Ṛgveda · Maṇḍala 10 · Sūkta 88

Ṛk 10.88.8

Agni, Sūrya · Mūrdhanvat Āṅgirasa Or Mūrdhanvat Vāmadevya

The whole sūkta Link

Saṃhitā

सू॒क्त॒वा॒कं प्र॑थ॒ममादिद॒ग्निमादिद्ध॒विर॑जनयंत दे॒वाः ।
स ए॑षां य॒ज्ञो अ॑भवत्तनू॒पास्तं द्यौर्वे॑द॒ तं पृ॑थि॒वी तमापः॑ ॥

सूक्तवाकम् प्रथमम् आद् इद् अग्निम् आद् इद् धविर् अजनयन्त देवाः |
स एषां यज्ञो अभवत् तनूपास् तं द्यौर् वेद तम् पृथिवी तम् आपः ||

sūktavākám prathamámā́dídagnímā́díddhavírajanayanta devā́ḥ ǀ
sá eṣām yajñó abhavattanūpā́stám dyáurveda tám pṛthivī́ támā́paḥ ǁ

sūktavākam prathamam ād id agnim ād id dhavir ajanayanta devāḥ |
sa eṣāṃ yajño abhavat tanūpās taṃ dyaur veda tam pṛthivī tam āpaḥ ||

Padapāṭha

सू॒क्त॒ऽवा॒कम् । प्र॒थ॒मम् । आत् । इत् । अ॒ग्निम् । आत् । इत् । ह॒विः । अ॒ज॒न॒य॒न्त॒ । दे॒वाः ।
सः । ए॒षा॒म् । य॒ज्ञः । अ॒भ॒व॒त् । त॒नू॒ऽपाः । तम् । द्यौः । वे॒द॒ । तम् । पृ॒थि॒वी । तम् । आपः॑ ॥

सूक्तऽवाकम् । प्रथमम् । आत् । इत् । अग्निम् । आत् । इत् । हविः । अजनयन्त । देवाः ।
सः । एषाम् । यज्ञः । अभवत् । तनूऽपाः । तम् । द्यौः । वेद । तम् । पृथिवी । तम् । आपः ॥

sūkta-vākám ǀ prathamám ǀ ā́t ǀ ít ǀ agním ǀ ā́t ǀ ít ǀ havíḥ ǀ ajanayanta ǀ devā́ḥ ǀ
sáḥ ǀ eṣām ǀ yajñáḥ ǀ abhavat ǀ tanū-pā́ḥ ǀ tám ǀ dyáuḥ ǀ veda ǀ tám ǀ pṛthivī́ ǀ tám ǀ ā́paḥ ǁ

sūkta-vākam ǀ prathamam ǀ āt ǀ it ǀ agnim ǀ āt ǀ it ǀ haviḥ ǀ ajanayanta ǀ devāḥ ǀ
saḥ ǀ eṣām ǀ yajñaḥ ǀ abhavat ǀ tanū-pāḥ ǀ tam ǀ dyauḥ ǀ veda ǀ tam ǀ pṛthivī ǀ tam ǀ āpaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.088.08
Aṣṭaka · Adhyāya · Varga · Ṛk
8.4.11.03
Maṇḍala · Anuvāka · Ṛk
10.07.103
Devatā देवता
Agni, Sūrya
Ṛṣi ऋषि
Mūrdhanvat Āṅgirasa Or Mūrdhanvat Vāmadevya
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.88.8

Interpretations

Ralph T. H. Griffith

First the Gods brought the hymnal into being; then they engendered Agni, then oblation. He was their sacrifice that guards our bodies: him the heavens know, the earth, the waters know him.