Ṛgveda · Maṇḍala 10 · Sūkta 88

Ṛk 10.88.4

Agni, Sūrya · Mūrdhanvat Āṅgirasa Or Mūrdhanvat Vāmadevya

The whole sūkta Link

Saṃhitā

यो होतासी॑त्प्रथ॒मो दे॒वजु॑ष्टो॒ यं स॒मांज॒न्नाज्ये॑ना वृणा॒नाः ।
स प॑त॒त्री॑त्व॒रं स्था जग॒द्यच्छ्वा॒त्रम॒ग्निर॑कृणोज्जा॒तवे॑दाः ॥

यो होतासीत् प्रथमो देवजुष्टो यं समाञ्जन्न् आज्येना वृणानाः |
स पतत्रीत्वरं स्था जगद् यच् छ्वात्रम् अग्निर् अकृणोज् जातवेदाः ||

yó hótā́sītprathamó devájuṣṭo yám samā́ñjannā́jyenā vṛṇānā́ḥ ǀ
sá patatrī́tvarám sthā́ jágadyácchvātrámagnírakṛṇojjātávedāḥ ǁ

yo hotāsīt prathamo devajuṣṭo yaṃ samāñjann ājyenā vṛṇānāḥ |
sa patatrītvaraṃ sthā jagad yac chvātram agnir akṛṇoj jātavedāḥ ||

Padapāṭha

यः । होता॑ । आसी॑त् । प्र॒थ॒मः । दे॒वऽजु॑ष्टः । यम् । स॒म्ऽआञ्ज॑न् । आज्ये॑न । वृ॒णा॒नाः ।
सः । प॒त॒त्रि । इ॒त्व॒रम् । स्थाः । जग॑त् । यत् । श्वा॒त्रम् । अ॒ग्निः । अ॒कृ॒णो॒त् । जा॒तऽवे॑दाः ॥

यः । होता । आसीत् । प्रथमः । देवऽजुष्टः । यम् । सम्ऽआञ्जन् । आज्येन । वृणानाः ।
सः । पतत्रि । इत्वरम् । स्थाः । जगत् । यत् । श्वात्रम् । अग्निः । अकृणोत् । जातऽवेदाः ॥

yáḥ ǀ hótā ǀ ā́sīt ǀ prathamáḥ ǀ devá-juṣṭaḥ ǀ yám ǀ sam-ā́ñjan ǀ ā́jyena ǀ vṛṇānā́ḥ ǀ
sáḥ ǀ patatrí ǀ itvarám ǀ sthā́ḥ ǀ jágat ǀ yát ǀ śvātrám ǀ agníḥ ǀ akṛṇot ǀ jātá-vedāḥ ǁ

yaḥ ǀ hotā ǀ āsīt ǀ prathamaḥ ǀ deva-juṣṭaḥ ǀ yam ǀ sam-āñjan ǀ ājyena ǀ vṛṇānāḥ ǀ
saḥ ǀ patatri ǀ itvaram ǀ sthāḥ ǀ jagat ǀ yat ǀ śvātram ǀ agniḥ ǀ akṛṇot ǀ jāta-vedāḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.088.04
Aṣṭaka · Adhyāya · Varga · Ṛk
8.4.10.04
Maṇḍala · Anuvāka · Ṛk
10.07.099
Devatā देवता
Agni, Sūrya
Ṛṣi ऋषि
Mūrdhanvat Āṅgirasa Or Mūrdhanvat Vāmadevya
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.88.4

Interpretations

Ralph T. H. Griffith

Earliest Priest whom all the Gods accepted, and chose him, and anointed him with butter, He swiftly made all things that fly, stand, travel, all that hath motion, Agni Jātavedas.