Ṛgveda · Maṇḍala 10 · Sūkta 101
Ṛk 10.101.3
Saṃhitā
यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ॑ वपते॒ह बीजं॑ ।
गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ इत्सृ॒ण्यः॑ प॒क्वमेया॑त् ॥
युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् |
गिरा च श्रुष्टिः सभरा असन् नो नेदीय इत् सृण्यः पक्वम् एयात् ||
yunákta sī́rā ví yugā́ tanudhvam kṛté yónau vapatehá bī́jam ǀ
girā́ ca śruṣṭíḥ sábharā ásanno nédīya ítsṛṇyáḥ pakváméyāt ǁ
yunakta sīrā vi yugā tanudhvaṃ kṛte yonau vapateha bījam |
girā ca śruṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam eyāt ||
Padapāṭha
यु॒नक्त॑ । सीरा॑ । वि । यु॒गा । त॒नु॒ध्व॒म् । कृ॒ते । योनौ॑ । व॒प॒त॒ । इ॒ह । बीज॑म् ।
गि॒रा । च॒ । श्रु॒ष्टिः । सऽभ॑राः । अस॑त् । नः॒ । नेदी॑यः । इत् । सृ॒ण्यः॑ । प॒क्वम् । आ । इ॒या॒त् ॥
युनक्त । सीरा । वि । युगा । तनुध्वम् । कृते । योनौ । वपत । इह । बीजम् ।
गिरा । च । श्रुष्टिः । सऽभराः । असत् । नः । नेदीयः । इत् । सृण्यः । पक्वम् । आ । इयात् ॥
yunákta ǀ sī́rā ǀ ví ǀ yugā́ ǀ tanudhvam ǀ kṛté ǀ yónau ǀ vapata ǀ ihá ǀ bī́jam ǀ
girā́ ǀ ca ǀ śruṣṭíḥ ǀ sá-bharāḥ ǀ ásat ǀ naḥ ǀ nédīyaḥ ǀ ít ǀ sṛṇyáḥ ǀ pakvám ǀ ā́ ǀ iyāt ǁ
yunakta ǀ sīrā ǀ vi ǀ yugā ǀ tanudhvam ǀ kṛte ǀ yonau ǀ vapata ǀ iha ǀ bījam ǀ
girā ǀ ca ǀ śruṣṭiḥ ǀ sa-bharāḥ ǀ asat ǀ naḥ ǀ nedīyaḥ ǀ it ǀ sṛṇyaḥ ǀ pakvam ǀ ā ǀ iyāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.101.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.18.03
- Maṇḍala · Anuvāka · Ṛk
- 10.09.015
- Devatā देवता
- Viśvedevās Or A Praise Of Ṛtvij
- Ṛṣi ऋषि
- Budha Saumya
- Chandas छन्दस्
- Triṣṭubh, Gāyatrī, Jagatī, Bṛhatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.