Ṛgveda · Maṇḍala 10 · Sūkta 100
Ṛk 10.100.6
Saṃhitā
इंद्र॑स्य॒ नु सुकृ॑तं॒ दैव्यं॒ सहो॒ऽग्निर्गृ॒हे ज॑रि॒ता मेधि॑रः क॒विः ।
य॒ज्ञश्च॑ भूद्वि॒दथे॒ चारु॒रंत॑म॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
इन्द्रस्य नु सुकृतं दैव्यं सहो ऽग्निर् गृहे जरिता मेधिरः कविः |
यज्ञश् च भूद् विदथे चारुर् अन्तम आ सर्वतातिम् अदितिं वृणीमहे ||
índrasya nú súkṛtam dáivyam sáho’gnírgṛhé jaritā́ médhiraḥ kavíḥ ǀ
yajñáśca bhūdvidáthe cā́rurántama ā́ sarvátātimáditim vṛṇīmahe ǁ
indrasya nu sukṛtaṃ daivyaṃ saho 'gnir gṛhe jaritā medhiraḥ kaviḥ |
yajñaś ca bhūd vidathe cārur antama ā sarvatātim aditiṃ vṛṇīmahe ||
Padapāṭha
इन्द्र॑स्य । नु । सुऽकृ॑तम् । दैव्य॑म् । सहः॑ । अ॒ग्निः । गृ॒हे । ज॒रि॒ता । मेधि॑रः । क॒विः ।
य॒ज्ञः । च॒ । भू॒त् । वि॒दथे॑ । चारुः॑ । अन्त॑मः । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥
इन्द्रस्य । नु । सुऽकृतम् । दैव्यम् । सहः । अग्निः । गृहे । जरिता । मेधिरः । कविः ।
यज्ञः । च । भूत् । विदथे । चारुः । अन्तमः । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥
índrasya ǀ nú ǀ sú-kṛtam ǀ dáivyam ǀ sáhaḥ ǀ agníḥ ǀ gṛhé ǀ jaritā́ ǀ médhiraḥ ǀ kavíḥ ǀ
yajñáḥ ǀ ca ǀ bhūt ǀ vidáthe ǀ cā́ruḥ ǀ ántamaḥ ǀ ā́ ǀ sarvá-tātim ǀ áditim ǀ vṛṇīmahe ǁ
indrasya ǀ nu ǀ su-kṛtam ǀ daivyam ǀ sahaḥ ǀ agniḥ ǀ gṛhe ǀ jaritā ǀ medhiraḥ ǀ kaviḥ ǀ
yajñaḥ ǀ ca ǀ bhūt ǀ vidathe ǀ cāruḥ ǀ antamaḥ ǀ ā ǀ sarva-tātim ǀ aditim ǀ vṛṇīmahe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.100.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.16.06
- Maṇḍala · Anuvāka · Ṛk
- 10.09.006
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Duvasyu Vāndana
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.