Ṛgveda · Maṇḍala 10 · Sūkta 10
Ṛk 10.10.3
Saṃhitā
उ॒शंति॑ घा॒ ते अ॒मृता॑स ए॒तदेक॑स्य चित्त्य॒जसं॒ मर्त्य॑स्य ।
नि ते॒ मनो॒ मन॑सि धाय्य॒स्मे जन्युः॒ पति॑स्त॒न्व१॒॑मा वि॑विश्याः ॥
उशन्ति घा ते अमृतास एतद् एकस्य चित् त्यजसम् मर्त्यस्य |
नि ते मनो मनसि धाय्य् अस्मे जन्युः पतिस् तन्वम् आ विविश्याः ||
uśánti ghā té amṛ́tāsa etádékasya cittyajásam mártyasya ǀ
ní te máno mánasi dhāyyasmé jányuḥ pátistanvámā́ viviśyāḥ ǁ
uśanti ghā te amṛtāsa etad ekasya cit tyajasam martyasya |
ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviśyāḥ ||
Padapāṭha
उ॒शन्ति॑ । घ॒ । ते । अ॒मृता॑सः । ए॒तत् । एक॑स्य । चि॒त् । त्य॒जस॑म् । मर्त्य॑स्य ।
नि । ते॒ । मनः॑ । मन॑सि । धा॒यि॒ । अ॒स्मे इति॑ । जन्युः॑ । पतिः॑ । त॒न्व॑म् । आ । वि॒वि॒श्याः॒ ॥
उशन्ति । घ । ते । अमृतासः । एतत् । एकस्य । चित् । त्यजसम् । मर्त्यस्य ।
नि । ते । मनः । मनसि । धायि । अस्मे इति । जन्युः । पतिः । तन्वम् । आ । विविश्याः ॥
uśánti ǀ gha ǀ té ǀ amṛ́tāsaḥ ǀ etát ǀ ékasya ǀ cit ǀ tyajásam ǀ mártyasya ǀ
ní ǀ te ǀ mánaḥ ǀ mánasi ǀ dhāyi ǀ asmé íti ǀ jányuḥ ǀ pátiḥ ǀ tanvám ǀ ā́ ǀ viviśyāḥ ǁ
uśanti ǀ gha ǀ te ǀ amṛtāsaḥ ǀ etat ǀ ekasya ǀ cit ǀ tyajasam ǀ martyasya ǀ
ni ǀ te ǀ manaḥ ǀ manasi ǀ dhāyi ǀ asme iti ǀ janyuḥ ǀ patiḥ ǀ tanvam ǀ ā ǀ viviśyāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.010.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.6.06.03
- Maṇḍala · Anuvāka · Ṛk
- 10.01.070
- Devatā देवता
- 1, 3, 5-7, 11, 13: Yama; 2, 4, 8-10, 12, 14: Yamī
- Ṛṣi ऋषि
- 1, 3, 5-7, 11, 13: Yamī Vaivasvatī; 2, 4, 8-10, 12, 14: Yama Vaivasvata
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.