Ṛgveda · Maṇḍala 10 · Sūkta 88
Ṛk 10.88.17
Saṃhitā
यत्रा॒ वदे॑ते॒ अव॑रः॒ पर॑श्च यज्ञ॒न्योः॑ कत॒रो नौ॒ वि वे॑द ।
आ शे॑कु॒रित्स॑ध॒मादं॒ सखा॑यो॒ नक्षं॑त य॒ज्ञं क इ॒दं वि वो॑चत् ॥
यत्रा वदेते अवरः परश् च यज्ञन्योः कतरो नौ वि वेद |
आ शेकुर् इत् सधमादं सखायो नक्षन्त यज्ञं क इदं वि वोचत् ||
yátrā vádete ávaraḥ páraśca yajñanyóḥ kataró nau ví veda ǀ
ā́ śekurítsadhamā́dam sákhāyo nákṣanta yajñám ká idám ví vocat ǁ
yatrā vadete avaraḥ paraś ca yajñanyoḥ kataro nau vi veda |
ā śekur it sadhamādaṃ sakhāyo nakṣanta yajñaṃ ka idaṃ vi vocat ||
Padapāṭha
यत्र॑ । वदे॑ते॒ इति॑ । अव॑रः । परः॑ । च॒ । य॒ज्ञ॒ऽन्योः॑ । क॒त॒रः । नौ॒ । वि । वे॒द॒ ।
आ । शे॒कुः॒ । इत् । स॒ध॒ऽमाद॑म् । सखा॑यः । नक्ष॑न्त । य॒ज्ञम् । कः । इ॒दम् । वि । वो॒च॒त् ॥
यत्र । वदेते इति । अवरः । परः । च । यज्ञऽन्योः । कतरः । नौ । वि । वेद ।
आ । शेकुः । इत् । सधऽमादम् । सखायः । नक्षन्त । यज्ञम् । कः । इदम् । वि । वोचत् ॥
yátra ǀ vádete íti ǀ ávaraḥ ǀ páraḥ ǀ ca ǀ yajña-nyóḥ ǀ kataráḥ ǀ nau ǀ ví ǀ veda ǀ
ā́ ǀ śekuḥ ǀ ít ǀ sadha-mā́dam ǀ sákhāyaḥ ǀ nákṣanta ǀ yajñám ǀ káḥ ǀ idám ǀ ví ǀ vocat ǁ
yatra ǀ vadete iti ǀ avaraḥ ǀ paraḥ ǀ ca ǀ yajña-nyoḥ ǀ kataraḥ ǀ nau ǀ vi ǀ veda ǀ
ā ǀ śekuḥ ǀ it ǀ sadha-mādam ǀ sakhāyaḥ ǀ nakṣanta ǀ yajñam ǀ kaḥ ǀ idam ǀ vi ǀ vocat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.088.17
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.13.02
- Maṇḍala · Anuvāka · Ṛk
- 10.07.112
- Devatā देवता
- Agni, Sūrya
- Ṛṣi ऋषि
- Mūrdhanvat Āṅgirasa Or Mūrdhanvat Vāmadevya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.