Ṛgveda · Maṇḍala 10 · Sūkta 68

Ṛk 10.68.12

Bṛhaspati · Ayāsya Āṅgirasa

The whole sūkta Link

Saṃhitā

इ॒दम॑कर्म॒ नमो॑ अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति ।
बृह॒स्पतिः॒ स हि गोभिः॒ सो अश्वैः॒ स वी॒रेभिः॒ स नृभि॑र्नो॒ वयो॑ धात् ॥

इदम् अकर्म नमो अभ्रियाय यः पूर्वीर् अन्व् आनोनवीति |
बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर् नो वयो धात् ||

idámakarma námo abhriyā́ya yáḥ pūrvī́ránvānónavīti ǀ
bṛ́haspátiḥ sá hí góbhiḥ só áśvaiḥ sá vīrébhiḥ sá nṛ́bhirno váyo dhāt ǁ

idam akarma namo abhriyāya yaḥ pūrvīr anv ānonavīti |
bṛhaspatiḥ sa hi gobhiḥ so aśvaiḥ sa vīrebhiḥ sa nṛbhir no vayo dhāt ||

Padapāṭha

इ॒दम् । अ॒क॒र्म॒ । नमः॑ । अ॒भ्रि॒याय॑ । यः । पू॒र्वीः । अनु॑ । आ॒ऽनोन॑वीति ।
बृह॒स्पतिः॑ । सः । हि । गोभिः॑ । सः । अश्वः॑ । सः । वी॒रेभिः॑ । सः । नृऽभिः॑ । नः॒ । वयः॑ । धा॒त् ॥

इदम् । अकर्म । नमः । अभ्रियाय । यः । पूर्वीः । अनु । आऽनोनवीति ।
बृहस्पतिः । सः । हि । गोभिः । सः । अश्वः । सः । वीरेभिः । सः । नृऽभिः । नः । वयः । धात् ॥

idám ǀ akarma ǀ námaḥ ǀ abhriyā́ya ǀ yáḥ ǀ pūrvī́ḥ ǀ ánu ǀ ā-nónavīti ǀ
bṛ́haspátiḥ ǀ sáḥ ǀ hí ǀ góbhiḥ ǀ sáḥ ǀ áśvaḥ ǀ sáḥ ǀ vīrébhiḥ ǀ sáḥ ǀ nṛ́-bhiḥ ǀ naḥ ǀ váyaḥ ǀ dhāt ǁ

idam ǀ akarma ǀ namaḥ ǀ abhriyāya ǀ yaḥ ǀ pūrvīḥ ǀ anu ǀ ā-nonavīti ǀ
bṛhaspatiḥ ǀ saḥ ǀ hi ǀ gobhiḥ ǀ saḥ ǀ aśvaḥ ǀ saḥ ǀ vīrebhiḥ ǀ saḥ ǀ nṛ-bhiḥ ǀ naḥ ǀ vayaḥ ǀ dhāt ǁ

References

Maṇḍala · Sūkta · Ṛk
10.068.12
Aṣṭaka · Adhyāya · Varga · Ṛk
8.2.18.06
Maṇḍala · Anuvāka · Ṛk
10.05.126
Devatā देवता
Bṛhaspati
Ṛṣi ऋषि
Ayāsya Āṅgirasa
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.68.12

Interpretations

Sāyaṇa

अभ्रियायभ्रेषु भवायान्तरिक्ष्याय मध्यमाय बृहस्पतय इदमुक्तं नमः स्तोत्रमकर्म। वयमकार्ष्म। यो ब्रुहस्पतिः पूर्वीर्बह्वीरृचोऽन्वनुक्रमेणानोनवीति अत्यर्थमाभिमुख्येन ब्रवीति स ब्रुहस्पतिरेव गोभिरश्वैश्च युक्तं वीरेभिः पुत्रैर्नृभिर्भृत्यादिभिश्च सहितं वयोऽन्नं नोऽस्मभ्यं स्तोतृभ्यो धात्। दधातु। प्रयच्छतु। तच्छब्दावृत्तिरादरार्था॥१२॥