Ṛgveda · Maṇḍala 10 · Sūkta 88
Ṛk 10.88.11
Saṃhitā
य॒देदे॑न॒मद॑धुर्य॒ज्ञिया॑सो दि॒वि दे॒वाः सूर्य॑मादिते॒यं ।
य॒दा च॑रि॒ष्णू मि॑थु॒नावभू॑ता॒मादित्प्राप॑श्य॒न्भुव॑नानि॒ विश्वा॑ ॥
यदेद् एनम् अदधुर् यज्ञियासो दिवि देवाः सूर्यम् आदितेयम् |
यदा चरिष्णू मिथुनाव् अभूताम् आद् इत् प्रापश्यन् भुवनानि विश्वा ||
yadédenamádadhuryajñíyāso diví devā́ḥ sū́ryamāditeyám ǀ
yadā́ cariṣṇū́ mithunā́vábhūtāmā́dítprā́paśyanbhúvanāni víśvā ǁ
yaded enam adadhur yajñiyāso divi devāḥ sūryam āditeyam |
yadā cariṣṇū mithunāv abhūtām ād it prāpaśyan bhuvanāni viśvā ||
Padapāṭha
य॒दा । इत् । ए॒न॒म् । अद॑धुः । य॒ज्ञिया॑सः । दि॒वि । दे॒वाः । सूर्य॑म् । आ॒दि॒ते॒यम् ।
य॒दा । च॒रि॒ष्णू इति॑ । मि॒थु॒नौ । अभू॑ताम् । आत् । इत् । प्र । अ॒प॒श्य॒न् । भुव॑नानि । विश्वा॑ ॥
यदा । इत् । एनम् । अदधुः । यज्ञियासः । दिवि । देवाः । सूर्यम् । आदितेयम् ।
यदा । चरिष्णू इति । मिथुनौ । अभूताम् । आत् । इत् । प्र । अपश्यन् । भुवनानि । विश्वा ॥
yadā́ ǀ ít ǀ enam ǀ ádadhuḥ ǀ yajñíyāsaḥ ǀ diví ǀ devā́ḥ ǀ sū́ryam ǀ āditeyám ǀ
yadā́ ǀ cariṣṇū́ íti ǀ mithunáu ǀ ábhūtām ǀ ā́t ǀ ít ǀ prá ǀ apaśyan ǀ bhúvanāni ǀ víśvā ǁ
yadā ǀ it ǀ enam ǀ adadhuḥ ǀ yajñiyāsaḥ ǀ divi ǀ devāḥ ǀ sūryam ǀ āditeyam ǀ
yadā ǀ cariṣṇū iti ǀ mithunau ǀ abhūtām ǀ āt ǀ it ǀ pra ǀ apaśyan ǀ bhuvanāni ǀ viśvā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.088.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.12.01
- Maṇḍala · Anuvāka · Ṛk
- 10.07.106
- Devatā देवता
- Agni, Sūrya
- Ṛṣi ऋषि
- Mūrdhanvat Āṅgirasa Or Mūrdhanvat Vāmadevya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.