Ṛgveda · Maṇḍala 10 · Sūkta 10
Ṛk 10.10.6
Saṃhitā
को अ॒स्य वे॑द प्रथ॒मस्याह्नः॒ क ईं॑ ददर्श॒ क इ॒ह प्र वो॑चत् ।
बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ कदु॑ ब्रव आहनो॒ वीच्या॒ नॄन् ॥
को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत् |
बृहन् मित्रस्य वरुणस्य धाम कद् उ ब्रव आहनो वीच्या नॄन् ||
kó asyá veda prathamásyā́hnaḥ ká īm dadarśa ká ihá prá vocat ǀ
bṛhánmitrásya váruṇasya dhā́ma kádu brava āhano vī́cyā nṝ́n ǁ
ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pra vocat |
bṛhan mitrasya varuṇasya dhāma kad u brava āhano vīcyā nṝn ||
Padapāṭha
कः । अ॒स्य । वे॒द॒ । प्र॒थ॒मस्य॑ । अह्नः॑ । कः । ई॒म् । द॒द॒र्श॒ । कः । इ॒ह । प्र । वो॒च॒त् ।
बृ॒हत् । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ । कत् । ऊं॒ इति॑ । ब्र॒वः॒ । आ॒ह॒नः॒ । वीच्या॑ । नॄन् ॥
कः । अस्य । वेद । प्रथमस्य । अह्नः । कः । ईम् । ददर्श । कः । इह । प्र । वोचत् ।
बृहत् । मित्रस्य । वरुणस्य । धाम । कत् । ऊं इति । ब्रवः । आहनः । वीच्या । नॄन् ॥
káḥ ǀ asyá ǀ veda ǀ prathamásya ǀ áhnaḥ ǀ káḥ ǀ īm ǀ dadarśa ǀ káḥ ǀ ihá ǀ prá ǀ vocat ǀ
bṛhát ǀ mitrásya ǀ váruṇasya ǀ dhā́ma ǀ kát ǀ ūṃ íti ǀ bravaḥ ǀ āhanaḥ ǀ vī́cyā ǀ nṝ́n ǁ
kaḥ ǀ asya ǀ veda ǀ prathamasya ǀ ahnaḥ ǀ kaḥ ǀ īm ǀ dadarśa ǀ kaḥ ǀ iha ǀ pra ǀ vocat ǀ
bṛhat ǀ mitrasya ǀ varuṇasya ǀ dhāma ǀ kat ǀ ūṃ iti ǀ bravaḥ ǀ āhanaḥ ǀ vīcyā ǀ nṝn ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.010.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.6.07.01
- Maṇḍala · Anuvāka · Ṛk
- 10.01.073
- Devatā देवता
- 1, 3, 5-7, 11, 13: Yama; 2, 4, 8-10, 12, 14: Yamī
- Ṛṣi ऋषि
- 1, 3, 5-7, 11, 13: Yamī Vaivasvatī; 2, 4, 8-10, 12, 14: Yama Vaivasvata
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.