Ṛgveda · Maṇḍala 10 · Sūkta 68
Ṛk 10.68.7
Saṃhitā
बृह॒स्पति॒रम॑त॒ हि त्यदा॑सां॒ नाम॑ स्व॒रीणां॒ सद॑ने॒ गुहा॒ यत् ।
आं॒डेव॑ भि॒त्त्वा श॑कु॒नस्य॒ गर्भ॒मुदु॒स्रियाः॒ पर्व॑तस्य॒ त्मना॑जत् ॥
बृहस्पतिर् अमत हि त्यद् आसां नाम स्वरीणां सदने गुहा यत् |
आण्डेव भित्त्वा शकुनस्य गर्भम् उद् उस्रियाः पर्वतस्य त्मनाजत् ||
bṛ́haspátirámata hí tyádāsām nā́ma svarī́ṇām sádane gúhā yát ǀ
āṇḍéva bhittvā́ śakunásya gárbhamúdusríyāḥ párvatasya tmánājat ǁ
bṛhaspatir amata hi tyad āsāṃ nāma svarīṇāṃ sadane guhā yat |
āṇḍeva bhittvā śakunasya garbham ud usriyāḥ parvatasya tmanājat ||
Padapāṭha
बृह॒स्पतिः॑ । अम॑त । हि । त्यत् । आ॒सा॒म् । नाम॑ । स्व॒रीणा॑म् । सद॑ने । गुहा॑ । यत् ।
आ॒ण्डाऽइ॑व । भि॒त्त्वा । श॒कु॒नस्य॑ । गर्भ॑म् । उत् । उ॒स्रियाः॑ । पर्व॑तस्य । त्मना॑ । आ॒ज॒त् ॥
बृहस्पतिः । अमत । हि । त्यत् । आसाम् । नाम । स्वरीणाम् । सदने । गुहा । यत् ।
आण्डाऽइव । भित्त्वा । शकुनस्य । गर्भम् । उत् । उस्रियाः । पर्वतस्य । त्मना । आजत् ॥
bṛ́haspátiḥ ǀ ámata ǀ hí ǀ tyát ǀ āsām ǀ nā́ma ǀ svarī́ṇām ǀ sádane ǀ gúhā ǀ yát ǀ
āṇḍā́-iva ǀ bhittvā́ ǀ śakunásya ǀ gárbham ǀ út ǀ usríyāḥ ǀ párvatasya ǀ tmánā ǀ ājat ǁ
bṛhaspatiḥ ǀ amata ǀ hi ǀ tyat ǀ āsām ǀ nāma ǀ svarīṇām ǀ sadane ǀ guhā ǀ yat ǀ
āṇḍā-iva ǀ bhittvā ǀ śakunasya ǀ garbham ǀ ut ǀ usriyāḥ ǀ parvatasya ǀ tmanā ǀ ājat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.068.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.18.01
- Maṇḍala · Anuvāka · Ṛk
- 10.05.121
- Devatā देवता
- Bṛhaspati
- Ṛṣi ऋषि
- Ayāsya Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.