Ṛgveda · Maṇḍala 10 · Sūkta 101

Ṛk 10.101.12

Viśvedevās Or A Praise Of Ṛtvij · Budha Saumya

The whole sūkta Link

Saṃhitā

कपृ॑न्नरः कपृ॒थमुद्द॑धातन चो॒दय॑त खु॒दत॒ वाज॑सातये ।
नि॒ष्टि॒ग्र्यः॑ पु॒त्रमा च्या॑वयो॒तय॒ इंद्रं॑ स॒बाध॑ इ॒ह सोम॑पीतये ॥

कपृन् नरः कपृथम् उद् दधातन चोदयत खुदत वाजसातये |
निष्टिग्र्यः पुत्रम् आ च्यावयोतय इन्द्रं सबाध इह सोमपीतये ||

kápṛnnaraḥ kapṛthámúddadhātana codáyata khudáta vā́jasātaye ǀ
niṣṭigryáḥ putrámā́ cyāvayotáya índram sabā́dha ihá sómapītaye ǁ

kapṛn naraḥ kapṛtham ud dadhātana codayata khudata vājasātaye |
niṣṭigryaḥ putram ā cyāvayotaya indraṃ sabādha iha somapītaye ||

Padapāṭha

कपृ॑त् । न॒रः॒ । क॒पृ॒थम् । उत् । द॒धा॒त॒न॒ । चो॒दय॑त । खु॒दत॑ । वाज॑ऽसातये ।
नि॒ष्टि॒ग्र्यः॑ । पु॒त्रम् । आ । च्य॒व॒य॒ । ऊ॒तये॑ । इन्द्र॑म् । स॒ऽबाधः॑ । इ॒ह । सोम॑ऽपीतये ॥

कपृत् । नरः । कपृथम् । उत् । दधातन । चोदयत । खुदत । वाजऽसातये ।
निष्टिग्र्यः । पुत्रम् । आ । च्यवय । ऊतये । इन्द्रम् । सऽबाधः । इह । सोमऽपीतये ॥

kápṛt ǀ naraḥ ǀ kapṛthám ǀ út ǀ dadhātana ǀ codáyata ǀ khudáta ǀ vā́ja-sātaye ǀ
niṣṭigryáḥ ǀ putrám ǀ ā́ ǀ cyavaya ǀ ūtáye ǀ índram ǀ sa-bā́dhaḥ ǀ ihá ǀ sóma-pītaye ǁ

kapṛt ǀ naraḥ ǀ kapṛtham ǀ ut ǀ dadhātana ǀ codayata ǀ khudata ǀ vāja-sātaye ǀ
niṣṭigryaḥ ǀ putram ǀ ā ǀ cyavaya ǀ ūtaye ǀ indram ǀ sa-bādhaḥ ǀ iha ǀ soma-pītaye ǁ

References

Maṇḍala · Sūkta · Ṛk
10.101.12
Aṣṭaka · Adhyāya · Varga · Ṛk
8.5.19.06
Maṇḍala · Anuvāka · Ṛk
10.09.024
Devatā देवता
Viśvedevās Or A Praise Of Ṛtvij
Ṛṣi ऋषि
Budha Saumya
Chandas छन्दस्
Triṣṭubh, Gāyatrī, Jagatī, Bṛhatī
Svara स्वरः
निषादः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.101.12

Interpretations

Sāyaṇa

उपोद्घातः

षष्ठेऽहनि ब्राह्मनाच्छन्ंसिशस्त्रे कपृन्नर इत्येषा। कृपन्नरो यद्ध प्राचीरजगन्तेति चैते। आ. ८-३। इति॥

हे नरो नेतार ऋत्विजः एष इन्द्रः कपृत्। सुखस्य पूरको यष्टॄणां स्तोतॄनां च। कमिति सखनाम। तं कपृथं सुखस्य पूरयितारमिन्द्रं चोदयत। प्रेरयत। खुदत। खुर्दत। क्रीअयत। खुर्द क्रीडायां भौवादिकः। व्यत्ययेनशः। रेफलोपश्छान्दसः। सम्पिंष्ट। संस्कुरुतेत्यर्थः। किमर्थं। वाजसातयेऽन्नस्य लाभा तदेवाह। हे होतः निष्ट्र्ग्र्यः पुत्रं । निश्टिं दितिं स्वसपत्नीं गिरतीति निष्टिग्रीरदितिः। तस्याः पुत्रमिन्द्रं सबाधः। सह पापैः प्रयासरूपैः कर्मभिर्बाध्यन्त इति सबाध ऋत्विजः। तथाविधा यूयं सोमपीतये तस्य सोमपानयोतयेऽस्माकं रक्षणाय वा च्यवय। व्यत्ययेनैकवचनम्। आच्यवयतेत्यर्थः॥१२॥