Rām, 2, 71
Select a line for its word-by-word analysis.
द्वादशे ऽहनि सम्प्राप्ते श्राद्धकर्माण्य् अकारयत् ॥ (१।२)
dvādaśe 'hani samprāpte śrāddhakarmāṇy akārayat ||
ब्राह्मणेभ्यो ददौ रत्नं धनम् अन्नं च पुष्कलम् । (२।१)
brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam |
बास्तिकं बहुशुक्लं च गाश् चापि शतशस् तथा ॥ (२।२)
bāstikaṃ bahuśuklaṃ ca gāś cāpi śataśas tathā ||
ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस् तस्यौर्ध्वदैहिकम् ॥ (३।२)
brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam ||
चितामूले पितुर् वाक्यम् इदम् आह सुदुःखितः ॥ (५।२)
citāmūle pitur vākyam idam āha suduḥkhitaḥ ||
तात यस्मिन् निसृष्टो ऽहं त्वया भ्रातरि राघवे । (६।१)
tāta yasmin nisṛṣṭo 'haṃ tvayā bhrātari rāghave |
तस्मिन् वनं प्रव्रजिते शून्ये त्यक्तो ऽस्म्य् अहं त्वया ॥ (६।२)
tasmin vanaṃ pravrajite śūnye tyakto 'smy ahaṃ tvayā ||
यथागतिर् अनाथायाः पुत्रः प्रव्राजितो वनम् । (७।१)
yathāgatir anāthāyāḥ putraḥ pravrājito vanam |
ताम् अम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतो नृप ॥ (७।२)
tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa ||
दृष्ट्वा भस्मारुणं तच् च दग्धास्थिस्थानमण्डलम् । (८।१)
dṛṣṭvā bhasmāruṇaṃ tac ca dagdhāsthisthānamaṇḍalam |
उत्थाप्यमानः शक्रस्य यन्त्रध्वज इव च्युतः ॥ (९।२)
utthāpyamānaḥ śakrasya yantradhvaja iva cyutaḥ ||
अभिपेतुस् ततः सर्वे तस्यामात्याः शुचिव्रतम् । (१०।१)
abhipetus tataḥ sarve tasyāmātyāḥ śucivratam |
शत्रुघ्नश् चापि भरतं दृष्ट्वा शोकपरिप्लुतम् । (११।१)
śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam |
विसंज्ञो न्यपतद् भूमौ भूमिपालम् अनुस्मरन् ॥ (११।२)
visaṃjño nyapatad bhūmau bhūmipālam anusmaran ||
स्मृत्वा पितुर् गुणाङ्गानि तानि तानि तदा तदा ॥ (१२।२)
smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā ||
मन्थराप्रभवस् तीव्रः कैकेयीग्राहसंकुलः । (१३।१)
mantharāprabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ |
वरदानमयो ऽक्षोभ्यो ऽमज्जयच् छोकसागरः ॥ (१३।२)
varadānamayo 'kṣobhyo 'majjayac chokasāgaraḥ ||
क्व तात भरतं हित्वा विलपन्तं गतो भवान् ॥ (१४।२)
kva tāta bharataṃ hitvā vilapantaṃ gato bhavān ||
ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च । (१५।१)
nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca |
प्रवारयसि नः सर्वांस् तन् नः को ऽद्य करिष्यति ॥ (१५।२)
pravārayasi naḥ sarvāṃs tan naḥ ko 'dya kariṣyati ||
विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना ॥ (१६।२)
vihīnā yā tvayā rājñā dharmajñena mahātmanā ||
पितरि स्वर्गम् आपन्ने रामे चारण्यम् आश्रिते । (१७।१)
pitari svargam āpanne rāme cāraṇyam āśrite |
किं मे जीवितसामर्थ्यं प्रवेक्ष्यामि हुताशनम् ॥ (१७।२)
kiṃ me jīvitasāmarthyaṃ pravekṣyāmi hutāśanam ||
हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकुपालिताम् । (१८।१)
hīno bhrātrā ca pitrā ca śūnyām ikṣvākupālitām |
अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् ॥ (१८।२)
ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam ||
तयोर् विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् । (१९।१)
tayor vilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat |
ततो विषण्णौ श्रान्तौ च शत्रुघ्नभरताव् उभौ । (२०।१)
tato viṣaṇṇau śrāntau ca śatrughnabharatāv ubhau |
धरण्यां संव्यचेष्टेतां भग्नशृङ्गाव् इवर्षभौ ॥ (२०।२)
dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau ||
ततः प्रकृतिमान् वैद्यः पितुर् एषां पुरोहितः । (२१।१)
tataḥ prakṛtimān vaidyaḥ pitur eṣāṃ purohitaḥ |
वसिष्ठो भरतं वाक्यम् उत्थाप्य तम् उवाच ह ॥ (२१।२)
vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha ||
त्रीणि द्वंद्वानि भूतेषु प्रवृत्तान्य् अविशेषतः । (२२।१)
trīṇi dvaṃdvāni bhūteṣu pravṛttāny aviśeṣataḥ |
सुमन्त्रश् चापि शत्रुघ्नम् उत्थाप्याभिप्रसाद्य च । (२३।१)
sumantraś cāpi śatrughnam utthāpyābhiprasādya ca |
उत्थितौ तौ नरव्याघ्रौ प्रकाशेते यशस्विनौ । (२४।१)
utthitau tau naravyāghrau prakāśete yaśasvinau |
वर्षातपपरिक्लिन्नौ पृथग् इन्द्रध्वजाव् इव ॥ (२४।२)
varṣātapapariklinnau pṛthag indradhvajāv iva ||
अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ । (२५।१)
aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau |
अमात्यास् त्वरयन्ति स्म तनयौ चापराः क्रियाः ॥ (२५।२)
amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ ||
Data courtesy of The Digital Corpus of Sanskrit.