Rām, 2, 16
Select a line for its word-by-word analysis.
रामेत्य् उक्त्वा च वचनं बाष्पपर्याकुलेक्षणः । (३।१)
rāmety uktvā ca vacanaṃ bāṣpaparyākulekṣaṇaḥ |
तद् अपूर्वं नरपतेर् दृष्ट्वा रूपं भयावहम् । (४।१)
tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham |
रामो ऽपि भयम् आपन्नः पदा स्पृष्ट्वेव पन्नगम् ॥ (४।२)
rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam ||
इन्द्रियैर् अप्रहृष्टैस् तं शोकसंतापकर्शितम् । (५।१)
indriyair aprahṛṣṭais taṃ śokasaṃtāpakarśitam |
ऊर्मिमालिनम् अक्षोभ्यं क्षुभ्यन्तम् इव सागरम् । (६।१)
ūrmimālinam akṣobhyaṃ kṣubhyantam iva sāgaram |
अचिन्त्यकल्पं हि पितुस् तं शोकम् उपधारयन् । (७।१)
acintyakalpaṃ hi pitus taṃ śokam upadhārayan |
किंस्विद् अद्यैव नृपतिर् न मां प्रत्यभिनन्दति ॥ (८।२)
kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati ||
अन्यदा मां पिता दृष्ट्वा कुपितो ऽपि प्रसीदति । (९।१)
anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati |
तस्य माम् अद्य सम्प्रेक्ष्य किमायासः प्रवर्तते ॥ (९।२)
tasya mām adya samprekṣya kimāyāsaḥ pravartate ||
कैकेयीम् अभिवाद्यैव रामो वचनम् अब्रवीत् ॥ (१०।२)
kaikeyīm abhivādyaiva rāmo vacanam abravīt ||
कच्चिन् मया नापराधम् अज्ञानाद् येन मे पिता । (११।१)
kaccin mayā nāparādham ajñānād yena me pitā |
कुपितस् तन् ममाचक्ष्व त्वं चैवैनं प्रसादय ॥ (११।२)
kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya ||
संतापो वाभितापो वा दुर्लभं हि सदा सुखम् ॥ (१२।३)
saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham ||
कच्चिन् न किंचिद् भरते कुमारे प्रियदर्शने । (१३।१)
kaccin na kiṃcid bharate kumāre priyadarśane |
शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम् ॥ (१३।२)
śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham ||
मुहूर्तम् अपि नेच्छेयं जीवितुं कुपिते नृपे ॥ (१४।२)
muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe ||
यतोमूलं नरः पश्येत् प्रादुर्भावम् इहात्मनः । (१५।१)
yatomūlaṃ naraḥ paśyet prādurbhāvam ihātmanaḥ |
कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते ॥ (१५।२)
kathaṃ tasmin na varteta pratyakṣe sati daivate ||
कच्चित् ते परुषं किंचिद् अभिमानात् पिता मम । (१६।१)
kaccit te paruṣaṃ kiṃcid abhimānāt pitā mama |
उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः ॥ (१६।२)
ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ ||
एतद् आचक्ष्व मे देवि तत्त्वेन परिपृच्छतः । (१७।१)
etad ācakṣva me devi tattvena paripṛcchataḥ |
किंनिमित्तम् अपूर्वो ऽयं विकारो मनुजाधिपे ॥ (१७।२)
kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe ||
भक्षयेयं विषं तीक्ष्णं मज्जेयम् अपि चार्णवे । (१८।२)
bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave |
तद् ब्रूहि वचनं देवि राज्ञो यद् अभिकाङ्क्षितम् । (१९।१)
tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam |
करिष्ये प्रतिजाने च रामो द्विर् नाभिभाषते ॥ (१९।२)
kariṣye pratijāne ca rāmo dvir nābhibhāṣate ||
यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुम् इच्छसि । (२३।१)
yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi |
आत्मानं च नरश्रेष्ठ मम वाक्यम् इदं शृणु ॥ (२३।२)
ātmānaṃ ca naraśreṣṭha mama vākyam idaṃ śṛṇu ||
स निदेशे पितुस् तिष्ठ यथा तेन प्रतिश्रुतम् । (२४।१)
sa nideśe pitus tiṣṭha yathā tena pratiśrutam |
त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च ॥ (२४।२)
tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca ||
सप्त सप्त च वर्षाणि दण्डकारण्यम् आश्रितः । (२५।१)
sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ |
श्रुत्वा न विव्यथे रामः कैकेयीं चेदम् अब्रवीत् ॥ (२७।२)
śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt ||
एवम् अस्तु गमिष्यामि वनं वस्तुम् अहं त्व् अतः । (२८।१)
evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ |
इदं तु ज्ञातुम् इच्छामि किमर्थं मां महीपतिः । (२९।१)
idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ |
नाभिनन्दति दुर्धर्षो यथापुरम् अरिंदमः ॥ (२९।२)
nābhinandati durdharṣo yathāpuram ariṃdamaḥ ||
मन्युर् न च त्वया कार्यो देवि ब्रूहि तवाग्रतः । (३०।१)
manyur na ca tvayā kāryo devi brūhi tavāgrataḥ |
नियुज्यमानो विश्रब्धं किं न कुर्याद् अहं प्रियम् ॥ (३१।२)
niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam ||
स्वयं यन् नाह मां राजा भरतस्याभिषेचनम् ॥ (३२।२)
svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam ||
अहं हि सीतां राज्यं च प्राणान् इष्टान् धनानि च । (३३।१)
ahaṃ hi sītāṃ rājyaṃ ca prāṇān iṣṭān dhanāni ca |
हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः ॥ (३३।२)
hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ ||
किं पुनर् मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः । (३४।१)
kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ |
तव च प्रियकामार्थं प्रतिज्ञाम् अनुपालयन् ॥ (३४।२)
tava ca priyakāmārthaṃ pratijñām anupālayan ||
तद् आश्वासय हीमं त्वं किं न्व् इदं यन् महीपतिः । (३५।१)
tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ |
गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर् हयैः । (३६।१)
gacchantu caivānayituṃ dūtāḥ śīghrajavair hayaiḥ |
दण्डकारण्यम् एषो ऽहम् इतो गच्छामि सत्वरः । (३७।१)
daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ |
अविचार्य पितुर् वाक्यं समावस्तुं चतुर्दश ॥ (३७।२)
avicārya pitur vākyaṃ samāvastuṃ caturdaśa ||
सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकेयी । (३८।१)
sā hṛṣṭā tasya tadvākyaṃ śrutvā rāmasya kaikeyī |
प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम् ॥ (३८।२)
prasthānaṃ śraddadhānā hi tvarayāmāsa rāghavam ||
एवं भवतु यास्यन्ति दूताः शीघ्रजवैर् हयैः । (३९।१)
evaṃ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ |
तव त्व् अहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् । (४०।१)
tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam |
राम तस्माद् इतः शीघ्रं वनं त्वं गन्तुम् अर्हसि ॥ (४०।२)
rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi ||
व्रीडान्वितः स्वयं यच् च नृपस् त्वां नाभिभाषते । (४१।१)
vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate |
नैतत् किंचिन् नरश्रेष्ठ मन्युर् एषो ऽपनीयताम् ॥ (४१।२)
naitat kiṃcin naraśreṣṭha manyur eṣo 'panīyatām ||
यावत् त्वं न वनं यातः पुराद् अस्माद् अभित्वरन् । (४२।१)
yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran |
पिता तावन् न ते राम स्नास्यते भोक्ष्यते ऽपि वा ॥ (४२।२)
pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā ||
धिक् कष्टम् इति निःश्वस्य राजा शोकपरिप्लुतः । (४३।१)
dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ |
मूर्छितो न्यपतत् तस्मिन् पर्यङ्के हेमभूषिते ॥ (४३।२)
mūrchito nyapatat tasmin paryaṅke hemabhūṣite ||
रामो ऽप्य् उत्थाप्य राजानं कैकेय्याभिप्रचोदितः । (४४।१)
rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ |
श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यम् अब्रवीत् ॥ (४५।२)
śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyam abravīt ||
