Ṛgveda · Maṇḍala 10 · Sūkta 68
Ṛk 10.68.8
Saṃhitā
अश्नापि॑नद्धं॒ मधु॒ पर्य॑पश्य॒न्मत्स्यं॒ न दी॒न उ॒दनि॑ क्षि॒यंतं॑ ।
निष्टज्ज॑भार चम॒सं न वृ॒क्षाद्बृह॒स्पति॑र्विर॒वेणा॑ वि॒कृत्य॑ ॥
अश्नापिनद्धम् मधु पर्य् अपश्यन् मत्स्यं न दीन उदनि क्षियन्तम् |
निष् टज् जभार चमसं न वृक्षाद् बृहस्पतिर् विरवेणा विकृत्य ||
áśnā́pinaddham mádhu páryapaśyanmátsyam ná dīná udáni kṣiyántam ǀ
níṣṭájjabhāra camasám ná vṛkṣā́dbṛ́haspátirviravéṇā vikṛ́tya ǁ
aśnāpinaddham madhu pary apaśyan matsyaṃ na dīna udani kṣiyantam |
niṣ ṭaj jabhāra camasaṃ na vṛkṣād bṛhaspatir viraveṇā vikṛtya ||
Padapāṭha
अश्ना॑ । अपि॑ऽनद्धम् । मधु॑ । परि॑ । अ॒प॒श्य॒त् । मत्स्य॑म् । न । दी॒ने । उ॒दनि॑ । क्षि॒यन्त॑म् ।
निः । तत् । ज॒भा॒र॒ । च॒म॒सम् । न । वृ॒क्षात् । बृह॒स्पतिः॑ । वि॒ऽर॒वेण॑ । वि॒ऽकृत्य॑ ॥
अश्ना । अपिऽनद्धम् । मधु । परि । अपश्यत् । मत्स्यम् । न । दीने । उदनि । क्षियन्तम् ।
निः । तत् । जभार । चमसम् । न । वृक्षात् । बृहस्पतिः । विऽरवेण । विऽकृत्य ॥
áśnā ǀ ápi-naddham ǀ mádhu ǀ pári ǀ apaśyat ǀ mátsyam ǀ ná ǀ dīné ǀ udáni ǀ kṣiyántam ǀ
níḥ ǀ tát ǀ jabhāra ǀ camasám ǀ ná ǀ vṛkṣā́t ǀ bṛ́haspátiḥ ǀ vi-ravéṇa ǀ vi-kṛ́tya ǁ
aśnā ǀ api-naddham ǀ madhu ǀ pari ǀ apaśyat ǀ matsyam ǀ na ǀ dīne ǀ udani ǀ kṣiyantam ǀ
niḥ ǀ tat ǀ jabhāra ǀ camasam ǀ na ǀ vṛkṣāt ǀ bṛhaspatiḥ ǀ vi-raveṇa ǀ vi-kṛtya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.068.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.18.02
- Maṇḍala · Anuvāka · Ṛk
- 10.05.122
- Devatā देवता
- Bṛhaspati
- Ṛṣi ऋषि
- Ayāsya Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.