Rām, 4, 28
Select a line for its word-by-word analysis.
समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम् । (२।१)
samṛddhārthaṃ ca sugrīvaṃ mandadharmārthasaṃgraham |
निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा । (३।१)
nivṛttakāryaṃ siddhārthaṃ pramadābhirataṃ sadā |
प्राप्तवन्तम् अभिप्रेतान् सर्वान् एव मनोरथान् ॥ (३।२)
prāptavantam abhipretān sarvān eva manorathān ||
स्वां च पत्नीम् अभिप्रेतां तारां चापि समीप्सिताम् । (४।१)
svāṃ ca patnīm abhipretāṃ tārāṃ cāpi samīpsitām |
क्रीडन्तम् इव देवेशं नन्दने ऽप्सरसां गणैः । (५।१)
krīḍantam iva deveśaṃ nandane 'psarasāṃ gaṇaiḥ |
मन्त्रिषु न्यस्तकार्यं च मन्त्रिणाम् अनवेक्षकम् ॥ (५।२)
mantriṣu nyastakāryaṃ ca mantriṇām anavekṣakam ||
निश्चितार्थो ऽर्थतत्त्वज्ञः कालधर्मविशेषवित् ॥ (६।२)
niścitārtho 'rthatattvajñaḥ kāladharmaviśeṣavit ||
प्रसाद्य वाक्यैर् मधुरैर् हेतुमद्भिर् मनोरमैः । (७।१)
prasādya vākyair madhurair hetumadbhir manoramaiḥ |
वाक्यविद् वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः ॥ (७।२)
vākyavid vākyatattvajñaṃ harīśaṃ mārutātmajaḥ ||
हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमत् । (८।१)
hitaṃ tathyaṃ ca pathyaṃ ca sāmadharmārthanītimat |
हरीश्वरम् उपागम्य हनुमान् वाक्यम् अब्रवीत् ॥ (८।३)
harīśvaram upāgamya hanumān vākyam abravīt ||
राज्यं प्राप्तं यशश् चैव कौली श्रीर् अभिवर्धिता । (९।१)
rājyaṃ prāptaṃ yaśaś caiva kaulī śrīr abhivardhitā |
मित्राणां संग्रहः शेषस् तद् भवान् कर्तुम् अर्हति ॥ (९।२)
mitrāṇāṃ saṃgrahaḥ śeṣas tad bhavān kartum arhati ||
यो हि मित्रेषु कालज्ञः सततं साधु वर्तते । (१०।१)
yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate |
तस्य राज्यं च कीर्तिश् च प्रतापश् चाभिवर्धते ॥ (१०।२)
tasya rājyaṃ ca kīrtiś ca pratāpaś cābhivardhate ||
यस्य कोशश् च दण्डश् च मित्राण्य् आत्मा च भूमिप । (११।१)
yasya kośaś ca daṇḍaś ca mitrāṇy ātmā ca bhūmipa |
तद् भवान् वृत्तसम्पन्नः स्थितः पथि निरत्यये । (१२।१)
tad bhavān vṛttasampannaḥ sthitaḥ pathi niratyaye |
मित्रार्थम् अभिनीतार्थं यथावत् कर्तुम् अर्हति ॥ (१२।२)
mitrārtham abhinītārthaṃ yathāvat kartum arhati ||
यस् तु कालव्यतीतेषु मित्रकार्येषु वर्तते । (१३।१)
yas tu kālavyatīteṣu mitrakāryeṣu vartate |
स कृत्वा महतो ऽप्य् अर्थान् न मित्रार्थेन युज्यते ॥ (१३।२)
sa kṛtvā mahato 'py arthān na mitrārthena yujyate ||
क्रियतां राघवस्यैतद् वैदेह्याः परिमार्गणम् । (१४।१)
kriyatāṃ rāghavasyaitad vaidehyāḥ parimārgaṇam |
तद् इदं वीर कार्यं ते कालातीतम् अरिंदम ॥ (१४।२)
tad idaṃ vīra kāryaṃ te kālātītam ariṃdama ||
त्वरमाणो ऽपि सन् प्राज्ञस् तव राजन् वशानुगः ॥ (१५।२)
tvaramāṇo 'pi san prājñas tava rājan vaśānugaḥ ||
कुलस्य केतुः स्फीतस्य दीर्घबन्धुश् च राघवः । (१६।१)
kulasya ketuḥ sphītasya dīrghabandhuś ca rāghavaḥ |
अप्रमेयप्रभावश् च स्वयं चाप्रतिमो गुणैः ॥ (१६।२)
aprameyaprabhāvaś ca svayaṃ cāpratimo guṇaiḥ ||
तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव । (१७।१)
tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava |
हरीश्वर हरिश्रेष्ठान् आज्ञापयितुम् अर्हसि ॥ (१७।२)
harīśvara hariśreṣṭhān ājñāpayitum arhasi ||
न हि तावद् भवेत् कालो व्यतीतश् चोदनाद् ऋते । (१८।१)
na hi tāvad bhavet kālo vyatītaś codanād ṛte |
