Ṛgveda · Maṇḍala 10 · Sūkta 68
Ṛk 10.68.2
Saṃhitā
सं गोभि॑रांगिर॒सो नक्ष॑माणो॒ भग॑ इ॒वेद॑र्य॒मणं॑ निनाय ।
जने॑ मि॒त्रो न दंप॑ती अनक्ति॒ बृह॑स्पते वा॒जया॒शूँरि॑वा॒जौ ॥
सं गोभिर् आङ्गिरसो नक्षमाणो भग इवेद् अर्यमणं निनाय |
जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूंर् इवाजौ ||
sám góbhirāṅgirasó nákṣamāṇo bhága ivédaryamáṇam nināya ǀ
jáne mitró ná dámpatī anakti bṛ́haspate vājáyāśū́m̐rivājáu ǁ
saṃ gobhir āṅgiraso nakṣamāṇo bhaga ived aryamaṇaṃ nināya |
jane mitro na dampatī anakti bṛhaspate vājayāśūṃr ivājau ||
Padapāṭha
सम् । गोभिः॑ । आ॒ङ्गि॒र॒सः । नक्ष॑माणः । भगः॑ऽइव । इत् । अ॒र्य॒मण॑म् । नि॒ना॒य॒ ।
जने॑ । मि॒त्रः । न । दम्प॑ती॒ इति॒ दम्ऽप॑ती । अ॒न॒क्ति॒ । बृह॑स्पते । वा॒जय॑ । आ॒शून्ऽइ॑व । आ॒जौ ॥
सम् । गोभिः । आङ्गिरसः । नक्षमाणः । भगःऽइव । इत् । अर्यमणम् । निनाय ।
जने । मित्रः । न । दम्पती इति दम्ऽपती । अनक्ति । बृहस्पते । वाजय । आशून्ऽइव । आजौ ॥
sám ǀ góbhiḥ ǀ āṅgirasáḥ ǀ nákṣamāṇaḥ ǀ bhágaḥ-iva ǀ ít ǀ aryamáṇam ǀ nināya ǀ
jáne ǀ mitráḥ ǀ ná ǀ dámpatī íti dám-patī ǀ anakti ǀ bṛ́haspate ǀ vājáya ǀ āśū́n-iva ǀ ājáu ǁ
sam ǀ gobhiḥ ǀ āṅgirasaḥ ǀ nakṣamāṇaḥ ǀ bhagaḥ-iva ǀ it ǀ aryamaṇam ǀ nināya ǀ
jane ǀ mitraḥ ǀ na ǀ dampatī iti dam-patī ǀ anakti ǀ bṛhaspate ǀ vājaya ǀ āśūn-iva ǀ ājau ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.068.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.17.02
- Maṇḍala · Anuvāka · Ṛk
- 10.05.116
- Devatā देवता
- Bṛhaspati
- Ṛṣi ऋषि
- Ayāsya Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.