Ṛgveda · Maṇḍala 10 · Sūkta 68
Ṛk 10.68.4
Saṃhitā
आ॒प्रु॒षा॒यन्मधु॑न ऋ॒तस्य॒ योनि॑मवक्षि॒पन्न॒र्क उ॒ल्कामि॑व॒ द्योः ।
बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒ गा भूम्या॑ उ॒द्नेव॒ वि त्वचं॑ बिभेद ॥
आप्रुषायन् मधुन ऋतस्य योनिम् अवक्षिपन्न् अर्क उल्काम् इव द्योः |
बृहस्पतिर् उद्धरन्न् अश्मनो गा भूम्या उद्नेव वि त्वचम् बिभेद ||
āpruṣāyánmádhuna ṛtásya yónimavakṣipánnarká ulkā́miva dyóḥ ǀ
bṛ́haspátiruddhárannáśmano gā́ bhū́myā udnéva ví tvácam bibheda ǁ
āpruṣāyan madhuna ṛtasya yonim avakṣipann arka ulkām iva dyoḥ |
bṛhaspatir uddharann aśmano gā bhūmyā udneva vi tvacam bibheda ||
Padapāṭha
आ॒ऽप्रु॒षा॒यन् । मधु॑ना । ऋ॒तस्य॑ । योनि॑म् । अ॒व॒ऽक्षि॒पन् । अ॒र्कः । उ॒ल्काम्ऽइ॑व । द्योः ।
बृह॒स्पतिः॑ । उ॒द्धर॑न् । अश्म॑नः । गाः । भूम्याः॑ । उ॒द्नाऽइ॑व । वि । त्वच॑म् । बि॒भे॒द॒ ॥
आऽप्रुषायन् । मधुना । ऋतस्य । योनिम् । अवऽक्षिपन् । अर्कः । उल्काम्ऽइव । द्योः ।
बृहस्पतिः । उद्धरन् । अश्मनः । गाः । भूम्याः । उद्नाऽइव । वि । त्वचम् । बिभेद ॥
ā-pruṣāyán ǀ mádhunā ǀ ṛtásya ǀ yónim ǀ ava-kṣipán ǀ arkáḥ ǀ ulkā́m-iva ǀ dyóḥ ǀ
bṛ́haspátiḥ ǀ uddháran ǀ áśmanaḥ ǀ gā́ḥ ǀ bhū́myāḥ ǀ udnā́-iva ǀ ví ǀ tvácam ǀ bibheda ǁ
ā-pruṣāyan ǀ madhunā ǀ ṛtasya ǀ yonim ǀ ava-kṣipan ǀ arkaḥ ǀ ulkām-iva ǀ dyoḥ ǀ
bṛhaspatiḥ ǀ uddharan ǀ aśmanaḥ ǀ gāḥ ǀ bhūmyāḥ ǀ udnā-iva ǀ vi ǀ tvacam ǀ bibheda ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.068.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.17.04
- Maṇḍala · Anuvāka · Ṛk
- 10.05.118
- Devatā देवता
- Bṛhaspati
- Ṛṣi ऋषि
- Ayāsya Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.