Ṛgveda · Maṇḍala 10 · Sūkta 10
Ṛk 10.10.4
Saṃhitā
न यत्पु॒रा च॑कृ॒मा कद्ध॑ नू॒नमृ॒ता वदं॑तो॒ अनृ॑तं रपेम ।
गं॒ध॒र्वो अ॒प्स्वप्या॑ च॒ योषा॒ सा नो॒ नाभिः॑ पर॒मं जा॒मि तन्नौ॑ ॥
न यत् पुरा चकृमा कद् ध नूनम् ऋता वदन्तो अनृतं रपेम |
गन्धर्वो अप्स्व् अप्या च योषा सा नो नाभिः परमं जामि तन् नौ ||
ná yátpurā́ cakṛmā́ káddha nūnámṛtā́ vádanto ánṛtam rapema ǀ
gandharvó apsvápyā ca yóṣā sā́ no nā́bhiḥ paramám jāmí tánnau ǁ
na yat purā cakṛmā kad dha nūnam ṛtā vadanto anṛtaṃ rapema |
gandharvo apsv apyā ca yoṣā sā no nābhiḥ paramaṃ jāmi tan nau ||
Padapāṭha
न । यत् । पु॒रा । च॒कृ॒म । कत् । ह॒ । नू॒नम् । ऋ॒ता । वद॑न्तः । अनृ॑तम् । र॒पे॒म॒ ।
ग॒न्ध॒र्वः । अ॒प्ऽसु । अप्या॑ । च॒ । योषा॑ । सा । नः॒ । नाभिः॑ । प॒र॒मम् । जा॒मि । तत् । नौ॒ ॥
न । यत् । पुरा । चकृम । कत् । ह । नूनम् । ऋता । वदन्तः । अनृतम् । रपेम ।
गन्धर्वः । अप्ऽसु । अप्या । च । योषा । सा । नः । नाभिः । परमम् । जामि । तत् । नौ ॥
ná ǀ yát ǀ purā́ ǀ cakṛmá ǀ kát ǀ ha ǀ nūnám ǀ ṛtā́ ǀ vádantaḥ ǀ ánṛtam ǀ rapema ǀ
gandharváḥ ǀ ap-sú ǀ ápyā ǀ ca ǀ yóṣā ǀ sā́ ǀ naḥ ǀ nā́bhiḥ ǀ paramám ǀ jāmí ǀ tát ǀ nau ǁ
na ǀ yat ǀ purā ǀ cakṛma ǀ kat ǀ ha ǀ nūnam ǀ ṛtā ǀ vadantaḥ ǀ anṛtam ǀ rapema ǀ
gandharvaḥ ǀ ap-su ǀ apyā ǀ ca ǀ yoṣā ǀ sā ǀ naḥ ǀ nābhiḥ ǀ paramam ǀ jāmi ǀ tat ǀ nau ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.010.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.6.06.04
- Maṇḍala · Anuvāka · Ṛk
- 10.01.071
- Devatā देवता
- 1, 3, 5-7, 11, 13: Yama; 2, 4, 8-10, 12, 14: Yamī
- Ṛṣi ऋषि
- 1, 3, 5-7, 11, 13: Yamī Vaivasvatī; 2, 4, 8-10, 12, 14: Yama Vaivasvata
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.