म् । भेत् । बृह॒स्पतिः॑ । अ॒ग्नि॒तपः॑ऽभिः । अ॒र्कैः ।
द॒त्ऽभिः । न । जि॒ह्वा । परि॑ऽविष्टम् । आद॑त् । आ॒विः । नि॒ऽधीन् । अ॒कृ॒णो॒त् । उ॒स्रिया॑णाम् ॥
यदा । वलस्य । पीयतः । जसुम् । भेत् । बृहस्पतिः । अग्नितपःऽभिः । अर्कैः ।
दत्ऽभिः । न । जिह्वा । परिऽविष्टम् । आदत् । आविः । निऽधीन् । अकृणोत् । उस्रियाणाम् ॥
yadā́ ǀ valásya ǀ pī́yataḥ ǀ jásum ǀ bhét ǀ bṛ́haspátiḥ ǀ agnitápaḥ-bhiḥ ǀ arkáiḥ ǀ
dat-bhíḥ ǀ ná ǀ jihvā́ ǀ pári-viṣṭam ǀ ā́dat ǀ āvíḥ ǀ ni-dhī́n ǀ akṛṇot ǀ usríyāṇām ǁ
yadā ǀ valasya ǀ pīyataḥ ǀ jasum ǀ bhet ǀ bṛhaspatiḥ ǀ agnitapaḥ-bhiḥ ǀ arkaiḥ ǀ
dat-bhiḥ ǀ na ǀ jihvā ǀ pari-viṣṭam ǀ ādat ǀ āviḥ ǀ ni-dhīn ǀ akṛṇot ǀ usriyāṇām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.068.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.17.06
- Maṇḍala · Anuvāka · Ṛk
- 10.05.120
- Devatā देवता
- Bṛhaspati
- Ṛṣi ऋषि
- Ayāsya Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.