Ṛgveda · Maṇḍala 10 · Sūkta 101
Ṛk 10.101.7
Saṃhitā
प्री॒णी॒ताश्वा॑न्हि॒तं ज॑याथ स्वस्ति॒वाहं॒ रथ॒मित्कृ॑णुध्वं ।
द्रोणा॑हावमव॒तमश्म॑चक्र॒मंस॑त्रकोशं सिंचता नृ॒पाणं॑ ॥
प्रीणीताश्वान् हितं जयाथ स्वस्तिवाहं रथम् इत् कृणुध्वम् |
द्रोणाहावम् अवतम् अश्मचक्रम् अंसत्रकोशं सिञ्चता नृपाणम् ||
prīṇītā́śvānhitám jayātha svastivā́ham ráthamítkṛṇudhvam ǀ
dróṇāhāvamavatámáśmacakramáṃsatrakośam siñcatā nṛpā́ṇam ǁ
prīṇītāśvān hitaṃ jayātha svastivāhaṃ ratham it kṛṇudhvam |
droṇāhāvam avatam aśmacakram aṃsatrakośaṃ siñcatā nṛpāṇam ||
Padapāṭha
प्री॒णी॒त । अश्वा॑न् । हि॒तम् । ज॒या॒थ॒ । स्व॒स्ति॒ऽवाह॑म् । रथ॑म् । इत् । कृ॒णु॒ध्व॒म् ।
द्रोण॑ऽआहावम् । अ॒व॒तम् । अश्म॑ऽचक्रम् । अंस॑त्रऽकोशम् । सि॒ञ्च॒त॒ । नृ॒ऽपान॑म् ॥
प्रीणीत । अश्वान् । हितम् । जयाथ । स्वस्तिऽवाहम् । रथम् । इत् । कृणुध्वम् ।
द्रोणऽआहावम् । अवतम् । अश्मऽचक्रम् । अंसत्रऽकोशम् । सिञ्चत । नृऽपानम् ॥
prīṇītá ǀ áśvān ǀ hitám ǀ jayātha ǀ svasti-vā́ham ǀ rátham ǀ ít ǀ kṛṇudhvam ǀ
dróṇa-āhāvam ǀ avatám ǀ áśma-cakram ǀ áṃsatra-kośam ǀ siñcata ǀ nṛ-pā́nam ǁ
prīṇīta ǀ aśvān ǀ hitam ǀ jayātha ǀ svasti-vāham ǀ ratham ǀ it ǀ kṛṇudhvam ǀ
droṇa-āhāvam ǀ avatam ǀ aśma-cakram ǀ aṃsatra-kośam ǀ siñcata ǀ nṛ-pānam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.101.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.19.01
- Maṇḍala · Anuvāka · Ṛk
- 10.09.019
- Devatā देवता
- Viśvedevās Or A Praise Of Ṛtvij
- Ṛṣi ऋषि
- Budha Saumya
- Chandas छन्दस्
- Triṣṭubh, Gāyatrī, Jagatī, Bṛhatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.