Ṛgveda · Maṇḍala 10 · Sūkta 10
Ṛk 10.10.8
Saṃhitā
न ति॑ष्ठंति॒ न नि मि॑षंत्ये॒ते दे॒वानां॒ स्पश॑ इ॒ह ये चरं॑ति ।
अ॒न्येन॒ मदा॑हनो याहि॒ तूयं॒ तेन॒ वि वृ॑ह॒ रथ्ये॑व च॒क्रा ॥
न तिष्ठन्ति न नि मिषन्त्य् एते देवानां स्पश इह ये चरन्ति |
अन्येन मद् आहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ||
ná tiṣṭhanti ná ní miṣantyeté devā́nām spáśa ihá yé cáranti ǀ
anyéna mádāhano yāhi tū́yam téna ví vṛha ráthyeva cakrā́ ǁ
na tiṣṭhanti na ni miṣanty ete devānāṃ spaśa iha ye caranti |
anyena mad āhano yāhi tūyaṃ tena vi vṛha rathyeva cakrā ||
Padapāṭha
न । ति॒ष्ठ॒न्ति॒ । न । नि । मि॒ष॒न्ति॒ । ए॒ते । दे॒वाना॑म् । स्पशः॑ । इ॒ह । ये । चर॑न्ति ।
अ॒न्येन॑ । मत् । आ॒ह॒नः॒ । या॒हि॒ । तूय॑म् । तेन॑ । वि । वृ॒हे॒व॒ । रथ्या॑ऽइव । च॒क्रा ॥
न । तिष्ठन्ति । न । नि । मिषन्ति । एते । देवानाम् । स्पशः । इह । ये । चरन्ति ।
अन्येन । मत् । आहनः । याहि । तूयम् । तेन । वि । वृहेव । रथ्याऽइव । चक्रा ॥
ná ǀ tiṣṭhanti ǀ ná ǀ ní ǀ miṣanti ǀ eté ǀ devā́nām ǀ spáśaḥ ǀ ihá ǀ yé ǀ cáranti ǀ
anyéna ǀ mát ǀ āhanaḥ ǀ yāhi ǀ tū́yam ǀ téna ǀ ví ǀ vṛheva ǀ ráthyā-iva ǀ cakrā́ ǁ
na ǀ tiṣṭhanti ǀ na ǀ ni ǀ miṣanti ǀ ete ǀ devānām ǀ spaśaḥ ǀ iha ǀ ye ǀ caranti ǀ
anyena ǀ mat ǀ āhanaḥ ǀ yāhi ǀ tūyam ǀ tena ǀ vi ǀ vṛheva ǀ rathyā-iva ǀ cakrā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.010.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.6.07.03
- Maṇḍala · Anuvāka · Ṛk
- 10.01.075
- Devatā देवता
- 1, 3, 5-7, 11, 13: Yama; 2, 4, 8-10, 12, 14: Yamī
- Ṛṣi ऋषि
- 1, 3, 5-7, 11, 13: Yamī Vaivasvatī; 2, 4, 8-10, 12, 14: Yama Vaivasvata
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.