Rām, 2, 49
Select a line for its word-by-word analysis.
महर्षिम् अभिवाद्याथ जग्मतुस् तं गिरिं प्रति ॥ (१।२)
maharṣim abhivādyātha jagmatus taṃ giriṃ prati ||
प्रस्थितांश् चैव तान् प्रेक्ष्य पिता पुत्रान् इवान्वगात् । (२।१)
prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt |
अथासाद्य तु कालिन्दीं शीघ्रस्रोतसम् आपगाम् । (३।१)
athāsādya tu kālindīṃ śīghrasrotasam āpagām |
तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम् ॥ (३।२)
tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm ||
ततो न्यग्रोधम् आसाद्य महान्तं हरितच्छदम् । (४।१)
tato nyagrodham āsādya mahāntaṃ haritacchadam |
विवृद्धं बहुभिर् वृक्षैः श्यामं सिद्धोपसेवितम् ॥ (४।२)
vivṛddhaṃ bahubhir vṛkṣaiḥ śyāmaṃ siddhopasevitam ||
क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् । (५।१)
krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam |
रम्यो मार्दवयुक्तश् च वनदावैर् विवर्जितः । (६।२)
ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ |
उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणम् अब्रवीत् । (७।१)
upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt |
कृतपुण्याः स्म सौमित्रे मुनिर् यन् नो ऽनुकम्पते ॥ (७।२)
kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate ||
इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ । (८।१)
iti tau puruṣavyāghrau mantrayitvā manasvinau |
सीताम् एवाग्रतः कृत्वा कालिन्दीं जग्मतुर् नदीम् ॥ (८।२)
sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm ||
तौ काष्ठसंघाटम् अथो चक्रतुः सुमहाप्लवम् । (९।१)
tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam |
चकार लक्ष्मणश् छित्त्वा सीतायाः सुखम् आसनम् ॥ (९।२)
cakāra lakṣmaṇaś chittvā sītāyāḥ sukham āsanam ||
तत्र श्रियम् इवाचिन्त्यां रामो दाशरथिः प्रियाम् । (१०।१)
tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām |
ईषत् संलज्जमानां ताम् अध्यारोपयत प्लवम् ॥ (१०।२)
īṣat saṃlajjamānāṃ tām adhyāropayata plavam ||
ततः प्लवेनांशुमतीं शीघ्रगाम् ऊर्मिमालिनीम् । (११।१)
tataḥ plavenāṃśumatīṃ śīghragām ūrmimālinīm |
तीरजैर् बहुभिर् वृक्षैः संतेरुर् यमुनां नदीम् ॥ (११।२)
tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm ||
ते तीर्णाः प्लवम् उत्सृज्य प्रस्थाय यमुनावनात् । (१२।१)
te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt |
श्यामं न्यग्रोधम् आसेदुः शीतलं हरितच्छदम् ॥ (१२।२)
śyāmaṃ nyagrodham āseduḥ śītalaṃ haritacchadam ||
कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम् । (१३।१)
kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm |
इति सीताञ्जलिं कृत्वा पर्यगच्छद् वनस्पतिम् ॥ (१३।२)
iti sītāñjaliṃ kṛtvā paryagacchad vanaspatim ||
क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ । (१४।१)
krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau |
बहून् मेध्यान् मृगान् हत्वा चेरतुर् यमुनावने ॥ (१४।२)
bahūn medhyān mṛgān hatvā ceratur yamunāvane ||
विहृत्य ते बर्हिणपूगनादिते शुभे वने वारणवानरायुते । (१५।१)
vihṛtya te barhiṇapūganādite śubhe vane vāraṇavānarāyute |
समं नदीवप्रम् उपेत्य संमतं निवासम् आजग्मुर् अदीनदर्शनाः ॥ (१५।२)
samaṃ nadīvapram upetya saṃmataṃ nivāsam ājagmur adīnadarśanāḥ ||
Data courtesy of The Digital Corpus of Sanskrit.