चोदितस्य हि कार्यस्य भवेत् कालव्यतिक्रमः ॥ (१८।२)
coditasya hi kāryasya bhavet kālavyatikramaḥ ||
अकर्तुर् अपि कार्यस्य भवान् कर्ता हरीश्वर । (१९।१)
akartur api kāryasya bhavān kartā harīśvara |
किं पुनः प्रतिकर्तुस् ते राज्येन च धनेन च ॥ (१९।२)
kiṃ punaḥ pratikartus te rājyena ca dhanena ca ||
शक्तिमान् असि विक्रान्तो वानरर्क्षगणेश्वर । (२०।१)
śaktimān asi vikrānto vānararkṣagaṇeśvara |
कर्तुं दाशरथेः प्रीतिम् आज्ञायां किं नु सज्जसे ॥ (२०।२)
kartuṃ dāśaratheḥ prītim ājñāyāṃ kiṃ nu sajjase ||
वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते ॥ (२१।२)
vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate ||
प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम् । (२२।१)
prāṇatyāgāviśaṅkena kṛtaṃ tena tava priyam |
तस्य मार्गाम वैदेहीं पृथिव्याम् अपि चाम्बरे ॥ (२२।२)
tasya mārgāma vaidehīṃ pṛthivyām api cāmbare ||
न देवा न च गन्धर्वा नासुरा न मरुद्गणाः । (२३।१)
na devā na ca gandharvā nāsurā na marudgaṇāḥ |
न च यक्षा भयं तस्य कुर्युः किम् उत राक्षसाः ॥ (२३।२)
na ca yakṣā bhayaṃ tasya kuryuḥ kim uta rākṣasāḥ ||
तद् एवं शक्तियुक्तस्य पूर्वं प्रियकृतस् तथा । (२४।१)
tad evaṃ śaktiyuktasya pūrvaṃ priyakṛtas tathā |
रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम् ॥ (२४।२)
rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam ||
नाधस्ताद् अवनौ नाप्सु गतिर् नोपरि चाम्बरे । (२५।१)
nādhastād avanau nāpsu gatir nopari cāmbare |
कस्यचित् सज्जते ऽस्माकं कपीश्वर तवाज्ञया ॥ (२५।२)
kasyacit sajjate 'smākaṃ kapīśvara tavājñayā ||
तद् आज्ञापय कः किं ते कृते वसतु कुत्रचित् । (२६।१)
tad ājñāpaya kaḥ kiṃ te kṛte vasatu kutracit |
हरयो ह्य् अप्रधृष्यास् ते सन्ति कोट्यग्रतो ऽनघ ॥ (२६।२)
harayo hy apradhṛṣyās te santi koṭyagrato 'nagha ||
तस्य तद्वचनं श्रुत्वा काले साधुनिवेदितम् । (२७।१)
tasya tadvacanaṃ śrutvā kāle sādhuniveditam |
सुग्रीवः सत्त्वसम्पन्नश् चकार मतिम् उत्तमाम् ॥ (२७।२)
sugrīvaḥ sattvasampannaś cakāra matim uttamām ||
दिक्षु सर्वासु सर्वेषां सैन्यानाम् उपसंग्रहे ॥ (२८।२)
dikṣu sarvāsu sarveṣāṃ sainyānām upasaṃgrahe ||
यथा सेना समग्रा मे यूथपालाश् च सर्वशः । (२९।१)
yathā senā samagrā me yūthapālāś ca sarvaśaḥ |
समागच्छन्त्य् असङ्गेन सेनाग्राणि तथा कुरु ॥ (२९।२)
samāgacchanty asaṅgena senāgrāṇi tathā kuru ||
ये त्व् अन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः । (३०।१)
ye tv antapālāḥ plavagāḥ śīghragā vyavasāyinaḥ |
समानयन्तु ते सैन्यं त्वरिताः शासनान् मम । (३०।२)
samānayantu te sainyaṃ tvaritāḥ śāsanān mama |
स्वयं चानन्तरं सैन्यं भवान् एवानुपश्यतु ॥ (३०।३)
svayaṃ cānantaraṃ sainyaṃ bhavān evānupaśyatu ||
त्रिपञ्चरात्राद् ऊर्ध्वं यः प्राप्नुयान् नेह वानरः । (३१।१)
tripañcarātrād ūrdhvaṃ yaḥ prāpnuyān neha vānaraḥ |
तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा ॥ (३१।२)
tasya prāṇāntiko daṇḍo nātra kāryā vicāraṇā ||
हरींश् च वृद्धान् उपयातु साङ्गदो भवान् ममाज्ञाम् अधिकृत्य निश्चिताम् । (३२।१)
harīṃś ca vṛddhān upayātu sāṅgado bhavān mamājñām adhikṛtya niścitām |
इति व्यवस्थां हरिपुंगवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान् ॥ (३२।२)
iti vyavasthāṃ haripuṃgaveśvaro vidhāya veśma praviveśa vīryavān ||
Data courtesy of The Digital Corpus of Sanskrit.