नाहम् अर्थपरो देवि लोकम् आवस्तुम् उत्सहे । (४६।१)
nāham arthaparo devi lokam āvastum utsahe |
विद्धि माम् ऋषिभिस् तुल्यं केवलं धर्मम् आस्थितम् ॥ (४६।२)
viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam ||
यद् अत्रभवतः किंचिच् छक्यं कर्तुं प्रियं मया । (४७।१)
yad atrabhavataḥ kiṃcic chakyaṃ kartuṃ priyaṃ mayā |
प्राणान् अपि परित्यज्य सर्वथा कृतम् एव तत् ॥ (४७।२)
prāṇān api parityajya sarvathā kṛtam eva tat ||
न ह्य् अतो धर्मचरणं किंचिद् अस्ति महत्तरम् । (४८।१)
na hy ato dharmacaraṇaṃ kiṃcid asti mahattaram |
अनुक्तो ऽप्य् अत्रभवता भवत्या वचनाद् अहम् । (४९।१)
anukto 'py atrabhavatā bhavatyā vacanād aham |
न नूनं मयि कैकेयि किंचिद् आशंससे गुणम् । (५०।१)
na nūnaṃ mayi kaikeyi kiṃcid āśaṃsase guṇam |
यद् राजानम् अवोचस् त्वं ममेश्वरतरा सती ॥ (५०।२)
yad rājānam avocas tvaṃ mameśvaratarā satī ||
यावन् मातरम् आपृच्छे सीतां चानुनयाम्य् अहम् । (५१।१)
yāvan mātaram āpṛcche sītāṃ cānunayāmy aham |
ततो ऽद्यैव गमिष्यामि दण्डकानां महद् वनम् ॥ (५१।२)
tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam ||
भरतः पालयेद् राज्यं शुश्रूषेच् च पितुर् यथा । (५२।१)
bharataḥ pālayed rājyaṃ śuśrūṣec ca pitur yathā |
तथा भवत्या कर्तव्यं स हि धर्मः सनातनः ॥ (५२।२)
tathā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ ||
स रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता । (५३।१)
sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā |
शोकाद् अशक्नुवन् बाष्पं प्ररुरोद महास्वनम् ॥ (५३।२)
śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam ||
वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस् तदा । (५४।१)
vanditvā caraṇau rāmo visaṃjñasya pitus tadā |
कैकेय्याश् चाप्य् अनार्याया निष्पपात महाद्युतिः ॥ (५४।२)
kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ ||
स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम् । (५५।१)
sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam |
निष्क्रम्यान्तःपुरात् तस्मात् स्वं ददर्श सुहृज्जनम् ॥ (५५।२)
niṣkramyāntaḥpurāt tasmāt svaṃ dadarśa suhṛjjanam ||
तं बाष्पपरिपूर्णाक्षः पृष्ठतो ऽनुजगाम ह । (५६।१)
taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha |
लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः ॥ (५६।२)
lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ ||
आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् । (५७।१)
ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam |
शनैर् जगाम सापेक्षो दृष्टिं तत्राविचालयन् ॥ (५७।२)
śanair jagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan ||
न चास्य महतीं लक्ष्मीं राज्यनाशो ऽपकर्षति । (५८।१)
na cāsya mahatīṃ lakṣmīṃ rājyanāśo 'pakarṣati |
लोककान्तस्य कान्तत्वं शीतरश्मेर् इव क्षपा ॥ (५८।२)
lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā ||
न वनं गन्तुकामस्य त्यजतश् च वसुंधराम् । (५९।१)
na vanaṃ gantukāmasya tyajataś ca vasuṃdharām |
धारयन् मनसा दुःखम् इन्द्रियाणि निगृह्य च । (६०।१)
dhārayan manasā duḥkham indriyāṇi nigṛhya ca |
प्रविवेशात्मवान् वेश्म मातुर् अप्रियशंसिवान् ॥ (६०।२)
praviveśātmavān veśma mātur apriyaśaṃsivān ||
प्रविश्य वेश्मातिभृशं मुदान्वितं समीक्ष्य तां चार्थविपत्तिम् आगताम् । (६१।१)
praviśya veśmātibhṛśaṃ mudānvitaṃ samīkṣya tāṃ cārthavipattim āgatām |
न चैव रामो ऽत्र जगाम विक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया ॥ (६१।२)
na caiva rāmo 'tra jagāma vikriyāṃ suhṛjjanasyātmavipattiśaṅkayā ||
Data courtesy of The Digital Corpus of Sanskrit.