Ṛgveda · Maṇḍala 10 · Sūkta 10
Ṛk 10.10.5
Saṃhitā
गर्भे॒ नु नौ॑ जनि॒ता दंप॑ती कर्दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः ।
नकि॑रस्य॒ प्र मि॑नंति व्र॒तानि॒ वेद॑ नाव॒स्य पृ॑थि॒वी उ॒त द्यौः ॥
गर्भे नु नौ जनिता दम्पती कर् देवस् त्वष्टा सविता विश्वरूपः |
नकिर् अस्य प्र मिनन्ति व्रतानि वेद नाव् अस्य पृथिवी उत द्यौः ||
gárbhe nú nau janitā́ dámpatī kardevástváṣṭā savitā́ viśvárūpaḥ ǀ
nákirasya prá minanti vratā́ni véda nāvasyá pṛthivī́ utá dyáuḥ ǁ
garbhe nu nau janitā dampatī kar devas tvaṣṭā savitā viśvarūpaḥ |
nakir asya pra minanti vratāni veda nāv asya pṛthivī uta dyauḥ ||
Padapāṭha
गर्भे॑ । नु । नौ॒ । ज॒नि॒ता । दम्प॑ती॒ इति॒ दम्ऽप॑ती । कः॒ । दे॒वः । त्वष्टा॑ । स॒वि॒ता । वि॒श्वऽरू॑पः ।
नकिः॑ । अ॒स्य॒ । प्र । मि॒न॒न्ति॒ । व्र॒तानि॑ । वेद॑ । नौ॒ । अ॒स्य । पृ॒थि॒वी । उ॒त । द्यौः ॥
गर्भे । नु । नौ । जनिता । दम्पती इति दम्ऽपती । कः । देवः । त्वष्टा । सविता । विश्वऽरूपः ।
नकिः । अस्य । प्र । मिनन्ति । व्रतानि । वेद । नौ । अस्य । पृथिवी । उत । द्यौः ॥
gárbhe ǀ nú ǀ nau ǀ janitā́ ǀ dámpatī íti dám-patī ǀ kaḥ ǀ deváḥ ǀ tváṣṭā ǀ savitā́ ǀ viśvá-rūpaḥ ǀ
nákiḥ ǀ asya ǀ prá ǀ minanti ǀ vratā́ni ǀ véda ǀ nau ǀ asyá ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁ
garbhe ǀ nu ǀ nau ǀ janitā ǀ dampatī iti dam-patī ǀ kaḥ ǀ devaḥ ǀ tvaṣṭā ǀ savitā ǀ viśva-rūpaḥ ǀ
nakiḥ ǀ asya ǀ pra ǀ minanti ǀ vratāni ǀ veda ǀ nau ǀ asya ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.010.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.6.06.05
- Maṇḍala · Anuvāka · Ṛk
- 10.01.072
- Devatā देवता
- 1, 3, 5-7, 11, 13: Yama; 2, 4, 8-10, 12, 14: Yamī
- Ṛṣi ऋषि
- 1, 3, 5-7, 11, 13: Yamī Vaivasvatī; 2, 4, 8-10, 12, 14: Yama Vaivasvata
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.