Ṛgveda · Maṇḍala 10 · Sūkta 10
Ṛk 10.10.12
Saṃhitā
न वा उ॑ ते त॒न्वा॑ त॒न्वं१॒॑ सं प॑पृच्यां पा॒पमा॑हु॒र्यः स्वसा॑रं नि॒गच्छा॑त् ।
अ॒न्येन॒ मत्प्र॒मुदः॑ कल्पयस्व॒ न ते॒ भ्राता॑ सुभगे वष्ट्ये॒तत् ॥
न वा उ ते तन्वा तन्वं सम् पपृच्याम् पापम् आहुर् यः स्वसारं निगच्छात् |
अन्येन मत् प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्य् एतत् ||
ná vā́ u te tanvā́ tanvám sám papṛcyām pāpámāhuryáḥ svásāram nigácchāt ǀ
anyéna mátpramúdaḥ kalpayasva ná te bhrā́tā subhage vaṣṭyetát ǁ
na vā u te tanvā tanvaṃ sam papṛcyām pāpam āhur yaḥ svasāraṃ nigacchāt |
anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat ||
Padapāṭha
न । वै । ऊं॒ इति॑ । ते॒ । त॒न्वा॑ । त॒न्व॑म् । सम् । प॒पृ॒च्या॒म् । पा॒पम् । आ॒हुः॒ । यः । स्वसा॑रम् । नि॒ऽगच्छा॑त् ।
अ॒न्येन॑ । मत् । प्र॒ऽमुदः॑ । क॒ल्प॒य॒स्व॒ । न । ते॒ । भ्राता॑ । सु॒ऽभ॒गे॒ । व॒ष्टि॒ । ए॒तत् ॥
न । वै । ऊं इति । ते । तन्वा । तन्वम् । सम् । पपृच्याम् । पापम् । आहुः । यः । स्वसारम् । निऽगच्छात् ।
अन्येन । मत् । प्रऽमुदः । कल्पयस्व । न । ते । भ्राता । सुऽभगे । वष्टि । एतत् ॥
ná ǀ vái ǀ ūṃ íti ǀ te ǀ tanvā́ ǀ tanvám ǀ sám ǀ papṛcyām ǀ pāpám ǀ āhuḥ ǀ yáḥ ǀ svásāram ǀ ni-gácchāt ǀ
anyéna ǀ mát ǀ pra-múdaḥ ǀ kalpayasva ǀ ná ǀ te ǀ bhrā́tā ǀ su-bhage ǀ vaṣṭi ǀ etát ǁ
na ǀ vai ǀ ūṃ iti ǀ te ǀ tanvā ǀ tanvam ǀ sam ǀ papṛcyām ǀ pāpam ǀ āhuḥ ǀ yaḥ ǀ svasāram ǀ ni-gacchāt ǀ
anyena ǀ mat ǀ pra-mudaḥ ǀ kalpayasva ǀ na ǀ te ǀ bhrātā ǀ su-bhage ǀ vaṣṭi ǀ etat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.010.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.6.08.02
- Maṇḍala · Anuvāka · Ṛk
- 10.01.079
- Devatā देवता
- 1, 3, 5-7, 11, 13: Yama; 2, 4, 8-10, 12, 14: Yamī
- Ṛṣi ऋषि
- 1, 3, 5-7, 11, 13: Yamī Vaivasvatī; 2, 4, 8-10, 12, 14: Yama Vaivasvata
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.