Rām, 1, 24
Select a line for its word-by-word analysis.
श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ॥ (१।२)
śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṃ giram ||
विश्वामित्रो ऽब्रवीद् वाक्यं शृणु येन बलोत्तरा । (३।१)
viśvāmitro 'bravīd vākyaṃ śṛṇu yena balottarā |
पूर्वम् आसीन् महायक्षः सुकेतुर् नाम वीर्यवान् । (४।१)
pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān |
न त्व् एव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः ॥ (६।२)
na tv eva putraṃ yakṣāya dadau brahmā mahāyaśāḥ ||
तां तु जातां विवर्धन्तीं रूपयौवनशालिनीम् । (७।१)
tāṃ tu jātāṃ vivardhantīṃ rūpayauvanaśālinīm |
जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् ॥ (७।२)
jambhaputrāya sundāya dadau bhāryāṃ yaśasvinīm ||
कस्यचित् त्व् अथ कालस्य यक्षी पुत्रं व्यजायत । (८।१)
kasyacit tv atha kālasya yakṣī putraṃ vyajāyata |
मारीचं नाम दुर्धर्षं यः शापाद् राक्षसो ऽभवत् ॥ (८।२)
mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso 'bhavat ||
राक्षसत्वं भजस्वेति मारीचं व्याजहार सः । (१०।१)
rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ |
अगस्त्यः परमक्रुद्धस् ताटकाम् अपि शप्तवान् ॥ (१०।२)
agastyaḥ paramakruddhas tāṭakām api śaptavān ||
देशम् उत्सादयत्य् एनम् अगस्त्यचरितं शुभम् ॥ (१२।२)
deśam utsādayaty enam agastyacaritaṃ śubham ||
एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् । (१३।१)
enāṃ rāghava durvṛttāṃ yakṣīṃ paramadāruṇām |
गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ॥ (१३।२)
gobrāhmaṇahitārthāya jahi duṣṭaparākramām ||
न ह्य् एनां शापसंसृष्टां कश्चिद् उत्सहते पुमान् । (१४।१)
na hy enāṃ śāpasaṃsṛṣṭāṃ kaścid utsahate pumān |
निहन्तुं त्रिषु लोकेषु त्वाम् ऋते रघुनन्दन ॥ (१४।२)
nihantuṃ triṣu lokeṣu tvām ṛte raghunandana ||
न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम । (१५।१)
na hi te strīvadhakṛte ghṛṇā kāryā narottama |
चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना ॥ (१५।२)
cāturvarṇyahitārthāya kartavyaṃ rājasūnunā ||
अधर्म्यां जहि काकुत्स्थ धर्मो ह्य् अस्या न विद्यते ॥ (१६।२)
adharmyāṃ jahi kākutstha dharmo hy asyā na vidyate ||
पृथिवीं हन्तुम् इच्छन्तीं मन्थराम् अभ्यसूदयत् ॥ (१७।२)
pṛthivīṃ hantum icchantīṃ mantharām abhyasūdayat ||
अनिन्द्रं लोकम् इच्छन्ती काव्यमाता निषूदिता ॥ (१८।२)
anindraṃ lokam icchantī kāvyamātā niṣūditā ||
एतैश् चान्यैश् च बहुभी राजपुत्रमहात्मभिः । (१९।१)
etaiś cānyaiś ca bahubhī rājaputramahātmabhiḥ |
Data courtesy of The Digital Corpus of Sanskrit.